अध्यायः १८६
व्यास उवाच:
गाः पालयन्तौ च पुनः सहितौ रामकेशवौ । भ्रममाणौ वने तत्र रम्यं तालवनं गतौ
॥१॥तच् च तालवनं नित्यं धेनुको नाम दानवः । नृगोमांसकृताहारः सदाध्यास्ते खराकृतिः
॥२॥तत्र तालवनं रम्यं फलसम्पत्समन्वितम् । दृष्ट्वा स्पृहान्विता गोपाः फलादानेऽब्रुवन् वचः
॥३॥गोपा ऊचुः:
हे राम हे कृष्ण सदा धेनुकेनैव रक्ष्यते । भूप्रदेशो यतस् तस्मात् त्यक्तानीमानि सन्ति वै
॥४॥फलानि पश्य तालानां गन्धमोदयुतानि वै । वयम् एतान्य् अभीप्सामः पात्यन्तां यदि रोचते
॥५॥इति गोपकुमाराणां श्रुत्वा सङ्कर्षणो वचः । कृष्णश् च पातयाम् आस भुवि तालफलानि वै
॥६॥तालानां पततां शब्दम् आकर्ण्यासुरराट् ततः । आजगाम स दुष्टात्मा कोपाद् दैतेयगर्दभः
॥७॥पद्भ्याम् उभाभ्यां स तदा पश्चिमाभ्यां च तं बली । जघानोरसि ताभ्यां च स च तेनाप्य् अगृह्यत
॥८॥गृहीत्वा भ्रामणेनैव चाम्बरे गतजीवितम् । तस्मिन्न् एव प्रचिक्षेप वेगेन तृणराजनि
॥९॥ततः फलान्य् अनेकानि तालाग्रान् निपतन् खरः । पृथिव्यां पातयाम् आस महावातोऽम्बुदान् इव
॥१०॥अन्यान् अप्य् अस्य वै ज्ञातीन् आगतान् दैत्यगर्दभान् । कृष्णश् चिक्षेप तालाग्रे बलभद्रश् च लीलया
॥११॥क्षणेनालङ्कृता पृथ्वी पक्वैस् तालफलैस् तदा । दैत्यगर्दभदेहैश् च मुनयः शुशुभेऽधिकम्
॥१२॥ततो गावो निराबाधास् तस्मिंस् तालवने द्विजाः । नवशष्पं सुखं चेरुर् यत्र भुक्तम् अभूत् पुरा
॥१३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).