अध्यायः २८
ब्रह्मोवाच:
तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः । ओण्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः
॥१॥समुद्राद् उत्तरं तावद् यावद् विरजमण्डलम् । देशोऽसौ पुण्यशीलानां गुणैः सर्वैर् अलङ्कृतः
॥२॥तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः । तपःस्वाध्यायनिरता वन्द्याः पूज्याश् च ते सदा
॥३॥श्राद्धे दाने विवाहे च यज्ञे वाचार्यकर्मणि । प्रशस्ताः सर्वकार्येषु तत्रदेशोद्भवा द्विजाः
॥४॥षट्कर्मनिरतास् तत्र ब्राह्मणा वेदपारगाः । इतिहासविदश् चैव पुराणार्थविशारदाः
॥५॥सर्वशास्त्रार्थकुशला यज्वानो वीतमत्सराः । अग्निहोत्ररताः केचित् केचित् स्मार्ताग्नितत्पराः
॥६॥पुत्रदारधनैर् युक्ता दातारः सत्यवादिनः । निवसन्त्य् उत्कले पुण्ये यज्ञोत्सवविभूषिते
॥७॥इतरेऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः । स्वकर्मनिरताः शान्तास् तत्र तिष्ठन्ति धार्मिकाः
॥८॥कोणादित्य इति ख्यातस् तस्मिन् देशे व्यवस्थितः । यं दृष्ट्वा भास्करं मर्त्यः सर्वपापैः प्रमुच्यते
॥९॥मुनय ऊचुः:
श्रोतुम् इच्छाम तद् ब्रूहि क्षेत्रं सूर्यस्य साम्प्रतम् । तस्मिन् देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः
॥१०॥ब्रह्मोवाच:
लवणस्योदधेस् तीरे पवित्रे सुमनोहरे । सर्वत्र वालुकाकीर्णे देशे सर्वगुणान्विते
॥११॥चम्पकाशोकबकुलैः करवीरैः सपाटलैः । पुन्नागैः कर्णिकारैश् च बकुलैर् नागकेसरैः
॥१२॥तगरैर् धवबाणैश् च अतिमुक्तैः सकुब्जकैः । मालतीकुन्दपुष्पैश् च तथान्यैर् मल्लिकादिभिः
॥१३॥केतकीवनखण्डैश् च सर्वर्तुकुसुमोज्ज्वलैः । कदम्बैर् लकुचैः शालैः पनसैर् देवदारुभिः
॥१४॥सरलैर् मुचुकुन्दैश् च चन्दनैश् च सितेतरैः । अश्वत्थैः सप्तपर्णैश् च आम्रैर् आम्रातकैस् तथा
॥१५॥तालैः पूगफलैश् चैव नारिकेरैः कपित्थकैः । अन्यैश् च विविधैर् वृक्षैः सर्वतः समलङ्कृतम्
॥१६॥क्षेत्रं तत्र रवेः पुण्यम् आस्ते जगति विश्रुतम् । समन्ताद् योजनं साग्रं भुक्तिमुक्तिफलप्रदम्
॥१७॥आस्ते तत्र स्वयं देवः सहस्रांशुर् दिवाकरः । कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः
॥१८॥माघे मासि सिते पक्षे सप्तम्यां संयतेन्द्रियः । कृतोपवासो यत्रेत्य स्नात्वा तु मकरालये
॥१९॥कृतशौचो विशुद्धात्मा स्मरन् देवं दिवाकरम् । सागरे विधिवत् स्नात्वा शर्वर्यन्ते समाहितः
॥२०॥देवान् ऋषीन् मनुष्यांश् च पितॄन् सन्तर्प्य च द्विजाः । उत्तीर्य वाससी धौते परिधाय सुनिर्मले
॥२१॥आचम्य प्रयतो भूत्वा तीरे तस्य महोदधेः । उपविश्योदये काले प्राङ्मुखः सवितुस् तदा
॥२२॥विलिख्य पद्मं मेधावी रक्तचन्दनवारिणा । अष्टपत्त्रं केसराढ्यं वर्तुलं चोर्ध्वकर्णिकम्
॥२३॥तिलतण्डुलतोयं च रक्तचन्दनसंयुतम् । रक्तपुष्पं सदर्भं च प्रक्षिपेत् ताम्रभाजने
॥२४॥ताम्राभावेऽर्कपत्त्रस्य पुटे कृत्वा तिलादिकम् । पिधाय तन् मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत्
॥२५॥करन्यासाङ्गविन्यासं कृत्वाङ्गैर् हृदयादिभिः । आत्मानं भास्करं ध्यात्वा सम्यक् श्रद्धासमन्वितः
॥२६॥मध्ये चाग्निदले धीमान् नैरृते श्वसने दले । कामारिगोचरे चैव पुनर् मध्ये च पूजयेत्
॥२७॥प्रभूतं विमलं सारम् आराध्यं परमं सुखम् । सम्पूज्य पद्मम् आवाह्य गगनात् तत्र भास्करम्
॥२८॥कर्णिकोपरि संस्थाप्य ततो मुद्रां प्रदर्शयेत् । कृत्वा स्नानादिकं सर्वं ध्यात्वा तं सुसमाहितः
॥२९॥सितपद्मोपरि रविं तेजोबिम्बे व्यवस्थितम् । पिङ्गाक्षं द्विभुजं रक्तं पद्मपत्त्रारुणाम्बरम्
॥३०॥सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् । सुरूपं वरदं शान्तं प्रभामण्डलमण्डितम्
॥३१॥उद्यन्तं भास्करं दृष्ट्वा सान्द्रसिन्दूरसन्निभम् । ततस् तत् पात्रम् आदाय जानुभ्यां धरणीं गतः
॥३२॥कृत्वा शिरसि तत् पात्रम् एकचित्तस् तु वाग्यतः । त्र्यक्षरेण तु मन्त्रेण सूर्यायार्घ्यं निवेदयेत्
