अध्यायः १२९
ब्रह्मोवाच:
इन्द्रतीर्थम् इति ख्यातं तत्रैव च वृषाकपम् । फेनायाः सङ्गमो यत्र हनूमतं तथैव च
॥१॥अब्जकं चापि यत् प्रोक्तं यत्र देवस् त्रिविक्रमः । तत्र स्नानं च दानं च पुनरावृत्तिदुर्लभम्
॥२॥तत्र वृत्तान्य् अथाख्यास्ये गङ्गाया दक्षिणे तटे । इन्द्रेश्वरं चोत्तरे च शृणु भक्त्या यतव्रतः
॥३॥नमुचिर् बलवान् आसीद् इन्द्रशत्रुर् मदोत्कटः । तस्येन्द्रेणाभवद् युद्धं फेनेनेन्द्रोऽहरच् छिरः
॥४॥अपां च नमुचेः शत्रोस् तत्फेनवज्ररूपधृक् । शिरश् छित्त्वा तच् च फेनं गङ्गाया दक्षिणे तटे
॥५॥न्यपतद् भूमिं भित्त्वा तु रसातलम् अथाविशत् । रसातलभवं गाङ्गं वारि यद् विश्वपावनम्
॥६॥वज्रादिष्टेन मार्गेण व्यगमद् भूमिमण्डलम् । तज् जलं फेननाम्ना तु नदी फेनेति गद्यते
॥७॥तस्यास् तु सङ्गमः पुण्यो गङ्गया लोकविश्रुतः । सर्वपापक्षयकरो गङ्गायमुनयोर् इव
॥८॥हनूमदुपमाता वै यत्राप्लवनमात्रतः । मार्जारत्वाद् अभून् मुक्ता विष्णुगङ्गाप्रसादतः
॥९॥मार्जारं चेति तत् तीर्थं पुरा प्रोक्तं मया तव । हनूमतं च तत् प्रोक्तं तत्राख्यानं पुरोदितम्
॥१०॥वृषाकपं चाब्जकं च तत्रेदं प्रयतः शृणु । हिरण्य इति विख्यातो दैत्यानां पूर्वजो बली
॥११॥तपस् तप्त्वा सुरैः सर्वैर् अजेयोऽभूत् सुदारुणः । तस्यापि बलवान् पुत्रो देवानां दुर्जयः सदा
॥१२॥महाशनिर् इति ख्यातस् तस्य भार्या पराजिता । तेनेन्द्रस्याभवद् युद्धं बहुकालं निरन्तरम्
॥१३॥महाशनिर् महावीर्यः सततं रणमूर्धनि । जित्वा नागेन सहितं शक्रं पित्रे न्यवेदयत्
॥१४॥बद्ध्वा हस्तिसमायुक्तं स्वसारं वीक्ष्य तां तदा । विहाय क्रूरतां दैत्यो हिरण्याय न्यवेदयत्
॥१५॥महाशनिपिता दैत्यः पूर्वेषां पूर्ववत्तरः । शचीकान्तं तले स्थाप्य तस्य रक्षाम् अथाकरोत्
॥१६॥महाशनिर् हरिं जित्वा जेतुं वरुणम् अभ्यगात् । वरुणोऽपि महाबुद्धिः प्रादात् कन्यां महाशनेः
॥१७॥उदधिं स्वालयं प्रादाद् वरुणस् तु महाशनेः । तयोश् च सख्यम् अभवद् वरुणस्य महाशनेः
॥१८॥वारुणी चापि या कन्या सा प्रियाभून् महाशनेः । वीर्येण यशसा चापि शौर्येण च बलेन च
॥१९॥महाशनिर् महादैत्यस् त्रैलोक्ये नोपमीयते । निरिन्द्रत्वं गते लोके देवाः सर्वे न्यमन्त्रयन्
॥२०॥देवा ऊचुः:
विष्णुर् एवेन्द्रदाता स्याद् दैत्यहन्ता स एव च । मन्त्रदृग् वा स एव स्याद् इन्द्रं चान्यं करिष्यति
॥२१॥ब्रह्मोवाच:
एवं सम्मन्त्र्य ते देवा विष्णोर् मन्त्रं न्यवेदयन् । ममावध्यो महादैत्यो महाशनिर् इति ब्रुवन्
॥२२॥प्रायाद् वारीश्वरं विष्णुः श्वशुरं वरुणं तदा । केशवो वरुणं गत्वा प्राहेन्द्रस्य पराभवम्
