मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २०

3
ब्रह्मपुराणम् · 20

अध्यायः २०

लोमहर्षण उवाच:

क्षारोदेन यथा द्वीपो जम्बूसञ्ज्ञोऽभिवेष्टितः । संवेष्ट्य क्षारम् उदधिं प्लक्षद्वीपस् तथा स्थितः

॥१॥

जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः । स एव द्विगुणो विप्राः प्लक्षद्वीपेऽप्य् उदाहृतः

॥२॥

सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । श्रेष्ठः शान्तभयो नाम शिशिरस् तदनन्तरम्

॥३॥

सुखोदयस् तथानन्दः शिवः क्षेमक एव च । ध्रुवश् च सप्तमस् तेषां प्लक्षद्वीपेश्वरा हि ते

॥४॥

पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा । आनन्दं च शिवं चैव क्षेमकं ध्रुवम् एव च

॥५॥

मर्यादाकारकास् तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां नामानि शृणुध्वं मुनिसत्तमाः

॥६॥

गोमेदश् चैव चन्द्रश् च नारदो दन्दुभिस् तथा । सोमकः सुमनाः शैलो वैभ्राजश् चैव सप्तमः

॥७॥

वर्षाचलेषु रम्येषु वर्षेष्व् एतेषु चानघाः । वसन्ति देवगन्धर्वसहिताः सहितं प्रजाः

॥८॥

तेषु पुण्या जनपदा वीरा न म्रियते जनः । नाधयो व्याधयो वापि सर्वकालसुखं हि तत्

॥९॥

तेषां नद्यश् च सप्तैव वर्षाणां तु समुद्रगाः । नामतस् ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः

॥१०॥

अनुतप्ता शिखा चैव विप्राशा त्रिदिवा क्रमुः । अमृता सुकृता चैव सप्तैतास् तत्र निम्नगाः

॥११॥

एते शैलास् तथा नद्यः प्रधानाः कथिता द्विजाः । क्षुद्रनद्यस् तथा शैलास् तत्र सन्ति सहस्रशः

॥१२॥

ताः पिबन्ति सदा हृष्टा नदीर् जनपदास् तु ते । अवसर्पिणी नदी तेषां न चैवोत्सर्पिणी द्विजाः

॥१३॥

न तेष्व् अस्ति युगावस्था तेषु स्थानेषु सप्तसु । त्रेतायुगसमः कालः सर्वदैव द्विजोत्तमाः

॥१४॥

प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै । पञ्चवर्षसहस्राणि जना जीवन्त्य् अनामयाः

॥१५॥

धर्मश् चतुर्विधस् तेषु वर्णाश्रमविभागजः । वर्णाश् च तत्र चत्वारस् तान् बुधाः प्रवदामि वः

॥१६॥

आर्यकाः कुरवश् चैव विविश्वा भाविनश् च ये । विप्रक्षत्रियवैश्यास् ते शूद्राश् च मुनिसत्तमाः

॥१७॥

जम्बूवृक्षप्रमाणस् तु तन्मध्ये सुमहातरुः । प्लक्षस् तन्नामसञ्ज्ञोऽयं प्लक्षद्वीपो द्विजोत्तमाः

॥१८॥

इज्यते तत्र भगवांस् तैर् वर्णैर् आर्यकादिभिः । सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः

॥१९॥

प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । तथैवेक्षुरसोदेन परिवेषानुकारिणा

॥२०॥

इत्य् एतद् वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः । सङ्क्षेपेण मया भूयः शाल्मलं तं निबोधत

॥२१॥

शाल्मलस्येश्वरो वीरो वपुष्मांस् तत्सुता द्विजाः । तेषां तु नाम सञ्ज्ञानि सप्तवर्षाणि तानि वै

॥२२॥

श्वेतोऽथ हरितश् चैव जीमूतो रोहितस् तथा । वैद्युतो मानसश् चैव सुप्रभश् च द्विजोत्तमाः

॥२३॥

शाल्मनश् च समुद्रोऽसौ द्वीपेनेक्षुरसोदकः । विस्ताराद् द्विगुणेनाथ सर्वतः संवृतः स्थितः

॥२४॥

तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । वर्षाभिव्यञ्जकास् ते तु तथा सप्तैव निम्नगाः

