मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २४६

3
ब्रह्मपुराणम् · 246

अध्यायः २४६

लोमहर्षण उवाच:

एवं पुरा मुनीन् व्यासः पुराणं श्लक्ष्णया गिरा । दशाष्टदोषरहितैर् वाक्यैः सारतरैर् द्विजाः

॥१॥

पूर्णम् अस्तमलैः शुद्धैर् नानाशास्त्रसमुच्चयैः । जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम्

॥२॥

पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम् । श्रावयित्वा यथान्यायं विरराम महामतिः

॥३॥

तेऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसम्मितम् । आद्यं ब्राह्माभिधानं च सर्ववाञ्छाफलप्रदम्

॥४॥

हृष्टा बभूवुः सुप्रीता विस्मिताश् च पुनः पुनः । प्रशशंसुस् तदा व्यासं कृष्णद्वैपायनं मुनिम्

॥५॥

मुनय ऊचुः:

अहो त्वया मुनिश्रेष्ठ पुराणं श्रुतिसम्मितम् । सर्वाभिप्रेतफलदं सर्वपापहरं परम्

॥६॥

प्रोक्तं श्रुतं तथास्माभिर् विचित्रपदम् अक्षरम् । न तेऽस्त्य् अविदितं किञ्चित् त्रिषु लोकेषु वै प्रभो

॥७॥

सर्वज्ञस् त्वं महाभाग देवेष्व् इव बृहस्पतिः । नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम्

॥८॥

येन त्वया तु वेदार्था भारते प्रकटीकृताः । कः शक्नोति गुणान् वक्तुं तव सर्वान् महामुने

॥९॥

अधीत्य चतुरो वेदान् साङ्गान् व्याकरणानि च । कृतवान् भारतं शास्त्रं तस्मै ज्ञानात्मने नमः

॥१०॥

नमोऽस्तु ते व्यास विशालबुद्धे । फुल्लारविन्दायतपत्त्रनेत्र । येन त्वया भारततैलपूर्णः । प्रज्वालितो ज्ञानमयः प्रदीपः

॥११॥

अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः । ज्ञानाञ्जनशलाकेन त्वया चोन्मीलिता दृशः

॥१२॥

एवम् उक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः । जग्मुर् यथागतं सर्वे कृतकृत्याः स्वम् आश्रमम्

॥१३॥

तथा मया मुनिश्रेष्ठा कथितं हि सनातनम् । पुराणं सुमहापुण्यं सर्वपापप्रणाशनम्

॥१४॥

यथा भवद्भिः पृष्टोऽहं सम्प्रश्नं द्विजसत्तमाः । व्यासप्रसादात् तत् सर्वं मया सम्परिकीर्तितम्

॥१५॥

इदं गृहस्थैः श्रोतव्यं यतिभिर् ब्रह्मचारिभिः । धनसौख्यप्रदं नॄणां पवित्रं पापनाशनम्

॥१६॥

तथा ब्रह्मपरैर् विप्रैर् ब्राह्मणाद्यैः सुसंयतैः । श्रोतव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः

॥१७॥

प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे । वैश्यस् तु धनम् अक्षय्यं शूद्रः सुखम् अवाप्नुयात्

॥१८॥

यं यं कामम् अभिध्यायञ् शृणोति पुरुषः शुचिः । तं तं कामम् अवाप्नोति नरो नास्त्य् अत्र संशयः

॥१९॥

पुराणं वैष्णवं त्व् एतत् सर्वकिल्बिषनाशनम् । विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम्

॥२०॥

एतद् वो यन् मयाख्यातं पुराणं वेदसम्मितम् । श्रुतेऽस्मिन् सर्वदोषोत्थः पापराशिः प्रणश्यति

॥२१॥

प्रयागे पुष्करे चैव कुरुक्षेत्रे तथार्बुदे । उपोष्य यद् अवाप्नोति तद् अस्य श्रवणान् नरः