॥२३॥तथा त्वयैतत् कर्तव्यं यथायाति पुरन्दरः । तद्विष्णुवचनाच् छीघ्रं ययौ जलपतिर् मुने
॥२४॥सुतापतिं हिरण्यसुतं विक्रान्तं तं महाशनिम् । अतिसम्मानितस् तेन जामात्रा वरुणः प्रभुः
॥२५॥पप्रच्छागमनं दैत्यो विनयाच् छ्वशुरं तदा । वरुणः प्राह तं दैत्यं यद् आगमनकारणम्
॥२६॥वरुण उवाच:
इन्द्रं देहि महाबाहो यस् त्वया निर्जितः पुरा । बद्धं रसातलस्थं तं देवानाम् अधिपं सखे
॥२७॥अस्माकं सर्वदा मान्यं देहि त्वं मम शत्रुहन् । बद्ध्वा विमोक्षणं शत्रोर् महते यशसे सताम्
॥२८॥ब्रह्मोवाच:
तथेत्य् उक्त्वा कथञ्चित् स दैत्येशो वरुणाय तम् । प्रादाद् इन्द्रं शचीकान्तं वारणेन समन्वितम्
॥२९॥स दैत्यमध्येऽतिविराजमानो । हरिं तदोवाच जलेशसन्निधौ । सम्पूज्य चैवाथ महोपचारैर् । महाशनिर् मघवन्तं बभाषे
॥३०॥महाशनिर् उवाच:
केन त्वम् इन्द्रोऽद्य कृतोऽसि केन । वीर्यं तवेदृग् बहु भाषसे च । त्वं सङ्गरे शत्रुभिर् बाध्यसे च । तथापि चेन्द्रो भवसीति चित्रम्
॥३१॥अथापि बद्धा पुरुषेण काचित् । तस्याः पतिस् तां मोचयतीति युक्तम् । स्त्रियोऽस्वतन्त्राः पुरुषप्रधानास् । त्वं वै पुमान् भविता शक्र साधो
॥३२॥बद्धो मया सङ्गरे वाहनेन । क्वाप्य् अस्त्रं ते वज्रम् उद्दामशक्ति । चिन्तारत्नं नन्दनं योषितस् ता । यशो बलं देवराजोपभोग्यम् । सर्वं हि त्वा किं तु मुक्तो जलेशाद् । आकाङ्क्षसे जीवितं धिक् तवेदम्
॥३३॥तज् जीवनं यत् तु यशोनिधानं । स एव मृत्युर् यशसो यद् विरोधि । एवं जानञ् शक्र कथं जलेशान् । मुक्तिं प्राप्तो नैव लज्जां भजेथाः
॥३४॥त्रिविष्टपस्थः परिवेष्टितः सन् । सर्वैः सुरैः कान्तया वीज्यमानः । संस्तूयमानश् च तथाप्सरोभिर् । नूनं लज्जा ते बिभेतीति मन्ये
॥३५॥त्वं वृत्रहा नमुचेश् चापि हन्ता । पुरां भेत्ता गोत्रभिद् वज्रबाहुः । एवं सुरास् त्वां परिपूजयन्तीत्य् । अतो जिष्णो सर्वम् एतत् त्यजस्व
॥३६॥विकारम् आप्याप्य् अहितोद्भवं ये । जीवन्ति लोकान् अनुसंविशन्ति । भवादृशां दुश्च्यवनाब्जजन्मा । कथं न हृद्भेदम् अवाप कर्ता
॥३७॥ब्रह्मोवाच:
एवम् उक्त्वा तु दैत्येशो वरुणाय महात्मने । प्रादाद् इन्द्रं पुनश् चेदं वचनं तद् अभाषत
॥३८॥महाशनिर् उवाच:
अद्य प्रभृत्य् असौ शिष्य इन्द्रः स्याद् वरुणो गुरुः । श्वशुरो मम येन त्वं मुक्तिम् आप्तोऽसि वासव
॥३९॥तथा त्वं भृत्यभावेन वर्तेथा वरुणं प्रति । नो चेद् बद्ध्वा पुनस् त्वां वै क्षेप्स्ये चैव रसातलम्
॥४०॥ब्रह्मोवाच:
एवं निर्भर्त्स्य तं शक्रं हसंश् चापि पुनः पुनः । अब्रवीद् गच्छ गच्छेति वरुणं चानुमन्य तु