॥२५॥

कुमुदश् चोन्नतश् चैव तृतीयस् तु बलाहकः । द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः

॥२६॥

कङ्कस् तु पञ्चमः षष्ठो महिषः सप्तमस् तथा । ककुद्मान् पर्वतवरः सरिन्नामान्य् अतो द्विजाः

॥२७॥

श्रोणी तोया वितृष्णा च चन्द्रा शुक्रा विमोचनी । निवृत्तिः सप्तमी तासां स्मृतास् ताः पापशान्तिदाः

॥२८॥

श्वेतं च लोहितं चैव जीमूतं हरितं तथा । वैद्युतं मानसं चैव सुप्रभं नाम सप्तमम्

॥२९॥

सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि च । वर्णाश् च शाल्मले ये च वसन्त्य् एषु द्विजोत्तमाः

॥३०॥

कपिलाश् चारुणाः पीताः कृष्णाश् चैव पृथक् पृथक् । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव यजन्ति तम्

॥३१॥

भगवन्तं समस्तस्य विष्णुम् आत्मानम् अव्ययम् । वायुभूतं मखश्रेष्ठैर् यज्वानो यज्ञसंस्थितम्

॥३२॥

देवानाम् अत्र सान्निध्यम् अतीव सुमनोहरे । शाल्मलिश् च महावृक्षो नामनिर्वृत्तिकारकः

॥३३॥

एष द्वीपः समुद्रेण सुरोदेन समावृतः । विस्ताराच् छाल्मलेश् चैव समेन तु समन्ततः

॥३४॥

सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः

॥३५॥

ज्योतिष्मतः कुशद्वीपे शृणुध्वं तस्य पुत्रकान् । उद्भिदो वेणुमांश् चैव स्वैरथो रन्धनो धृतिः

॥३६॥

प्रभाकरोऽथ कपिलस् तन्नाम्ना वर्षपद्धतिः । तस्यां वसन्ति मनुजैः सह दैतेयदानवाः

॥३७॥

तथैव देवगन्धर्वा यक्षकिम्पुरुषादयः । वर्णास् तत्रापि चत्वारो निजानुष्ठानतत्पराः

॥३८॥

दमिनः शुष्मिणः स्नेहा मान्दहाश् च द्विजोत्तमाः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चानुक्रमोदिताः

॥३९॥

यथोक्तकर्मकर्तृत्वात् स्वाधिकारक्षयाय ते । तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम्

॥४०॥

यजन्तः क्षपयन्त्य् उग्रम् अधिकारफलप्रदम् । विद्रुमो हेमशैलश् च द्युतिमान् पुष्टिमांस् तथा

॥४१॥

कुशेशयो हरिश् चैव सप्तमो मन्दराचलः । वर्षाचलास् तु सप्तैते द्वीपे तत्र द्विजोत्तमाः

॥४२॥

नद्यश् च सप्त तासां तु वक्ष्ये नामान्य् अनुक्रमात् । धूतपापा शिवा चैव पवित्रा सम्मतिस् तथा

॥४३॥

विद्युद् अम्भो मही चान्या सर्वपापहरास् त्व् इमाः । अन्याः सहस्रशस् तत्र क्षुद्रनद्यस् तथाचलाः

॥४४॥

कुशद्वीपे कुशस्तम्बः सञ्ज्ञया तस्य तत् स्मृतम् । तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः

॥४५॥

घृतोदश् च समुद्रो वै क्रौञ्चद्वीपेन संवृतः । क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान्

॥४६॥

कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः । क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः

॥४७॥

तन्नामानि च वर्षाणि तेषां चक्रे महामनाः । कुशगो मन्दगश् चोष्णः पीवरोऽथान्धकारकः

॥४८॥

मुनिश् च दुन्दुभिश् चैव सप्तैते तत्सुता द्विजाः । तत्रापि देवगन्धर्वसेविताः सुमनोरमाः

॥४९॥

वर्षाचला मुनिश्रेष्ठास् तेषां नामानि भो द्विजाः । क्रौञ्चश् च वामनश् चैव तृतीयश् चान्धकारकः

