अध्यायः १९२
व्यास उवाच:
चिन्तयन्न् इति गोविन्दम् उपगम्य स यादवः । अक्रूरोऽस्मीति चरणौ ननाम शिरसा हरेः
॥१॥सोऽप्य् एनं ध्वजवज्राब्जकृतचिह्नेन पाणिना । संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे
॥२॥कृतसंवदनौ तेन यथावद् बलकेशवौ । ततः प्रविष्टौ सहसा तम् आदायात्ममन्दिरम्
॥३॥सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः । भुक्तभोज्यो यथान्यायम् आचचक्षे ततस् तयोः
॥४॥यथा निर्भर्त्सितस् तेन कंसेनानकदुन्दुभिः । यथा च देवकी देवी दानवेन दुरात्मना
॥५॥उग्रसेने यथा कंसः स दुरात्मा च वर्तते । यं चैवार्थं समुद्दिश्य कंसेन स विसर्जितः
॥६॥तत् सर्वं विस्तराच् छ्रुत्वा भगवान् केशिसूदनः । उवाचाखिलम् एतत् तु ज्ञातं दानपते मया
॥७॥करिष्ये च महाभाग यद् अत्रौपायिकं मतम् । विचिन्त्यं नान्यथैतत् ते विद्धि कंसं हतं मया
॥८॥अहं रामश् च मथुरां श्वो यास्यावः समं त्वया । गोपवृद्धाश् च यास्यन्ति आदायोपायनं बहु
॥९॥निशेयं नीयतां वीर न चिन्तां कर्तुम् अर्हसि । त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम्
॥१०॥व्यास उवाच:
समादिश्य ततो गोपान् अक्रूरोऽपि सकेशवः । सुष्वाप बलभद्रश् च नन्दगोपगृहे गतः
॥११॥ततः प्रभाते विमले रामकृष्णौ महाबलौ । अक्रूरेण समं गन्तुम् उद्यतौ मथुरां पुरीम्
॥१२॥दृष्ट्वा गोपीजनः सास्रः श्लथद्वलयबाहुकः । निश्वसंश् चातिदुःखार्तः प्राह चेदं परस्परम्
॥१३॥मथुरां प्राप्य गोविन्दः कथं गोकुलम् एष्यति । नागरस्त्रीकलालापमधु श्रोत्रेण पास्यति
॥१४॥विलासिवाक्यजातेषु नागरीणां कृतास्पदम् । चित्तम् अस्य कथं ग्राम्यगोपगोपीषु यास्यति
॥१५॥सारं समस्तगोष्ठस्य विधिना हरता हरिम् । प्रहृतं गोपयोषित्सु निघृणेन दुरात्मना
॥१६॥भावगर्भस्मितं वाक्यं विलासललिता गतिः । नागरीणाम् अतीवैतत् कटाक्षेक्षितम् एव तु
॥१७॥ग्राम्यो हरिर् अयं तासां विलासनिगडैर् यतः । भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति
॥१८॥एषो हि रथम् आरुह्य मथुरां याति केशवः । अक्रूरक्रूरकेणापि हताशेन प्रतारितः
॥१९॥किं न वेत्ति नृशंसोऽयम् अनुरागपरं जनम् । येनेमम् अक्षराह्लादं नयत्य् अन्यत्र नो हरिम्
॥२०॥एष रामेण सहितः प्रयात्य् अत्यन्तनिर्घृणः । रथम् आरुह्य गोविन्दस् त्वर्यताम् अस्य वारणे
॥२१॥गुरूणाम् अग्रतो वक्तुं किं ब्रवीषि न नः क्षमम् । गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना
॥२२॥नन्दगोपमुखा गोपा गन्तुम् एते समुद्यताः । नोद्यमं कुरुते कश्चिद् गोविन्दविनिवर्तने
॥२३॥सुप्रभाताद्य रजनी मथुरावासियोषिताम् । यासाम् अच्युतवक्त्राब्जे याति नेत्रालिभोग्यताम्
॥२४॥धन्यास् ते पथि ये कृष्णम् इतो यान्तम् अवारिताः । उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम्
॥२५॥मथुरानगरीपौरनयनानां महोत्सवः । गोविन्दवदनालोकाद् अतीवाद्य भविष्यति
॥२६॥को नु स्वप्नः सभाग्याभिर् दृष्टस् ताभिर् अधोक्षजम् । विस्तारिकान्तनयना या द्रक्ष्यन्त्य् अनिवारितम्
॥२७॥अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् । उद्धृतान्य् अद्य नेत्राणि विधात्राकरुणात्मना
॥२८॥अनुरागेण शैथिल्यम् अस्मासु व्रजतो हरेः । शैथिल्यम् उपयान्त्य् आशु करेषु वलयान्य् अपि
॥२९॥अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान् । एवम् आर्तासु योषित्सु घृणा कस्य न जायते