॥४१॥स तु प्राप्तः स्वनिलयं लज्जया कलुषीकृतः । पौलोम्यां प्राह तत् सर्वं यत् तच् छत्रुपराभवम्
॥४२॥इन्द्र उवाच:
एवम् उक्तः कृतश् चैव शत्रुणाहं वरानने । निर्वापयामि येन स्वम् आत्मानं सुभगे वद
॥४३॥इन्द्राण्य् उवाच:
दानवानाम् अथोद्भूतिं शक्र मायां पराभवम् । वरदानं तथा मृत्युं जानेऽहं बलसूदन
॥४४॥तस्माद् यस्मात् तस्य मृत्युर् अथवापि पराभवः । जायेत शृणु तत् सर्वं वक्ष्येऽहं प्रीतये तव
॥४५॥हिरण्यस्य सुतो वीरः पितृव्यस्य सुतो बली । तस्मान् मम स्यात् स भ्राता वरदानाच् च दर्पितः
॥४६॥ब्रह्माणं तोषयाम् आस तपसा नियमेन च । ईदृशं बलम् आपन्नं तपसा किं न सिध्यति
॥४७॥तस्मात् त्वया चित्तरागो विस्मयो वा कथञ्चन । न कार्यः शृणु तत्रेदं कार्यं यत् तु क्रमागतम्
॥४८॥ब्रह्मोवाच:
एवम् उक्त्वा तु पौलोमी प्राहेन्द्रं विनयान्विता
॥४९॥इन्द्राण्य् उवाच:
नासाध्यम् अस्ति तपसो नासाध्यं यज्ञकर्मणः । नासाध्यं लोकनाथस्य विष्णोर् भक्त्या हरस्य च
॥५०॥पुनश् चेदं मया कान्त श्रुतम् अस्त्य् अतिशोभनम् । स्त्रीणां स्वभावं जानन्ति स्त्रिय एव सुराधिप
॥५१॥तस्माद् भूमेस् तथा चापां नासाध्यं विद्यते प्रभो । तपो वा यज्ञकर्मादि ताभ्याम् एव यतो भवेत्
॥५२॥तत्रापि तीर्थभूता तु या भूमिस् तां व्रजेद् भवान् । तत्र विष्णुं शिवं पूज्य सर्वान् कामान् अवाप्स्यसि
॥५३॥श्रुतम् अस्ति पुनश् चेदं स्त्रियो याश् च पतिव्रताः । ता एव सर्वं जानन्ति धृतं ताभिश् चराचरम्
॥५४॥पृथिव्यां सारभूतं स्यात् तन्मध्ये दण्डकं वनम् । तत्र गङ्गा जगद्धात्री तत्रेशं पूजय प्रभो
॥५५॥विष्णुं वा जगताम् ईशं दीनार्तार्तिहरं विभुम् । अनाथानाम् इह नृणां मज्जतां दुःखसागरे
॥५६॥हरो हरिर् वा गङ्गा वा क्वाप्य् अन्यच् छरणं नहि । तस्मात् सर्वप्रयत्नेन तोषयैतान् समाहितः
॥५७॥भक्त्या स्तोत्रैश् च तपसा कुरु चैव मया सह । ततः प्राप्स्यसि कल्याणम् ईशविष्णुप्रसादजम्
॥५८॥अज्ञात्वैकगुणं कर्म फलं दास्यति कर्मिणः । ज्ञात्वा शतगुणं तत् स्याद् भार्यया च तद् अक्षयम्
॥५९॥पुंसः सर्वेषु कार्येषु भार्यैवेह सहायिनी । स्वल्पानाम् अपि कार्याणां नहि सिद्धिस् तया विना
॥६०॥एकेन यत् कृतं कर्म तस्माद् अर्धफलं भवेत् । जायया तु कृतं नाथ पुष्कलं पुरुषो लभेत्
॥६१॥तस्माद् एतत् सुविदितम् अर्धो जाया इति श्रुतेः । श्रूयते दण्डकारण्ये सरिच्छ्रेष्ठास्ति गौतमी
॥६२॥अशेषाघप्रशमनी सर्वाभीष्टप्रदायिनी । तस्माद् गच्छ मया तत्र कुरु पुण्यं महाफलम्
॥६३॥ततः शत्रून् निहत्याजौ महत् सुखम् अवाप्स्यसि
॥६४॥ब्रह्मोवाच:
तथेत्य् उक्त्वा स गुरुणा भार्यया च शतक्रतुः । ययौ गङ्गां जगद्धात्रीं गौतमीं चेति विश्रुताम्
