मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ६६

3
ब्रह्मपुराणम् · 66

अध्यायः ६६

ब्रह्मोवाच:

गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् । कृष्णं बलं सुभद्रां च ते यान्ति भवनं हरेः

॥१॥

ये पश्यन्ति तदा कृष्णं सप्ताहं मण्डपे स्थितम् । हलिनं च सुभद्रां च विष्णुलोकं व्रजन्ति ते

॥२॥

मुनय ऊचुः:

केन सा निर्मिता यात्रा दक्षिणस्यां जगत्पते । यात्राफलं च किं तत्र प्राप्यते ब्रूहि मानवैः

॥३॥

किमर्थं सरसस् तीरे राज्ञस् तस्य जगत्पते । पवित्रे विजने देशे गत्वा तत्र च मण्डपे

॥४॥

कृष्णः सङ्कर्षणश् चैव सुभद्रा च रथेन ते । स्वस्थानं सम्परित्यज्य सप्तरात्रं वसन्ति वै

॥५॥

ब्रह्मोवाच:

इन्द्रद्युम्नेन भो विप्राः पुरा वै प्रार्थितो हरिः । सप्ताहं सरसस् तीरे मम यात्रा भवत्व् इति

॥६॥

गुडिवा नाम देवेश भुक्तिमुक्तिफलप्रदा । तस्मै किल वरं चासौ ददौ स पुरुषोत्तमः

॥७॥

श्रीभगवान् उवाच:

सप्ताहं सरसस् तीरे तव राजन् भविष्यति । गुडिवा नाम यात्रा मे सर्वकामफलप्रदा

॥८॥

ये मां तत्रार्चयिष्यन्ति श्रद्धया मण्डपे स्थितम् । सङ्कर्षणं सुभद्रां च विधिवत् सुसमाहिताः

॥९॥

ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश् च वै नृप । पुष्पैर् गन्धैस् तथा धूपैर् दीपैर् नैवेद्यकैर् वरैः

॥१०॥

उपहारैर् बहुविधैः प्रणिपातैः प्रदक्षिणैः । जयशब्दैस् तथा स्तोत्रैर् गीतैर् वाद्यैर् मनोहरैः

॥११॥

न तेषां दुर्लभं किञ्चित् फलं यस्य यद् ईप्सितम् । भविष्यति नृपश्रेष्ठ मत्प्रसादाद् असंशयम्

॥१२॥

ब्रह्मोवाच:

एवम् उक्त्वा तु तं देवस् तत्रैवान्तरधीयत । स तु राजवरः श्रीमान् कृतकृत्योऽभवत् तदा

॥१३॥

तस्मात् सर्वप्रयत्नेन गुडिवायां द्विजोत्तमाः । सर्वकामप्रदं देवं पश्येत् तं पुरुषोत्तमम्

॥१४॥

अपुत्रो लभते पुत्रान् निर्धनो लभते धनम् । रोगाच् च मुच्यते रोगी कन्या प्राप्नोति सत्पतिम्

॥१५॥

आयुः कीर्तिं यशो मेधां बलं विद्यां धृतिं पशून् । नरः सन्ततिम् आप्नोति रूपयौवनसम्पदम्

॥१६॥

यान् यान् समीहते भोगान् दृष्ट्वा तं पुरुषोत्तमम् । नरो वाप्य् अथवा नारी तांस् तान् प्राप्नोत्य् असंशयम्

॥१७॥

यात्रां कृत्वा गुडिवाख्यां विधिवत् सुसमाहितः । आषाढस्य सिते पक्षे नरो योषिद् अथापि वा

॥१८॥

दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः । दशपञ्चाश्वमेधानां फलं प्राप्नोति चाधिकम्

॥१९॥

सप्तावरान् सप्त परान् वंशान् उद्धृत्य चात्मनः । कामगेन विमानेन सर्वरत्नैर् अलङ्कृतः

॥२०॥

गन्धर्वैर् अप्सरोभिश् च सेव्यमानो यथोत्तरैः । रूपवान् सुभगः शूरो नरो विष्णुपुरं व्रजेत्

॥२१॥

तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् । सर्वकामसमृद्धात्मा जरामरणवर्जितः

॥२२॥

पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत् । वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात्

॥२३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).