मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १९०

3
ब्रह्मपुराणम् · 190

अध्यायः १९०

व्यास उवाच:

ककुद्मिनि हतेऽरिष्टे धेनुके च निपातिते । प्रलम्बे निधनं नीते धृते गोवर्धनाचले

॥१॥

दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये । हतायां पूतनायां च शकटे परिवर्तिते

॥२॥

कंसाय नारदः प्राह यथावृत्तम् अनुक्रमात् । यशोदादेवकीगर्भपरिवर्ताद्य् अशेषतः

॥३॥

श्रुत्वा तत् सकलं कंसो नारदाद् देवदर्शनात् । वसुदेवं प्रति तदा कोपं चक्रे स दुर्मतिः

॥४॥

सोऽतिकोपाद् उपालभ्य सर्वयादवसंसदि । जगर्हे यादवांश् चापि कार्यं चैतद् अचिन्तयत्

॥५॥

यावन् न बलम् आरूढौ बलकृष्णौ सुबालकौ । तावद् एव मया वध्याव् असाध्यौ रूढयौवनौ

॥६॥

चाणूरोऽत्र महावीर्यो मुष्टिकश् च महाबलः । एताभ्यां मल्लयुद्धे तौ घातयिष्यामि दुर्मदौ

॥७॥

धनुर्महमहायागव्याजेनानीय तौ व्रजात् । तथा तथा करिष्यामि यास्यतः सङ्क्षयं यथा

॥८॥

व्यास उवाच:

इत्य् आलोच्य स दुष्टात्मा कंसो रामजनार्दनौ । हन्तुं कृतमतिर् वीरम् अक्रूरं वाक्यम् अब्रवीत्

॥९॥

कंस उवाच:

भो भो दानपते वाक्यं क्रियतां प्रीतये मम । इतः स्यन्दनम् आरुह्य गम्यतां नन्दगोकुलम्

॥१०॥

वसुदेवसुतौ तत्र विष्णोर् अंशसमुद्भवौ । नाशाय किल सम्भूतौ मम दुष्टौ प्रवर्धतः

॥११॥

धनुर्महमहायागश् चतुर्दश्यां भविष्यति । आनेयौ भवता तौ तु मल्लयुद्धाय तत्र वै

॥१२॥

चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम । ताभ्यां सहानयोर् युद्धं सर्वलोकोऽत्र पश्यतु

॥१३॥

नागः कुवलयापीडो महामात्रप्रचोदितः । स तौ निहंस्यते पापौ वसुदेवात्मजौ शिशू

॥१४॥

तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् । हनिष्ये पितरं चैव उग्रसेनं च दुर्मतिम्

॥१५॥

ततः समस्तगोपानां गोधनान्य् अखिलान्य् अहम् । वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम्

॥१६॥

त्वाम् ऋते यादवाश् चेमे दुष्टा दानपते मम । एतेषां च वधायाहं प्रयतिष्याम्य् अनुक्रमात्

॥१७॥

ततो निष्कण्टकं सर्वं राज्यम् एतद् अयादवम् । प्रसाधिष्ये त्वया तस्मान् मत्प्रीत्या वीर गम्यताम्

॥१८॥

यथा च माहिषं सर्पिर् दधि चाप्य् उपहार्य वै । गोपाः समानयन्त्य् आशु त्वया वाच्यास् तथा तथा

॥१९॥

व्यास उवाच:

इत्य् आज्ञप्तस् तदाक्रूरो महाभागवतो द्विजाः । प्रीतिमान् अभवत् कृष्णं श्वो द्रक्ष्यामीति सत्वरः

॥२०॥

तथेत्य् उक्त्वा तु राजानं रथम् आरुह्य सत्वरः । निश्चक्राम तदा पुर्या मथुराया मधुप्रियः

॥२१॥

व्यास उवाच:

केशी चापि बलोदग्रः कंसदूतः प्रचोदितः । कृष्णस्य निधनाकाङ्क्षी वृन्दावनम् उपागमत्

॥२२॥

स खुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः । पुनर् विक्रान्तचन्द्रार्कमार्गो गोपान्तम् आगमत्

