मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १६७

3
ब्रह्मपुराणम् · 167

अध्यायः १६७

ब्रह्मोवाच:

विप्रतीर्थम् इति ख्यातं तथा नारायणं विदुः । तस्याख्यानं प्रवक्ष्यामि शृणु विस्मयकारकम्

॥१॥

अन्तर्वेद्यां द्विजः कश्चिद् ब्राह्मणो वेदपारगः । तस्य पुत्रा महाप्राज्ञा गुणरूपदयान्विताः

॥२॥

तेषां कनीयान् यो भ्राता शान्तो गुणगणैर् वृतः । आसन्दिव इति ख्यातः सर्वज्ञानो महामतिः

॥३॥

विवाहाय पिता तस्माऐ आसन्दिवाय यत्नवान् । एतस्मिन्न् अन्तरे रात्रौ सुप्तं तं द्विजपुत्रकम्

॥४॥

अविष्णुस्मरणं सौम्यशिरस्कम् असमाहितम् । आसन्दिवं क्रूररूपा राक्षसी कामरूपिणी

॥५॥

तम् आदायागमच् छीघ्रं गौतम्या दक्षिणे तटे । श्रीगिरेर् उत्तरे पारे बहुब्राह्मणसेवितम्

॥६॥

नगरं धर्मनिलयं लक्ष्म्या निलयम् एव च । तत्र राजा बृहत्कीर्तिः सर्वक्षत्रगुणान्वितः

॥७॥

तस्यामितक्षेमसुभिक्षयुक्तं । निशावसाने द्विजपुत्रयुक्ता । सा राक्षसी तत् पुरम् आससाद । मनोज्ञरूपाणि बिभर्ति नित्यम्

॥८॥

सा कामरूपेण चरत्य् अशेषां । महीम् इमां तेन समं द्विजेन । गोदावरीदक्षिणतीरभागे । वृद्धाकृतिस् तं द्विजम् आह भीमा

॥९॥

राक्षस्य् उवाच:

एषा तु गङ्गा द्विजमुख्य सन्ध्या । उपास्यतां विप्रवरैः समेत्य । यथोचितं विप्रवरास् तु काले । नोपासते यत्नत एव सन्ध्याम्

॥१०॥

नीचास् त एवाभिहिताः सुरेशैर् । अन्त्यावसायिप्रवरास् त एते । अहं जनित्री तव चेति वाच्यं । नो चेद् इदानीं त्वम् उपैषि नाशम्

॥११॥

मद्वाक्यकर्तासि यदि द्विजेन्द्र । सुखं करिष्ये तव यत् प्रियं च । पुनश् च देशं निलयं गुरूंश् च । सम्प्रापयिष्ये ननु सत्यम् एतत्

॥१२॥

ब्रह्मोवाच:

स प्राह का त्वं द्विजपुङ्गवोऽपि । सोवाच तं राक्षसी कामरूपा । विश्वासयन्ती शपथैर् अनेकैस् । तं भ्रान्तचित्तं मुनिराजपुत्रम्

॥१३॥

कङ्कालिनी नाम जगत्प्रसिद्धा । विप्रोऽपि ताम् आह निवेदितं यत् । तद् एव कर्तास्मि न संशयोऽत्र । यत् तत् प्रियं वच्मि करोमि चैव

॥१४॥

ब्रह्मोवाच:

तद् विप्रवचनं श्रुत्वा राक्षसी कामरूपिणी । वृद्धा तथापि चार्वङ्गी दिव्यालङ्कारभूषणा

॥१५॥

द्विजम् आदाय सर्वत्र मत्सुतोऽयं गुणाकरः । एवं वदन्ती सर्वत्र याति वक्ति करोति च

॥१६॥

तं विप्रं रूपसौभाग्यवयोविद्याविभूषितम् । तां च वृद्धां गुणोपेताम् अस्य मातेति मेनिरे

॥१७॥

तत्र द्विजवरः कश्चित् स्वां कन्यां भूषणान्विताम् । राक्षसीं तां पुरस्कृत्य प्रादात् तस्मै द्विजातये

॥१८॥

सा कन्या तं पतिं प्राप्य कृतार्थास्मीत्य् अचिन्तयत् । स द्विजोऽपि गुणैर् युक्तां पत्नीं दृष्ट्वा सुदुःखितः

॥१९॥

द्विज उवाच:

माम् इयं भक्षयेद् एव राक्षसी पापरूपिणी । किं करोमि क्व गच्छामि कस्यैतत् कथयामि वा

॥२०॥

महत् सङ्कटम् आपन्नं रक्षयिष्यति कोऽत्र माम् । भार्या ममेयं कल्याणी गुणरूपवयोयुता । एनाम् अप्य् अशुभाकस्माद् भक्षयिष्यति राक्षसी

॥२१॥

ब्रह्मोवाच:

एतस्मिन्न् अन्तरे तत्र भार्या सा गुणशालिनी । वृद्धाप्य् अतिदुराधर्षा सा गता कुत्रचित् तदा

॥२२॥

प्रश्रयावनता भूत्वा बाला चापि पतिव्रता । भर्तारं दुःखितं ज्ञात्वा पतिं प्राह रहः शनैः

॥२३॥

भार्योवाच:

कस्मात् ते दुःखम् आपन्नं स्वामिंस् तत्त्वं वदस्व मे

॥२४॥

ब्रह्मोवाच:

शनैः प्रोवाच तां भार्यां यथावत् पूर्वविस्तरम् । किम् अकथ्यं प्रिये मित्रे कुलीनायां च योषिति

॥२५॥

भर्तृवाक्यं निशम्येदं प्रोवाच वदतां वरा

॥२६॥

भार्योवाच:

अनात्मनः सर्वतोऽपि भयम् अस्ति गृहेष्व् अपि । कुतो भयं ह्य् आत्मवतां किं पुनर् गौतमीतटे

॥२७॥

वसतां विष्णुभक्तानां विरक्तानां विवेकिनाम् । अत्र स्नात्वा शुचिर् भूत्वा स्तुहि देवम् अनामयम्

॥२८॥

ब्रह्मोवाच:

एतद् आकर्ण्य गङ्गायां स्नात्वा विगतकल्मषः । तुष्टाव गौतमीतीरे द्विजो नारायणं तथा

॥२९॥

द्विज उवाच:

त्वम् अन्तरात्मा जगतोऽस्य नाथ । त्वम् एव कर्तास्य मुकुन्द हर्ता । त्वं पालकः पालयसे न दीनम् । अनाथबन्धो नरसिंह कस्मात्

॥३०॥

श्रुत्वैतत् प्रार्थनं तस्य जगच्छोकनिवारणः । नारायणोऽपि तां पापां निजघान स राक्षसीम्

॥३१॥

सुदर्शनेन चक्रेण सहस्रारेण भास्वता । तस्मै प्रादाद् वरान् इष्टान् प्रापयच् च गुरुं प्रभुः

॥३२॥

ततः प्रभृति तत् तीर्थं विप्रं नारायणं विदुः । स्नानदानेन पूजाद्यैर् यत्र सिध्यति वाञ्छितम्

॥३३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).