॥६५॥दण्डकारण्यमध्यस्थां ययौ स प्रीतिमान् हरिः । तपः कर्तुं मनश् चक्रे देवदेवाय शम्भवे
॥६६॥गङ्गां नत्वा तु प्रथमं स्नात्वा च स कृताञ्जलिः । शिवैकशरणो भूत्वा स्तोत्रं चेदं ततोऽब्रवीत्
॥६७॥इन्द्र उवाच:
स्वमायया यो ह्य् अखिलं चराचरं । सृजत्य् अवत्य् अत्ति न सज्जतेऽस्मिन् । एकः स्वतन्त्रोऽद्वयचित् सुखात्मकः । स नः प्रसन्नोऽस्तु पिनाकपाणिः
॥६८॥न यस्य तत्त्वं सनकादयोऽपि । जानन्ति वेदान्तरहस्यविज्ञाः । दाता प्रसन्नोऽस्तु ममान्धकारिः
॥६९॥सृष्ट्वा स्वयम्भूर् भगवान् विरिञ्चिं । भयङ्करं चास्य शिरोऽन्वपश्यत् । छित्त्वा नखाग्रैर् नखसक्तम् एतच् । चिक्षेप तस्माद् अभवत् त्रिवर्गः
॥७०॥पापं दरिद्रं त्व् अथ लोभयाच्ञे । मोहो विपच् चेति ततोऽप्य् अनन्तम् । जातप्रभावं भवदुःखरूपं । बभूव तैर् व्याप्तम् इदं समस्तम्
॥७१॥अवेक्ष्य सर्वं चकितः सुरेशो । देवीम् अवोचज् जगद् अस्तम् एति । त्वं पाहि लोकेश्वरि लोकमातर् । उमे शरण्ये सुभगे सुभद्रे
॥७२॥जगत्प्रतिष्ठे वरदे जय त्वं । भुक्तिः समाधिः परमा च मुक्तिः । स्वाहा स्वधा स्वस्तिर् अनादिसिद्धिर् । गीर् बुद्धिर् आसीर् अजरामरे त्वम्
॥७३॥विद्यादिरूपेण जगत्त्रये त्वं । रक्षां करोष्य् एव मदाज्ञया च । त्वयैव सृष्टं भुवनत्रयं स्याद् । यतः प्रकृत्यैव तथैव चित्रम्
॥७४॥इत्य् एवम् उक्ता दयिता हरेण । संश्लेषसंलापपरा बभूव । श्रान्ता भवस्यार्धतनौ सुलग्ना । चिक्षेप च स्वेदजलं कराग्रैः
॥७५॥तस्माद् बभूव प्रथमं स धर्मो । लक्ष्मीर् अथो दानम् अथो सुवृष्टिः । सत्त्वं सुसम्पन्नधरं सरांसि । धान्यानि पुष्पाणि फलानि चैव
॥७६॥सौभाग्यवस्तूनि वपुः सुवेषः । शृङ्गारभाजीनि महौषधानि । नृत्यानि गीतान्य् अमृतं पुराणं । श्रुतिस्मृती नीतिर् अथान्नपाने
॥७७॥शस्त्राणि शास्त्राणि गृहोपयोग्यान्य् । अस्त्राणि तीर्थानि च काननानि । इष्टानि पूर्तानि च मङ्गलानि । यानानि शुभ्राभरणासनानि
॥७८॥सुस्वेदसंलापरहःप्रकारैः । तथैव जातं सचराचरं च । अपापकं देवि ततश् च जातम्
॥७९॥सुखं प्रभूतं च शुभं च नित्यं । विराजि चैतत् तव देवि भावात् । तस्मात् तु मां रक्ष जगज्जनित्रि । भीतं भयेभ्यो जगतां प्रधाने
॥८०॥एके तर्कैर् विमुह्यन्ति लीयन्ते तत्र चापरे । शिवशक्त्योस् तदाद्वैतं सुन्दरं नौमि विग्रहम्
॥८१॥ब्रह्मोवाच:
एवं तु स्तुवतस् तस्य पुरस्ताद् अभवच् छिवः
॥८२॥शिव उवाच:
किम् अभीष्टं वरयसे हरे वद परायणम्
॥८३॥इन्द्र उवाच:
बलवान् मे रिपुश् चासीद् दर्शनैश् च शनिर् यथा । तेन बद्धस् तलं नीतः परिभूतस् त्व् अनेकधा