॥५०॥

देवव्रतो धमश् चैव तथान्यः पुण्डरीकवान् । दुन्दुभिश् च महाशैलो द्विगुणास् ते परस्परम्

॥५१॥

द्वीपाद् द्वीपेषु ये शैलास् तथा द्वीपानि ते तथा । वर्षेष्व् एतेषु रम्येषु वर्षशैलवरेषु च

॥५२॥

निवसन्ति निरातङ्काः सह देवगणैः प्रजाः । पुष्कला पुष्करा धन्यास् ते ख्याताश् च द्विजोत्तमाः

॥५३॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चानुक्रमोदिताः । तत्र नद्यो मुनिश्रेष्ठा याः पिबन्ति तु ते सदा

॥५४॥

सप्त प्रधानाः शतशस् तथान्याः क्षुद्रनिम्नगाः । गौरी कुमुद्वती चैव सन्ध्या रात्रिर् मनोजवा

॥५५॥

ख्यातिश् च पुण्डरीका च सप्तैता वर्षनिम्नगाः । तत्रापि वर्णैर् भगवान् पुष्कराद्यैर् जनार्दनः

॥५६॥

ध्यानयोगै रुद्ररूप ईज्यते यज्ञसन्निधौ । क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु

॥५७॥

आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः । दधिमण्डोदकश् चापि शाकद्वीपेन संवृतः

॥५८॥

क्रौञ्चद्वीपस्य विस्तारद्विगुणेन द्विजोत्तमाः । शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः

॥५९॥

सप्तैव तनयास् तेषां ददौ वर्षाणि सप्त सः । जलदश् च कुमारश् च सुकुमारो मनीरकः

॥६०॥

कुसमोदश् च मोदाकिः सप्तमश् च महाद्रुमः । तत्सञ्ज्ञान्य् एव तत्रापि सप्त वर्षाण्य् अनुक्रमात्

॥६१॥

तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः । पूर्वस् तत्रोदयगिरिर् जलधारस् तथापरः

॥६२॥

तथा रैवतकः श्यामस् तथैवाम्भोगिरिर् द्विजाः । आस्तिकेयस् तथा रम्यः केसरी पर्वतोत्तमः

॥६३॥

शाकश् चात्र महावृक्षः सिद्धगन्धर्वसेवितः । यत्पत्त्रवातसंस्पर्शाद् आह्लादो जायते परः

॥६४॥

तत्र पुण्या जनपदाश् चातुर्वर्ण्यसमन्विताः । निवसन्ति महात्मानो निरातङ्का निरामयाः

॥६५॥

नद्यश् चात्र महापुण्याः सर्वपापभयापहाः । सुकुमारी कुमारी च नलिनी रेणुका च या

॥६६॥

इक्षुश् च धेनुका चैव गभस्ती सप्तमी तथा । अन्यास् त्व् अयुतशस् तत्र क्षुद्रनद्यो द्विजोत्तमाः

॥६७॥

महीधरास् तथा सन्ति शतशोऽथ सहस्रशः । ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः

॥६८॥

वर्षेषु ये जनपदाश् चतुर्थार्थसमन्विताः । नद्यश् चात्र महापुण्याः स्वर्गाद् अभ्येत्य मेदिनीम्

॥६९॥

धर्महानिर् न तेष्व् अस्ति न संहर्षो न शुक् तथा । मर्यादाव्युत्क्रमश् चापि तेषु देशेषु सप्तसु

॥७०॥

मगाश् च मागधाश् चैव मानसा मन्दगास् तथा । मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास् तु ते

॥७१॥

वैश्यास् तु मानसास् तेषां शूद्रा ज्ञेयास् तु मन्दगाः । शाकद्वीपे स्थितैर् विष्णुः सूर्यरूपधरो हरिः

॥७२॥

यथोक्तैर् इज्यते सम्यक् कर्मभिर् नियतात्मभिः । शाकद्वीपस् ततो विप्राः क्षीरोदेन समन्ततः

॥७३॥

शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः । क्षीराब्धिः सर्वतो विप्राः पुष्कराख्येन वेष्टितः

॥७४॥

द्वीपेन शाकद्वीपात् तु द्विगुणेन समन्ततः । पुष्करे सवनस्यापि महावीतोऽभवत् सुतः

॥७५॥

धातकिश् च तयोस् तद्वद् द्वे वर्षे नामसञ्ज्ञिते । महावीतं तथैवान्यद् धातकीखण्डसञ्ज्ञितम्