॥३०॥हे हे कृष्ण रथस्योच्चैश् चक्ररेणुर् निरीक्ष्यताम् । दूरीकृतो हरिर् येन सोऽपि रेणुर् न लक्ष्यते
॥३१॥इत्य् एवम् अतिहार्देन गोपीजननिरीक्षितः । तत्याज व्रजभूभागं सह रामेण केशवः
॥३२॥गच्छन्तो जवनाश्वेन रथेन यमुनातटम् । प्राप्ता मध्याह्नसमये रामाक्रूरजनार्दनाः
॥३३॥अथाह कृष्णम् अक्रूरो भवद्भ्यां तावद् आस्यताम् । यावत् करोमि कालिन्द्याम् आह्निकार्हणम् अम्भसि
॥३४॥तथेत्य् उक्ते ततः स्नातः स्वाचान्तः स महामतिः । दध्यौ ब्रह्म परं विप्राः प्रविश्य यमुनाजले
॥३५॥फणासहस्रमालाढ्यं बलभद्रं ददर्श सः । कुन्दामलाङ्गम् उन्निद्रपद्मपत्त्रायतेक्षणम्
॥३६॥वृतं वासुकिडिम्भौघैर् महद्भिः पवनाशिभिः । संस्तूयमानम् उद्गन्धिवनमालाविभूषितम्
॥३७॥दधानम् असिते वस्त्रे चारुरूपावतंसकम् । चारुकुण्डलिनं मत्तम् अन्तर्जलतले स्थितम्
॥३८॥तस्योत्सङ्गे घनश्यामम् आताम्रायतलोचनम् । चतुर्बाहुम् उदाराङ्गं चक्राद्यायुधभूषणम्
॥३९॥पीते वसानं वसने चित्रमाल्यविभूषितम् । शक्रचापतडिन्मालाविचित्रम् इव तोयदम्
॥४०॥श्रीवत्सवक्षसं चारुकेयूरमुकुटोज्ज्वलम् । ददर्श कृष्णम् अक्लिष्टं पुण्डरीकावतंसकम्
॥४१॥सनन्दनाद्यैर् मुनिभिः सिद्धयोगैर् अकल्मषैः । सञ्चिन्त्यमानं मनसा नासाग्रन्यस्तलोचनैः
॥४२॥बलकृष्णौ तदाक्रूरः प्रत्यभिज्ञाय विस्मितः । अचिन्तयद् अथो शीघ्रं कथम् अत्रागताव् इति
॥४३॥विवक्षोः स्तम्भयाम् आस वाचं तस्य जनार्दनः । ततो निष्क्रम्य सलिलाद् रथम् अभ्यागतः पुनः
॥४४॥ददर्श तत्र चैवोभौ रथस्योपरि संस्थितौ । रामकृष्णौ यथा पूर्वं मनुष्यवपुषान्वितौ
॥४५॥निमग्नश् च पुनस् तोये ददृशे स तथैव तौ । संस्तूयमानौ गन्धर्वैर् मुनिसिद्धमहोरगैः
॥४६॥ततो विज्ञातसद्भावः स तु दानपतिस् तदा । तुष्टाव सर्वविज्ञानमयम् अच्युतम् ईश्वरम्
॥४७॥अक्रूर उवाच:
तन्मात्ररूपिणेऽचिन्त्यमहिम्ने परमात्मने । व्यापिने नैकरूपैकस्वरूपाय नमो नमः
॥४८॥शब्दरूपाय तेऽचिन्त्यहविर्भूताय ते नमः । नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो
॥४९॥भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । आत्मा च परमात्मा च त्वम् एकः पञ्चधा स्थितः
॥५०॥प्रसीद सर्वधर्मात्मन् क्षराक्षर महेश्वर । ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिर् उदीरितः
॥५१॥अनाख्येयस्वरूपात्मन्न् अनाख्येयप्रयोजन । अनाख्येयाभिधान त्वां नतोऽस्मि परमेश्वरम्
॥५२॥न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः । तद् ब्रह्म परमं नित्यम् अविकारि भवान् अजः
॥५३॥न कल्पनाम् ऋतेऽर्थस्य सर्वस्याधिगमो यतः । ततः कृष्णाच्युतानन्त विष्णुसञ्ज्ञाभिर् ईड्यसे
॥५४॥सर्वात्मंस् त्वम् अज विकल्पनाभिर् एतैर् । देवास् त्वं जगद् अखिलं त्वम् एव विश्वम् । विश्वात्मंस् त्वम् अतिविकारभेदहीनः । सर्वस्मिन् नहि भवतोऽस्ति किञ्चिद् अन्यत्
॥५५॥त्वं ब्रह्मा पशुपतिर् अर्यमा विधाता । त्वं धाता त्रिदशपतिः समीरणोऽग्निः । तोयेशो धनपतिर् अन्तकस् त्वम् एको । भिन्नात्मा जगद् अपि पासि शक्तिभेदैः
॥५६॥विश्वं भवान् सृजति हन्ति गभस्तिरूपो । विश्वं च ते गुणमयोऽयम् अज प्रपञ्चः । रूपं परं सदितिवाचकम् अक्षरं यज् । ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै
॥५७॥ॐ नमो वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नाय नमस् तुभ्यम् अनिरुद्धाय ते नमः
॥५८॥व्यास उवाच:
एवम् अन्तर् जले कृष्णम् अभिष्टूय स यादवः । अर्घयाम् आस सर्वेशं धूपपुष्पैर् मनोमयैः
॥५९॥परित्यज्यान्यविषयं मनस् तत्र निवेश्य सः । ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः
॥६०॥कृतकृत्यम् इवात्मानं मन्यमानो द्विजोत्तमाः । आजगाम रथं भूयो निर्गम्य यमुनाम्भसः
॥६१॥रामकृष्णौ ददर्शाथ यथापूर्वम् अवस्थितौ । विस्मिताक्षं तदाक्रूरं तं च कृष्णोऽभ्यभाषत
॥६२॥श्रीकृष्ण उवाच:
किं त्वया दृष्टम् आश्चर्यम् अक्रूर यमुनाजले । विस्मयोत्फुल्लनयनो भवान् संलक्ष्यते यतः
॥६३॥अक्रूर उवाच:
अन्तर् जले यद् आश्चर्यं दृष्टं तत्र मयाच्युत । तद् अत्रैव हि पश्यामि मूर्तिमत् पुरतः स्थितम्
॥६४॥जगद् एतन् महाश्चर्यरूपं यस्य महात्मनः । तेनाश्चर्यपरेणाहं भवता कृष्ण सङ्गतः
॥६५॥तत् किम् एतेन मथुरां प्रयामो मधुसूदन । बिभेमि कंसाद् धिग् जन्म परपिण्डोपजीविनः
॥६६॥व्यास उवाच:
इत्य् उक्त्वा चोदयाम् आस तान् हयान् वातरंहसः । सम्प्राप्तश् चापि सायाह्ने सोऽक्रूरो मथुरां पुरीम् । विलोक्य मथुरां कृष्णं रामं चाह स यादवः
॥६७॥अक्रूर उवाच:
पद्भ्यां यातं महावीर्यौ रथेनैको विशाम्य् अहम् । गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहे । युवयोर् हि कृते वृद्धः कंसेन स निरस्यते
॥६८॥व्यास उवाच:
इत्य् उक्त्वा प्रविवेशासाव् अक्रूरो मथुरां पुरीम् । प्रविष्टौ रामकृष्णौ च राजमार्गम् उपागतौ
॥६९॥स्त्रीभिर् नरैश् च सानन्दलोचनैर् अभिविक्षितौ । जग्मतुर् लीलया वीरौ प्राप्तौ बालगजाव् इव
॥७०॥भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् । अयाचेतां स्वरूपाणि वासांसि रुचिराणि तौ
॥७१॥कंसस्य रजकः सोऽथ प्रसादारूढविस्मयः । बहून्य् आक्षेपवाक्यानि प्राहोच्चै रामकेशवौ
॥७२॥ततस् तलप्रहारेण कृष्णस् तस्य दुरात्मनः । पातयाम् आस कोपेन रजकस्य शिरो भुवि
॥७३॥हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः । कृष्णरामौ मुदायुक्तौ मालाकारगृहं गतौ
॥७४॥विकासिनेत्रयुगलो मालाकारोऽतिविस्मितः । एतौ कस्य कुतो यातौ मनसाचिन्तयत् ततः
॥७५॥पीतनीलाम्बरधरौ दृष्ट्वातिसुमनोहरौ । स तर्कयाम् आस तदा भुवं देवाव् उपागतौ
॥७६॥विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः । भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम्
॥७७॥प्रसादसुमुखौ नाथौ मम गेहम् उपागतौ । धन्योऽहम् अर्चयिष्यामीत्य् आह तौ माल्यजीविकः
॥७८॥ततः प्रहृष्टवदनस् तयोः पुष्पाणि कामतः । चारूण्य् एतानि चैतानि प्रददौ स विलोभयन्
॥७९॥पुनः पुनः प्रणम्यासौ मालाकारोत्तमो ददौ । पुष्पाणि ताभ्यां चारूणि गन्धवन्त्य् अमलानि च
॥८०॥मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरम् । श्रीस् त्वां मत्संश्रया भद्र न कदाचित् त्यजिष्यति
॥८१॥बलहानिर् न ते सौम्य धनहानिर् अथापि वा । यावद् धरणिसूर्यौ च सन्ततिः पुत्रपौत्रिकी
॥८२॥भुक्त्वा च विपुलान् भोगांस् त्वम् अन्ते मत्प्रसादतः । ममानुस्मरणं प्राप्य दिव्यलोकम् अवाप्स्यसि
॥८३॥धर्मे मनश् च ते भद्र सर्वकालं भविष्यति । युष्मत्सन्ततिजातानां दीर्घम् आयुर् भविष्यति
॥८४॥नोपसर्गादिकं दोषं युष्मत्सन्ततिसम्भवः । अवाप्स्यति महाभाग यावत् सूर्यो भविष्यति
॥८५॥व्यास उवाच:
इत्य् उक्त्वा तद्गृहात् कृष्णो बलदेवसहायवान् । निर्जगाम मुनिश्रेष्ठा मालाकारेण पूजितः
॥८६॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).