॥८४॥वाक्सायकैस् तथा विद्धस् तद्वधाय त्व् इयं कृतिः । तदर्थं जगताम् ईश येन जेष्ये रिपुं प्रभो
॥८५॥तद् एव देहि वीर्यं मे यच् चान्यद् रिपुनाशनम् । जातः पराभवो यस्मात् तद्विनाशे कृते सति । पुनर्जातम् अहं मन्ये वरं कीर्तिर् जयश्रियोः
॥८६॥ब्रह्मोवाच:
स शिवः शक्रम् आहेदं न मयैकेन ते रिपुः । वधम् आप्नोति तस्मात् त्वं विष्णुम् अप्य् अव्ययं हरिम्
॥८७॥आराधयस्व पौलोम्या सह देवं जनार्दनम् । लोकत्रयैकशरणं नारायणम् अनन्यधीः
॥८८॥ततः प्राप्स्यसि तस्माच् च मत्तश् चापि प्रियं हरे । पुनश् चोवाच भगवान् आदिकर्ता महेश्वरः
॥८९॥मन्त्राभ्यासस् तपो वापि योगाभ्यसनम् एव च । सङ्गमे यत्र कुत्रापि सिद्धिदं मुनयो विदुः
॥९०॥किं पुनः सङ्गमे विप्र गौतमीसिन्धुफेनयोः । गिरीणां गह्वरे यद् वा सरिताम् अथ सङ्गमे
॥९१॥विप्रो धियैव भवति मुकुन्दाङ्घ्रिनिविष्टया । गङ्गाया दक्षिणे तीर आपस्तम्बो मुनीश्वरः
॥९२॥आस्ते तस्याप्य् अहं तोषम् अगमं बलसूदन । तेन त्वं भार्यया चैव तोषयस्व गदाधरम्
॥९३॥ब्रह्मोवाच:
आपस्तम्बेन सहितो गङ्गाया दक्षिणे तटे । तुष्टाव देवं प्रयतः स्नात्वा पुण्येऽथ सङ्गमे
॥९४॥फेनायाश् चैव गङ्गायास् तत्र देवं जनार्दनम् । वैदिकैर् विविधैर् मन्त्रैस् तपसातोषयत् तदा
॥९५॥ततस् तुष्टोऽभवद् विष्णुः किं देयं चेत्य् अभाषत । देहि मे शत्रुहन्तारम् इत्य् आह भगवान् हरिः
॥९६॥दत्तम् इत्य् एव जानीहि तम् उवाच जनार्दनः । तत्राभवच् छिवस्यैव गङ्गाविष्ण्वोः प्रसादतः
॥९७॥अम्भसा पुरुषो जातः शिवविष्णुस्वरूपधृक् । चक्रपाणिः शूलधरः स गत्वा तु रसातलम्
॥९८॥निजघान तदा दैत्यम् इन्द्रशत्रुं महाशनिम् । सखाभवत् स चेन्द्रस्य अब्जकः स वृषाकपिः
॥९९॥दिविस्थोऽपि सदा चेन्द्रस् तम् अन्वेति वृषाकपिम् । कुपिता प्रणयेनाभूद् अन्यासक्तं विलोक्य तम् । शचीं तां सान्त्वयन्न् आह शतमन्युर् हसन्न् इदम्
॥१००॥इन्द्र उवाच:
नाहम् इन्द्राणि शरणम् ऋते सख्युर् वृषाकपेः । वारि वापि हविर् यस्य अग्नेः प्रियकरं सदा
॥१०१॥नाहम् अन्यत्र गन्तास्मि प्रिये चाङ्गेन ते शपे । तस्मान् नार्हसि मां वक्तुं शङ्कयान्यत्र भामिनि
॥१०२॥पतिव्रता प्रिया मे त्वं धर्मे मन्त्रे सहायिनी । सापत्या च कुलीना च त्वत्तोऽन्या का प्रिया मम
॥१०३॥तस्मात् तवोपदेशेन गङ्गां प्राप्य महानदीम् । प्रसादाद् देवदेवस्य विष्णोर् वै चक्रपाणिनः
॥१०४॥तथा शिवस्य देवस्य प्रसादाच् च वृषाकपेः । जलोद्भवाच् च मे मित्राद् अब्जकाल् लोकविश्रुतात्
॥१०५॥उत्तीर्णदुःखः सुभगे इत इन्द्रोऽहम् अच्युतः । किं न साध्यं यत्र भार्या भर्तृचित्तानुगामिनी