॥७६॥

एकश् चात्र महाभागाः प्रख्यातो वर्षपर्वतः । मानसोत्तरसञ्ज्ञो वै मध्यतो वलयाकृतिः

॥७७॥

योजनानां सहस्राणि ऊर्ध्वं पञ्चाशद् उच्छ्रितः । तावद् एव च विस्तीर्णः सर्वतः परिमण्डलः

॥७८॥

पुष्करद्वीपवलयं मध्येन विभजन्न् इव । स्थितोऽसौ तेन विच्छिन्नं जातं वर्षद्वयं हि तत्

॥७९॥

वलयाकारम् एकैकं तयोर् मध्ये महागिरिः । दशवर्षसहस्राणि तत्र जीवन्ति मानवाः

॥८०॥

निरामया विशोकाश् च रागद्वेषविवर्जिताः । अधमोत्तमौ न तेष्व् आस्तां न वध्यवधकौ द्विजाः

॥८१॥

नेर्ष्यासूया भयं रोषो दोषो लोभादिकं न च । महावीतं बहिर् वर्षं धातकीखण्डम् अन्ततः

॥८२॥

मानसोत्तरशैलस्य देवदैत्यादिसेवितम् । सत्यानृते न तत्रास्तां द्वीपे पुष्करसञ्ज्ञिते

॥८३॥

न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते । तुल्यवेषास् तु मनुजा देवैस् तत्रैकरूपिणः

॥८४॥

वर्णाश्रमाचारहीनं धर्माहरणवर्जितम् । त्रयीवार्त्तादण्डनीतिशुश्रूषारहितं च तत्

॥८५॥

वर्षद्वयं ततो विप्रा भौमस्वर्गोऽयम् उत्तमः । सर्वस्य सुखदः कालो जरारोगविवर्जितः

॥८६॥

पुष्करे धातकीखण्डे महावीते च वै द्विजाः । न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानम् उत्तमम्

॥८७॥

तस्मिन् निवसति ब्रह्मा पूज्यमानः सुरासुरैः । स्वादूदकेनोदधिना पुष्करः परिवेष्टितः

॥८८॥

समेन पुष्करस्यैव विस्तारान् मण्डलात् तथा । एवं द्वीपाः समुद्रैस् तु सप्त सप्तभिर् आवृताः

॥८९॥

द्वीपश् चैव समुद्रश् च समानौ द्विगुणौ परौ । पयांसि सर्वदा सर्वसमुद्रेषु समानि वै

॥९०॥

न्यूनातिरिक्तता तेषां कदाचिन् नैव जायते । स्थालीस्थम् अग्निसंयोगाद् उद्रेकि सलिलं यथा

॥९१॥

तथेन्दुवृद्धौ सलिलम् अम्भोधौ मुनिसत्तमाः । अन्यूनानतिरिक्ताश् च वर्धन्त्य् आपो ह्रसन्ति च

॥९२॥

उदयास्तमने त्व् इन्दोः पक्षयोः शुक्लकृष्णयोः । दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च

॥९३॥

अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां द्विजोत्तमाः । भोजनं पुष्करद्वीपे तत्र स्वयम् उपस्थितम्

॥९४॥

भुञ्जन्ति षड्रसं विप्राः प्रजाः सर्वाः सदैव हि । स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः

॥९५॥

द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता । लोकालोकस् ततः शैलो योजनायुतविस्तृतः

॥९६॥

उच्छ्रयेणापि तावन्ति सहस्राण्य् आवलोहि सः । ततस् तमः समावृत्य तं शैलं सर्वतः स्थितम्

॥९७॥

तमश् चाण्डकटाहेन समन्तात् परिवेष्टितम् । पञ्चाशत्कोटिविस्तारा सेयम् उर्वी द्विजोत्तमाः

॥९८॥

सहैवाण्डकटाहेन सद्वीपा समहीधरा । सेयं धात्री विधात्री च सर्वभूतगुणाधिका । आधारभूता जगतां सर्वेषां सा द्विजोत्तमाः

॥९९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).