मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १२०

3
ब्रह्मपुराणम् · 120

अध्यायः १२०

ब्रह्मोवाच:

धान्यतीर्थम् इति ख्यातं सर्वकामप्रदं नृणाम् । सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम्

॥१॥

ओषध्यः सोमराजानं पतिं प्राप्य मुदान्विताः । ऊचुः सर्वस्य लोकस्य गङ्गायाश् चेप्सितं वचः

॥२॥

ओषध्य ऊचुः:

वैदिकी पुण्यगाथास्ति यां वै वेदविदो विदुः । भूमिं सस्यवतीं कश्चिन् मातरं मातृसम्मिताम्

॥३॥

गङ्गासमीपे यो दद्यात् सर्वकामान् अवाप्नुयात् । भूमिं सस्यवतीं गाश् च ओषधीश् च मुदान्वितः

॥४॥

विष्णुब्रह्मेशरूपाय यो दद्याद् भक्तिमान् नरः । सर्वं तद् अक्षयं विद्यात् सर्वकामान् अवाप्नुयात्

॥५॥

ओषध्यः सोमराजन्याः सोमश् चाप्य् ओषधीपतिः । इति ज्ञात्वा ब्रह्मविद ओषधीर् यः प्रदास्यति

॥६॥

सर्वान् कामान् अवाप्नोति ब्रह्मलोके महीयते । ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः

॥७॥

ओषध्य ऊचुः:

योऽस्मान् ददाति गङ्गायां तं राजन् पारयामसि । त्वम् उत्तमश् चौषधीश त्वदधीनं चराचरम्

॥८॥

ओषधयः संवदन्ते सोमेन सह राज्ञा । योऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि

॥९॥

वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च । योऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि

॥१०॥

अस्मान् ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः । उपास्तिर् अस्ति सास्माकं तं राजन् पारयामसि

॥११॥

स्थावरं जङ्गमं किञ्चिद् अस्माभिर् व्यापृतं जगत् । योऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि

॥१२॥

हव्यं कव्यं यद् अमृतं यत् किञ्चिद् उपभुज्यते । तद्गरीयश् च यो दद्यात् तं राजन् पारयामसि

॥१३॥

इत्य् एतां वैदिकीं गाथां यः शृणोति स्मरेत वा । पठते भक्तिम् आपन्नस् तं राजन् पारयामसि

॥१४॥

ब्रह्मोवाच:

यत्रैषा पठिता गाथा सोमेन सह राज्ञा । गङ्गातीरे चौषधीभिर् धान्यतीर्थं तद् उच्यते

॥१५॥

ततः प्रभृति तत् तीर्थम् औषध्यं सौम्यम् एव च । अमृतं वेदगाथं च मातृतीर्थं तथैव च

॥१६॥

एषु स्नानं जपो होमो दानं च पितृतर्पणम् । अन्नदानं तु यः कुर्यात् तद् आनन्त्याय कल्पते

॥१७॥

षट्शताधिकसाहस्रं तीर्थानां तीरयोर् द्वयोः । सर्वपापनिहन्तॄणां सर्वसम्पद्विवर्धनम्

॥१८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).