॥२३॥

तस्य ह्रेषितशब्देन गोपाला दैत्यवाजिनः । गोप्यश् च भयसंविग्ना गोविन्दं शरणं ययुः

॥२४॥

त्राहि त्राहीति गोविन्दस् तेषां श्रुत्वा तु तद्वचः । सतोयजलदध्वानगम्भीरम् इदम् उक्तवान्

॥२५॥

गोविन्द उवाच:

अलं त्रासेन गोपालाः केशिनः किं भयातुरैः । भवद्भिर् गोपजातीयैर् वीरवीर्यं विलोप्यते

॥२६॥

किम् अनेनाल्पसारेण ह्रेषितारोपकारिणा । दैतेयबलवाह्येन वल्गता दुष्टवाजिना

॥२७॥

एह्य् एहि दुष्ट कृष्णोऽहं पूष्णस् त्व् इव पिनाकधृक् । पातयिष्यामि दशनान् वदनाद् अखिलांस् तव

॥२८॥

व्यास उवाच:

इत्य् उक्त्वा स तु गोविन्दः केशिनः सम्मुखं ययौ । विवृतास्यश् च सोऽप्य् एनं दैतेयश् च उपाद्रवत्

॥२९॥

बाहुम् आभोगिनं कृत्वा मुखे तस्य जनार्दनः । प्रवेशयाम् आस तदा केशिनो दुष्टवाजिनः

॥३०॥

केशिनो वदनं तेन विशता कृष्णबाहुना । शातिता दशनास् तस्य सिताभ्रावयवा इव

॥३१॥

कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विजाः । विनाशाय यथा व्याधिर् आप्तभूतैर् उपेक्षितः

॥३२॥

विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन् । सृक्कणी विवृते चक्रे विश्लिष्टे मुक्तबन्धने

॥३३॥

जगाम धरणीं पादैः शकृन्मूत्रं समुत्सृजन् । स्वेदार्द्रगात्रः श्रान्तश् च निर्यत्नः सोऽभवत् ततः

॥३४॥

व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना । निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः

॥३५॥

द्विपादपृष्ठपुच्छार्धश्रवणैकाक्षनासिके । केशिनस् ते द्विधा भूते शकले च विरेजतुः

॥३६॥

हत्वा तु केशिनं कृष्णो मुदितैर् गोपकैर् वृतः । अनायस्ततनुः स्वस्थो हसंस् तत्रैव संस्थितः

॥३७॥

ततो गोपाश् च गोप्यश् च हते केशिनि विस्मिताः । तुष्टुवुः पुण्डरीकाक्षम् अनुरागमनोरमम्

॥३८॥

आययौ त्वरितो विप्रो नारदो जलदस्थितः । केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः

॥३९॥

नारद उवाच:

साधु साधु जगन्नाथ लीलयैव यद् अच्युत । निहतोऽयं त्वया केशी क्लेशदस् त्रिदिवौकसाम्

॥४०॥

सुकर्माण्य् अवतारे तु कृतानि मधुसूदन । यानि वै विस्मितं चेतस् तोषम् एतेन मे गतम्

॥४१॥

तुरगस्यास्य शक्रोऽपि कृष्ण देवाश् च बिभ्यति । धुतकेसरजालस्य ह्रेषतोऽभ्रावलोकिनः

॥४२॥

यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन । तस्मात् केशवनाम्ना त्वं लोके गेयो भविष्यसि

॥४३॥

स्वस्त्य् अस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः । परश्वोऽहं समेष्यामि त्वया केशिनिषूदन

॥४४॥

उग्रसेनसुते कंसे सानुगे विनिपातिते । भारावतारकर्ता त्वं पृथिव्या धरणीधर

॥४५॥

तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम् । द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन

॥४६॥

सोऽहं यास्यामि गोविन्द देवकार्यं महत् कृतम् । त्वया सभाजितश् चाहं स्वस्ति तेऽस्तु व्रजाम्य् अहम्

॥४७॥

व्यास उवाच:

नारदे तु गते कृष्णः सह गोपैर् अविस्मितः । विवेश गोकुलं गोपीनेत्रपानैकभाजनम्

॥४८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).