॥२२॥

यद् अग्निहोत्रे सुहुते वर्षे नाप्नोति वै फलम् । महापुण्यमयं विप्रास् तद् अस्य श्रवणात् सकृत्

॥२३॥

यज् ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले । मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम्

॥२४॥

तद् आप्नोति फलं सम्यक् समाधानेन कीर्तनात् । पुराणेऽस्य हितो विप्राः केशवार्पितमानसः

॥२५॥

यत् फलं क्रियम् आलोक्य पुरुषोऽथ लभेन् नरः । तत् फलं समवाप्नोति यः पठेच् छृणुयाद् अपि

॥२६॥

इदं यः श्रद्धया नित्यं पुराणं वेदसम्मितम् । यः पठेच् छृणुयान् मर्त्यः स याति भुवनं हरेः

॥२७॥

श्रावयेद् ब्राह्मणो यस् तु सदा पर्वसु संयतः । एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति

॥२८॥

इदं यशस्यम् आयुष्यं सुखदं कीर्तिवर्धनम् । बलपुष्टिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम्

॥२९॥

त्रिसन्ध्यं यः पठेद् विद्वाञ् श्रद्धया सुसमाहितः । इदं वरिष्ठम् आख्यानं स सर्वम् ईप्सितं लभेत्

॥३०॥

रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् । भयाद् विमुच्यते भीत आपदापन्न आपदः

॥३१॥

जातिस्मरत्वं विद्यां च पुत्रान् मेधां पशून् धृतिम् । धर्मं चार्थं च कामं च मोक्षं तु लभते नरः

॥३२॥

यान् यान् कामान् अभिप्रेत्य पठेत् प्रयतमानसः । तांस् तान् सर्वान् अवाप्नोति पुरुषो नात्र संशयः

॥३३॥

यश् चेदं सततं शृणोति मनुजः स्वर्गापवर्गप्रदं । विष्णुं लोकगुरुं प्रणम्य वरदं भक्त्येकचित्तः शुचिः । भुक्त्वा चात्र सुखं विमुक्तकलुषः स्वर्गे च दिव्यं सुखं । पश्चाद् याति हरेः पदं सुविमलं मुक्तो गुणैः प्राकृतैः

॥३४॥

तस्माद् विप्रवरैः स्वधर्मनिरतैर् मुक्त्येकमार्गेप्सुभिस् । तद्वत् क्षत्रियपुङ्गवैस् तु नियतैः श्रेयोर्थिभिः सर्वदा । वैश्यैश् चानुदिनं विशुद्धकुलजैः शूद्रैस् तथा धार्मिकैः । श्रोतव्यं त्व् इदम् उत्तमं बहुफलं धर्मार्थमोक्षप्रदम्

॥३५॥

धर्मे मतिर् भवतु वः पुरुषोत्तमानां । स ह्य् एक एव परलोकगतस्य बन्धुः । अर्थाः स्त्रियश् च निपुणैर् अपि सेव्यमाना । नैव प्रभावम् उपयान्ति न च स्थिरत्वम्

॥३६॥

धर्मेण राज्यं लभते मनुष्यः । स्वर्गं च धर्मेण नरः प्रयाति । आयुश् च कीर्तिं च तपश् च धर्मं । धर्मेण मोक्षं लभते मनुष्यः

॥३७॥

धर्मोऽत्र मातापितरौ नरस्य । धर्मः सखा चात्र परे च लोके । त्राता च धर्मस् त्व् इह मोक्षदश् च । धर्माद् ऋते नास्ति तु किञ्चिद् एव

॥३८॥

इदं रहस्यं श्रेष्ठं च पुराणं वेदसम्मितम् । न देयं दुष्टमतये नास्तिकाय विशेषतः

॥३९॥

इदं मयोक्तं प्रवरं पुराणं । पापापहं धर्मविवर्धनं च । श्रुतं भवद्भिः परमं रहस्यम् । आज्ञापयध्वं मुनयो व्रजामि

॥४०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).