मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १६३

3
ब्रह्मपुराणम् · 163

अध्यायः १६३

ब्रह्मोवाच:

सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम् । भुक्तिमुक्तिप्रदं नॄणां सर्वपापप्रणाशनम्

॥१॥

सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम् । तत्रेमं शृणु वृत्तान्तं विस्तरेणाथ नारद

॥२॥

पुष्पोत्कटात् पूर्वभागे पर्वतो लोकविश्रुतः । शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे

॥३॥

शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः । तस्मिञ् शुभ्रे पुण्यगिरौ तपस् तेपे ह्य् अनुत्तमम्

॥४॥

तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरम् आश्रितम् । सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम्

॥५॥

अग्निशुश्रूषणपरं वेदाध्ययनतत्परम् । ऋषिगन्धर्वसुमनःसेविते तत्र पर्वते

॥६॥

तस्मिन् गिरौ महापुण्ये देवद्विजभयङ्करः । यज्ञद्वेषी ब्रह्महन्ता परशुर् नाम राक्षसः

॥७॥

कामरूपी विचरति नानारूपधरो वने । क्षणं च ब्रह्मरूपेण कदाचिद् व्याघ्ररूपधृक्

॥८॥

कदाचिद् देवरूपेण कदाचित् पशुरूपधृक् । कदाचित् प्रमदारूपः कदाचिन् मृगरूपतः

॥९॥

कदाचिद् बालरूपेण एवं चरति पापकृत् । यत्रास्ते ब्राह्मणो विद्वाञ् शाकल्यो मुनिसत्तमः

॥१०॥

तम् आयाति महापापी परशू राक्षसाधमः । शुचिष्मन्तं द्विजश्रेष्ठं परशुर् नित्यम् एव च

॥११॥

नेतुं हन्तुं प्रवृत्तोऽपि न शशाक स पापकृत् । स कदाचिद् द्विजश्रेष्ठो देवान् अभ्यर्च्य यत्नतः

॥१२॥

भोक्तुकामः किलायातस् तत्रायात् परशुर् मुने । ब्रह्मरूपधरो भूत्वा शिथिलः पलितोऽबली । कन्याम् आदाय काञ्चिच् च शाकल्यं वाक्यम् अब्रवीत्

॥१३॥

परशुर् उवाच:

भोजनस्यार्थिनं विद्धि मां च कन्याम् इमां द्विज । आतिथ्यकाले सम्प्राप्तं कृतकृत्योऽसि मानद

॥१४॥

त एव धन्या लोकेऽस्मिन् येषाम् अतिथयो गृहात् । पूर्णाभिलाषा निर्यान्ति जीवन्तोऽपि मृताः परे

॥१५॥

भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत् । अतिथिभ्यस् तु यो दद्याद् दत्ता तेन वसुन्धरा

॥१६॥

ब्रह्मोवाच:

एतच् छ्रुत्वा तु शाकल्यो ददामीत्य् एवम् अब्रवीत् । आसने चोपवेश्याथाज्ञानात् तं परशुं द्विजम्

॥१७॥

यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ । आपोशनं करे कृत्वा परशुर् वाक्यम् अब्रवीत्

॥१८॥

परशुर् उवाच:

दूराद् अभ्यागतं श्रान्तम् अनुगच्छन्ति देवताः । तस्मिंस् तृप्ते तु तृप्ताः स्युर् अतृप्ते तु विपर्ययः

॥१९॥

अतिथिश् चापवादी च द्वाव् एतौ विश्वबान्धवौ । अपवादी हरेत् पापम् अतिथिः स्वर्गसङ्क्रमः

॥२०॥

अभ्यागतं पथि श्रान्तं सावज्ञं योऽभिवीक्षते । तत्क्षणाद् एव नश्यन्ति तस्य धर्मयशःश्रियः

॥२१॥

तस्माद् अभ्यागतः श्रान्तो याचेऽहं त्वां द्विजोत्तम । दास्यसे यदि मे कामं तद् भोक्ष्येऽहं न चान्यथा

॥२२॥

ब्रह्मोवाच:

दत्तम् इत्य् एव शाकल्यो भुङ्क्ष्वेत्य् एवाह राक्षसम् । ततः प्रोवाच परशुर् अहं राक्षससत्तमः

॥२३॥

नाहं द्विजस् तव रिपुर् न वृद्धः पलितः कृशः । बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः

॥२४॥

शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा । तस्मान् नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम

॥२५॥

ब्रह्मोवाच:

श्रुत्वा परशुवाक्यं तच् छाकल्यो वाक्यम् अब्रवीत्

॥२६॥

शाकल्य उवाच:

ये महाकुलसम्भूता विज्ञातसकलागमाः । तत् प्रतिश्रुतम् अभ्येति न जात्व् अत्र विपर्ययम्

॥२७॥

यथोचितं कुरु सखे तथापि शृणु मे वचः । निहन्तुम् अप्य् उद्यतेषु वक्तव्यं हितम् उत्तमैः