॥१०६॥दुष्करा तत्र नो मुक्तिः किन्त्व् अर्थादित्रयं शुभे । जायैव परमं मित्रं लोकद्वयहितैषिणी
॥१०७॥सा चेत् कुलीना प्रियभाषिणी च । पतिव्रता रूपवती गुणाढ्या । सम्पत्सु चापत्सु समानरूपा । तया ह्य् असाध्यं किम् इह त्रिलोक्याम्
॥१०८॥तस्मात् तव धिया कान्ते ममेदं शुभम् आगतम् । इतस् तवोदितं चैव कर्तव्यं नान्यद् अस्ति मे
॥१०९॥परलोके च धर्मे च सत्पुत्रसदृशं न च । आर्तस्य पुरुषस्येह भार्यावद् भेषजं नहि
॥११०॥निःश्रेयसपदप्राप्त्यै तथा पापस्य मुक्तये । गङ्गया सदृशं नास्ति शृणु चान्यद् वरानने
॥१११॥धर्मार्थकाममोक्षाणां प्राप्तये पापमुक्तये । शिवविष्ण्वोर् अनन्यत्वज्ञानान् नास्त्य् अत्र मुक्तये
॥११२॥तस्मात् तव धिया साध्वि सर्वम् एतन् मनोगतम् । अवाप्तं च शिवाद् विष्णोर् गङ्गायाश् च प्रसादतः
॥११३॥इन्द्रत्वं मे स्थिरं चेतो मन्ये मित्रबलात् पुनः । वृषाकपिर् मम सखा यो जातस् त्व् अप्सु भामिनि
॥११४॥त्वं च प्रियसखी नित्यं नान्यत् प्रियतरं मम । तीर्थानां गौतमी गङ्गा देवानां हरिशङ्करौ
॥११५॥तस्माद् एभ्यः प्रसादेन सर्वं चेप्सितम् आप्तवान् । मम प्रीतिकरं चेदं तीर्थं त्रैलोक्यविश्रुतम्
॥११६॥तस्माद् एतद् धि याचिष्ये देवान् सर्वान् अनुक्रमात् । अनुमन्यन्तु ऋषयो गङ्गा च हरिशङ्करौ
॥११७॥इन्द्रेश्वरे चाब्जके च उभयोस् तीरयोः सुराः । एकत्र शङ्करो देवो ह्य् अपरत्र जनार्दनः
॥११८॥पावयन् दण्डकारण्यं साक्षाद् विष्णुस् त्रिविक्रमः । अन्तरे यानि तीर्थानि सर्वपुण्यप्रदानि च
॥११९॥अत्र तु स्नानमात्रेण सर्वे ते मुक्तिम् आप्नुयुः । पापिष्ठाः पापतो मुक्तिम् आप्नुयुर् ये च धर्मिणः
॥१२०॥तेषां तु परमा मुक्तिः पितृभिः पञ्चपञ्चभिः । अत्र किञ्चिच् च ये दद्युर् अर्थिभ्यस् तिलमात्रकम्
॥१२१॥दातृभ्यो ह्य् अक्षयं तत् स्यात् कामदं मोक्षदं तथा । धन्यं यशस्यम् आयुष्यम् आरोग्यं पुण्यवर्धनम्
॥१२२॥आख्यानं विष्णुशम्भ्वोश् च ज्ञात्वा स्नानाच् च मुक्तिदम् । अस्य तीर्थस्य माहात्म्यं ये शृण्वन्ति पठन्ति च
॥१२३॥पुण्यभाजो भवेयुस् ते तेभ्योऽत्रैव स्मृतिर् भवेत् । शिवविष्ण्वोर् अशेषाघसङ्घविच्छेदकारिणी । यां प्रार्थयन्ति मुनयो विजितेन्द्रियमानसाः
॥१२४॥ब्रह्मोवाच:
भविष्यत्य् एवम् एवेति तं देवा ऋषयोऽब्रुवन् । गौतम्या उत्तरे पारे तीर्थानां मोक्षदायिनाम्
॥१२५॥देवर्षिसिद्धसेव्यानां सहस्राण्य् अथ सप्त वै । तथैव दक्षिणे तीरे तीर्थान्य् एकादशैव तु
॥१२६॥अब्जकं हृदयं प्रोक्तं गोदावर्या मुनीश्वरैः । विश्रामस्थानम् ईशस्य विष्णोर् ब्रह्मण एव च
॥१२७॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).