अध्यायः १४९
ब्रह्मोवाच:
नारसिंहम् इति ख्यातं गङ्गाया उत्तरे तटे । तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम्
॥१॥हिरण्यकशिपुः पूर्वम् अभवद् बलिनां वरः । तपसा विक्रमेणापि देवानाम् अपराजितः
॥२॥हरिभक्तात्मजद्वेषकलुषीकृतमानसः । आविर्भूय सभास्तम्भाद् विश्वात्मत्वं प्रदर्शयन्
॥३॥तं हत्वा नरसिंहस् तत्सैन्यम् अद्रावयत् तदा । सर्वान् हत्वा महादैत्यान् क्रमेणाजौ महामृगः
॥४॥रसातलस्थाञ् शत्रूंश् च जित्वा स्वर्लोकम् ईयिवान् । तत्र जित्वा भुवं गत्वा दैत्यान् हत्वा नगस्थितान्
॥५॥समुद्रस्थान् नदीसंस्थान् ग्रामस्थान् वनवासिनः । नानारूपधरान् दैत्यान् निजघान मृगाकृतिः
॥६॥आकाशगान् वायुसंस्थाञ् ज्योतिर्लोकम् उपागतान् । वज्रपाताधिकनखः समुद्धूतमहासटः
॥७॥दैत्यगर्भस्राविगर्जी निर्जिताशेषराक्षसः । महानादैर् वीक्षितैश् च प्रलयानलसन्निभैः
॥८॥चपेटैर् अङ्गविक्षेपैर् असुरान् पर्यचूर्णयत् । एवं हत्वा बहुविधान् गौतमीम् अगमद् धरिः
॥९॥स्वपदाम्बुजसम्भूतां मनोनयननन्दिनीम् । तत्राम्बर्य इति ख्यातो दण्डकाधिपते रिपुः
॥१०॥देवानां दुर्जयो योद्धा बलेन महतावृतः । तेनाभवन् महारौद्रं भीषणं लोमहर्षणम्
॥११॥शस्त्रास्त्रवर्षणं युद्धं हरिणा दैत्यसूनुना । निजघान हरिः श्रीमांस् तं रिपुं ह्य् उत्तरे तटे
॥१२॥गङ्गायां नारसिंहं तु तीर्थं त्रैलोक्यविश्रुतम् । स्नानदानादिकं तत्र सर्वपापग्रहार्दनम्
॥१३॥सर्वरक्षाकरं नित्यं जरामरणवारणम् । यथा सुराणां सर्वेषां न कोपि हरिणा समः
॥१४॥तीर्थानाम् अप्य् अशेषाणां तथा तत् तीर्थम् उत्तमम् । तत्र तीर्थे नरः स्नात्वा कुर्यान् नृहरिपूजनम्
॥१५॥स्वर्गे मर्त्ये तले वापि तस्य किञ्चिन् न दुर्लभम् । इत्याद्य् अष्टौ मुने तत्र महातीर्थानि नारद
॥१६॥पृथक् पृथक् तीर्थकोटिफलम् आहुर् मनीषिणः । अश्रद्धयापि यन्नाम्नि स्मृते सर्वाघसङ्क्षयः
॥१७॥भवेत् साक्षान् नृसिंहोऽसौ सर्वदा यत्र संस्थितः । तत् तीर्थसेवासञ्जातं फलं कैर् इह वर्ण्यते
॥१८॥यथा न देवो नृहरेर् अधिकः क्वापि वर्तते । तथा नृसिंहतीर्थेन समं तीर्थं न कुत्रचित्
॥१९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).