॥३३॥अदीक्षितस् तु तस्यैव नाम्नैवार्घं प्रयच्छति । श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर् यतः
॥३४॥अग्निनिरृतिवाय्वीशमध्यपूर्वादिदिक्षु च । हृच् छिरश् च शिखावर्मनेत्राण्य् अस्त्रं च पूजयेत्
॥३५॥दत्त्वार्घ्यं गन्धधूपं च दीपं नैवेद्यम् एव च । जप्त्वा स्तुत्वा नमस् कृत्वा मुद्रां बद्ध्वा विसर्जयेत्
॥३६॥ये वार्घ्यं सम्प्रयच्छन्ति सूर्याय नियतेन्द्रियाः । ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश् च संयताः
॥३७॥भक्तिभावेन सततं विशुद्धेनान्तरात्मना । ते भुक्त्वाभिमतान् कामान् प्राप्नुवन्ति परां गतिम्
॥३८॥त्रैलोक्यदीपकं देवं भास्करं गगनेचरम् । ये संश्रयन्ति मनुजास् ते स्युः सुखस्य भाजनम्
॥३९॥यावन् न दीयते चार्घ्यं भास्कराय यथोदितम् । तावन् न पूजयेद् विष्णुं शङ्करं वा सुरेश्वरम्
॥४०॥तस्मात् प्रयत्नम् आस्थाय दद्याद् अर्घ्यं दिने दिने । आदित्याय शुचिर् भूत्वा पुष्पैर् गन्धैर् मनोरमैः
॥४१॥एवं ददाति यश् चार्घ्यं सप्तम्यां सुसमाहितः । आदित्याय शुचिः स्नातः स लभेद् ईप्सितं फलम्
॥४२॥रोगाद् विमुच्यते रोगी वित्तार्थी लभते धनम् । विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान् भवेत्
॥४३॥यं यं कामम् अभिध्यायन् सूर्यायार्घ्यं प्रयच्छति । तस्य तस्य फलं सम्यक् प्राप्नोति पुरुषः सुधीः
॥४४॥स्नात्वा वै सागरे दत्त्वा सूर्यायार्घ्यं प्रणम्य च । नरो वा यदि वा नारी सर्वकामफलं लभेत्
॥४५॥ततः सूर्यालयं गच्छेत् पुष्पम् आदाय वाग्यतः । प्रविश्य पूजयेद् भानुं कृत्वा तु त्रिः प्रदक्षिणम्
॥४६॥पूजयेत् परया भक्त्या कोणार्कं मुनिसत्तमाः । गन्धैः पुष्पैस् तथा दीपैर् धूपैर् नैवेद्यकैर् अपि
॥४७॥दण्डवत् प्रणिपातैश् च जयशब्दैस् तथा स्तवैः । एवं सम्पूज्य तं देवं सहस्रांशुं जगत्पतिम्
॥४८॥दशानाम् अश्वमेधानां फलं प्राप्नोति मानवः । सर्वपापविनिर्मुक्तो युवा दिव्यवपुर् नरः
॥४९॥सप्तावरान् सप्त परान् वंशान् उद्धृत्य भो द्विजाः । विमानेनार्कवर्णेन कामगेन सुवर्चसा
॥५०॥उपगीयमानो गन्धर्वैः सूर्यलोकं स गच्छति । भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसम्प्लवम्
॥५१॥पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले । चतुर्वेदो भवेद् विप्रः स्वधर्मनिरतः शुचिः
॥५२॥योगं विवस्वतः प्राप्य ततो मोक्षम् अवाप्नुयात् । चैत्रे मासि सिते पक्षे यात्रां दमनभञ्जिकाम्
॥५३॥यः करोति नरस् तत्र पूर्वोक्तं स फलं लभेत् । शयनोत्थापने भानोः सङ्क्रान्त्यां विषुवायने
॥५४॥वारे रवेस् तिथौ चैव पर्वकालेऽथवा द्विजाः । ये तत्र यात्रां कुर्वन्ति श्रद्धया संयतेन्द्रियाः
॥५५॥विमानेनार्कवर्णेन सूर्यलोकं व्रजन्ति ते । आस्ते तत्र महादेवस् तीरे नदनदीपतेः
॥५६॥रामेश्वर इति ख्यातः सर्वकामफलप्रदः । ये तं पश्यन्ति कामारिं स्नात्वा सम्यङ् महोदधौ
॥५७॥गन्धैः पुष्पैस् तथा धूपैर् दीपैर् नैवेद्यकैर् वरैः । प्रणिपातैस् तथा स्तोत्रैर् गीतैर् वाद्यैर् मनोहरैः
॥५८॥राजसूयफलं सम्यग् वाजिमेधफलं तथा । प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा
॥५९॥कामगेन विमानेन किङ्किणीजालमालिना । उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते
॥६०॥आहूतसम्प्लवं यावद् भुक्त्वा भोगान् मनोरमान् । पुण्यक्षयाद् इहागत्य चातुर्वेदा भवन्ति ते
॥६१॥शाङ्करं योगम् आस्थाय ततो मोक्षं व्रजन्ति ते । यस् तत्र सवितुः क्षेत्रे प्राणांस् त्यजति मानवः
॥६२॥स सूर्यलोकम् आस्थाय देववन् मोदते दिवि । पुनर् मानुषतां प्राप्य राजा भवति धार्मिकः
॥६३॥योगं रवेः समासाद्य ततो मोक्षम् अवाप्नुयात् । एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम्
॥६४॥कोणार्कस्योदधेस् तीरे भुक्तिमुक्तिफलप्रदः
॥६५॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).