॥२८॥

ब्राह्मणोऽहं वज्रतनुः सर्वतो रक्षको हरिः । पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः

॥२९॥

बाहू रक्षतु वाराहः पृष्ठं रक्षतु कूर्मराट् । हृदयं रक्षतात् कृष्णो ह्य् अङ्गुली रक्षतान् मृगः

॥३०॥

मुखं रक्षतु वागीशो नेत्रे रक्षतु पक्षिगः । श्रोत्रं रक्षतु वित्तेशः सर्वतो रक्षताद् भवः । नानापत्स्व् एकशरणं देवो नारायणः स्वयम्

॥३१॥

ब्रह्मोवाच:

एवम् उक्त्वा तु शाकल्यो नय वा भक्ष वा सुखम् । मां राक्षसेन्द्र परशो त्वम् इदानीम् अतन्द्रितः

॥३२॥

राक्षसस् तस्य वचनाद् भक्षणाय समुद्यतः । नास्त्य् एव हृदये नूनं पापिनां करुणाकणः

॥३३॥

दंष्ट्राकरालवदनो गत्वा तस्यान्तिकं तदा । ब्राह्मणं तं निरीक्ष्यैवं परशुर् वाक्यम् अब्रवीत्

॥३४॥

परशुर् उवाच:

शङ्खचक्रगदापाणिं त्वां पश्येऽहं द्विजोत्तम । सहस्रपादशिरसं सहस्राक्षकरं विभुम्

॥३५॥

सर्वभूतैकनिलयं छन्दोरूपं जगन्मयम् । त्वाम् अद्य विप्र पश्यामि नास्ति ते पूर्वकं वपुः

॥३६॥

तस्मात् प्रसादये विप्र त्वम् एव शरणं भव । ज्ञानं देहि महाबुद्धे तीर्थं ब्रूह्य् अघनिष्कृतिम्

॥३७॥

महतां दर्शनं ब्रह्मञ् जायते नहि निष्फलम् । द्वेषाद् अज्ञानतो वापि प्रसङ्गाद् वा प्रमादतः

॥३८॥

अयसः स्पर्शसंस्पर्शो रुक्मत्वायैव जायते

॥३९॥

ब्रह्मोवाच:

एतद् वाक्यं समाकर्ण्य राक्षसेन समीरितम् । शाकल्यः कृपया प्राह वरदा सा सरस्वती

॥४०॥

तवाचिराद् दैत्यपते ततः स्तुहि जनार्दनम् । मनोरथफलप्राप्तौ नान्यन् नारायणस्तुतेः

॥४१॥

किञ्चिद् अप्य् अस्ति लोकेऽस्मिन् कारणं शृणु राक्षस । प्रसन्ना तव सा देवी मद्वाक्याच् च भविष्यति

॥४२॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा स परशुर् गङ्गां त्रैलोक्यपावनीम् । स्नात्वा शुचिर् यतमना गङ्गाम् अभिमुखः स्थितः

॥४३॥

तत्रापश्यद् दिव्यरूपां दिव्यगन्धानुलेपनाम् । सरस्वतीं जगद्धात्रीं शाकल्यवचने स्थिताम्

॥४४॥

जगज्जाड्यहरां विश्वजननीं भुवनेश्वरीम् । ताम् उवाच विनीतात्मा परशुर् गतकल्मषः

॥४५॥

परशुर् उवाच:

गुरुः शाकल्य इत्य् आह माकान्तं स्तुहि विध्वजम् । तव प्रसादात् सा शक्तिर् यथा मे स्यात् तथा कुरु

॥४६॥

ब्रह्मोवाच:

तथास्त्व् इति च सा प्राह परशुं श्रीसरस्वती । सरस्वत्याः प्रसादेन परशुस् तं जनार्दनम्

॥४७॥

तुष्टाव विविधैर् वाक्यैस् ततस् तुष्टोऽभवद् धरिः । वरं प्रादाद् राक्षसाय कृपासिन्धुर् जनार्दनः

॥४८॥

जनार्दन उवाच:

यद् यन् मनोगतं रक्षस् तत् तत् सर्वं भविष्यति

॥४९॥

ब्रह्मोवाच:

शाकल्यस्य प्रसादेन गौतम्याश् च प्रसादतः । सरस्वत्याः प्रसादेन नरसिंहप्रसादतः

॥५०॥

पापिष्ठोऽपि तदा रक्षः परशुर् दिवम् एयिवान् । सर्वतीर्थाङ्घ्रिपद्मस्य प्रसादाच् छार्ङ्गधन्वनः

॥५१॥

ततः प्रभृति तत् तीर्थं सारस्वतम् इति श्रुतम् । तत्र स्नानेन दानेन विष्णुलोके महीयते

॥५२॥

वाग्जवैष्णवशाकल्यपरशुप्रभवाणि हि । बहून्य् अभूवंस् तीर्थानि तस्मिन् वै श्वेतपर्वते

॥५३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).