मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ५

3
ब्रह्मपुराणम् · 5

अध्यायः ५

ऋषय ऊचुः:

मन्वन्तराणि सर्वाणि विस्तरेण महामते । तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय

॥१॥

यावन्तो मनवश् चैव यावन्तं कालम् एव च । मन्वन्तराणि भोः सूत श्रोतुम् इच्छाम तत्त्वतः

॥२॥

लोमहर्षण उवाच:

न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैर् अपि । मन्वन्तराणां सर्वेषां सङ्क्षेपाच् छृणुत द्विजाः

॥३॥

स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस् तथा । उत्तमस् तामसश् चैव रैवतश् चाक्षुषस् तथा

॥४॥

वैवस्वतश् च भो विप्राः साम्प्रतं मनुर् उच्यते । सावर्णिश् च मनुस् तद्वद् रैभ्यो रौच्यस् तथैव च

॥५॥

तथैव मेरुसावर्ण्यश् चत्वारो मनवः स्मृताः । अतीता वर्तमानाश् च तथैवानागता द्विजाः

॥६॥

कीर्तिता मनवस् तुभ्यं मयैवैते यथा श्रुताः । ऋषींस् त्व् एषां प्रवक्ष्यामि पुत्रान् देवगणांस् तथा

॥७॥

मरीचिर् अत्रिर् भगवान् अङ्गिराः पुलहः क्रतुः । पुलस्त्यश् च वसिष्ठश् च सप्तैते ब्रह्मणः सुताः

॥८॥

उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस् तथा । आग्निइध्रश् चाग्निबाहुश् च मेध्यो मेधातिथिर् वसुः

॥९॥

ज्योतिष्मान् द्युतिमान् हव्यः सवलः पुत्रसञ्ज्ञकः । मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः

॥१०॥

एतद् वै प्रथमं विप्रा मन्वन्तरम् उदाहृतम् । और्वो वसिष्ठपुत्रश् च स्तम्बः कश्यप एव च

॥११॥

प्राणो बृहस्पतिश् चैव दत्तोऽत्रिच्च्यवनस् तथा । एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः

॥१२॥

देवाश् च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे । हविघ्नः सुकृतिर् ज्योतिर् आपो मूर्तिर् अपि स्मृतः

॥१३॥

प्रतीतश् च नभस्यश् च नभ ऊर्जस् तथैव च । स्वारोचिषस्य पुत्रास् ते मनोर् विप्रा महात्मनः

॥१४॥

कीर्तिताः पृथिवीपाला महावीर्यपराक्रमाः । द्वितीयम् एतत् कथितं विप्रा मन्वन्तरं मया

॥१५॥

इदं तृतीयं वक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः । वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः

॥१६॥

हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः । ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान् निबोधत

॥१७॥

औत्तमेयान् मुनिश्रेष्ठा दश पुत्रान् मनोर् इमान् । इष ऊर्जस् तनूर्जस् तु मधुर् माधव एव च

॥१८॥

शुचिः शुक्रः सहश् चैव नभस्यो नभ एव च । भानवस् तत्र देवाश् च मन्वन्तरम् उदाहृतम्

॥१९॥

मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम् । काव्यः पृथुस् तथैवाग्निर् जह्नुर् धाता द्विजोत्तमाः

॥२०॥

कपीवान् अकपीवांश् च तत्र सप्तर्षयो द्विजाः । पुराणे कीर्तिता विप्राः पुत्राः पौत्राश् च भो द्विजाः

॥२१॥

तथा देवगणाश् चैव तामसस्यान्तरे मनोः । द्युतिस् तपस्यः सुतपास् तपोभूतः सनातनः

॥२२॥

तपोरतिर् अकल्माषस् तन्वी धन्वी परन्तपः । तामसस्य मनोर् एते दश पुत्राः प्रकीर्तिताः

॥२३॥

वायुप्रोक्ता मुनिश्रेष्ठाश् चतुर्थं चैतद् अन्तरम् । देवबाहुर् यदुध्रश् च मुनिर् वेदशिरास् तथा

॥२४॥

हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश् च सोमजः । सत्यनेत्रस् तथात्रेय एते सप्तर्षयोऽपरे

॥२५॥

देवाश् चाभूतरजसस् तथा प्रकृतयः स्मृताः । वारिप्लवश् च रैभ्यश् च मनोर् अन्तरम् उच्यते

॥२६॥

अथ पुत्रान् इमांस् तस्य बुध्यध्वं गदतो मम । धृतिमान् अव्ययो युक्तस् तत्त्वदर्शी निरुत्सुकः

॥२७॥

आरण्यश् च प्रकाशश् च निर्मोहः सत्यवाक् कृती । रैवतस्य मनोः पुत्राः पञ्चमं चैतद् अन्तरम्

॥२८॥

षष्ठं तु सम्प्रवक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः । भृगुर् नभो विवस्वांश् च सुधामा विरजास् तथा

॥२९॥

अतिनामा सहिष्णुश् च सप्तैते च महर्षयः । चाक्षुषस्यान्तरे विप्रा मनोर् देवास् त्व् इमे स्मृताः

॥३०॥

आबालप्रथितास् ते वै पृथक्त्वेन दिवौकसः । लेखाश् च नामतो विप्राः पञ्च देवगणाः स्मृताः

॥३१॥

ऋषेर् अङ्गिरसः पुत्रा महात्मानो महौजसः । नाड्वलेया मुनिश्रेष्ठा दश पुत्रास् तु विश्रुताः

॥३२॥

रुरुप्रभृतयो विप्राश् चाक्षुषस्यान्तरे मनोः । षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत

॥३३॥

अत्रिर् वसिष्ठो भगवान् कश्यपश् च महान् ऋषिः । गौतमोऽथ भरद्वाजो विश्वामित्रस् तथैव च

॥३४॥

तथैव पुत्रो भगवान् ऋचीकस्य महात्मनः । सप्तमो जमदग्निश् च ऋषयः साम्प्रतं दिवि

॥३५॥

साध्या रुद्राश् च विश्वे च वसवो मरुतस् तथा । आदित्याश् चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ

॥३६॥

मनोर् वैवस्वतस्यैते वर्तन्ते साम्प्रतेऽन्तरे । इक्ष्वाकुप्रमुखाश् चैव दश पुत्रा महात्मनः

॥३७॥

एतेषां कीर्तितानां तु महर्षीणां महौजसाम् । तेषां पुत्राश् च पौत्राश् च दिक्षु सर्वासु भो द्विजाः

॥३८॥

मन्वन्तरेषु सर्वेषु प्राग् आसन् सप्त सप्तकाः । लोके धर्मव्यवस्थार्थं लोकसंरक्षणाय च

॥३९॥

मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः । कृत्वा कर्म दिवं यान्ति ब्रह्मलोकम् अनामयम्

॥४०॥

ततोऽन्ये तपसा युक्ताः स्थानं तत् पूरयन्त्य् उत । अतीता वर्तमानाश् च क्रमेणैतेन भो द्विजाः

॥४१॥

अनागताश् च सप्तैते स्मृता दिवि महर्षयः । मनोर् अन्तरम् आसाद्य सावर्णस्येह भो द्विजाः

॥४२॥

रामो व्यासस् तथात्रेयो दीप्तिमन्तो बहुश्रुताः । भारद्वाजस् तथा द्रौणिर् अश्वत्थामा महाद्युतिः

॥४३॥

गौतमश् चाजरश् चैव शरद्वान् नाम गौतमः । कौशिको गालवश् चैव और्वः काश्यप एव च

॥४४॥

एते सप्त महात्मानो भविष्या मुनिसत्तमाः । वैरी चैवाध्वरीवांश् च शमनो धृतिमान् वसुः

॥४५॥

अरिष्टश् चाप्य् अधृष्टश् च वाजी सुमतिर् एव च । सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः

॥४६॥

एतेषां कल्यम् उत्थाय कीर्तनात् सुखम् एधते । यशश् चाप्नोति सुमहद् आयुष्मांश् च भवेन् नरः

॥४७॥

एतान्य् उक्तानि भो विप्राः सप्त सप्त च तत्त्वतः । मन्वन्तराणि सङ्क्षेपाच् छृणुतानागतान्य् अपि

॥४८॥

सावर्णा मनवो विप्राः पञ्च तांश् च निबोधत । एको वैवस्वतस् तेषां चत्वारस् तु प्रजापतेः

॥४९॥

परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः । दक्षस्यैते हि दौहित्राः प्रियायास् तनया नृपाः

॥५०॥

महता तपसा युक्ता मेरुपृष्ठे महौजसः । रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः

॥५१॥

भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः । अनागताश् च सप्तैते कल्पेऽस्मिन् मनवः स्मृताः

॥५२॥

तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना । पूर्णं युगसहस्रं तु परिपाल्या द्विजोत्तमाः

॥५३॥

प्रजापतिश् च तपसा संहारं तेषु नित्यशः । युगानि सप्ततिस् तानि साग्राणि कथितानि च

॥५४॥

कृतत्रेतादियुक्तानि मनोर् अन्तरम् उच्यते । चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः

॥५५॥

वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः । प्रजानां पतयो विप्रा धन्यम् एषां प्रकीर्तनम्

॥५६॥

मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः । न शक्यतेऽन्तस् तेषां वै वक्तुं वर्षशतैर् अपि

॥५७॥

विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः । मन्वन्तरेषु संहाराः श्रूयन्ते द्विजसत्तमाः

॥५८॥

सशेषास् तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह । तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः

॥५९॥

पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते । तत्र भूतानि सर्वाणि दग्धान्य् आदित्यरश्मिभिः

॥६०॥

ब्रह्माणम् अग्रतः कृत्वा सहादित्यगणैर् द्विजाः । प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम्

॥६१॥

स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः । अव्यक्तः शाश्वतो देवस् तस्य सर्वम् इदं जगत्

॥६२॥

अत्र वः कीर्तयिष्यामि मनोर् वैवस्वतस्य वै । विसर्गं मुनिशार्दूलाः साम्प्रतस्य महाद्युतेः

॥६३॥

अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम् । यत्रोत्पन्नो महात्मा स हरिर् वृष्णिकुले प्रभुः

॥६४॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).