मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २०९

3
ब्रह्मपुराणम् · 209

अध्यायः २०९

व्यास उवाच:

शृणुध्वं मुनयः सर्वे बलस्य बलशालिनः । कृतं यद् अन्यद् एवाभूत् तद् अपि श्रूयतां द्विजाः

॥१॥

नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः । सखाभवन् महावीर्यो द्विविदो नाम वानरः

॥२॥

वैरानुबन्धं बलवान् स चकार सुरान् प्रति

॥३॥

द्विविद उवाच:

नरकं हतवान् कृष्णो बलदर्पसमन्वितम् । करिष्ये सर्वदेवानां तस्माद् एष प्रतिक्रियाम्

॥४॥

व्यास उवाच:

यज्ञविध्वंसनं कुर्वन् मर्त्यलोकक्षयं तथा । ततो विध्वंसयाम् आस यज्ञान् अज्ञानमोहितः

॥५॥

बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् । ददाह चपलो देशं पुरग्रामान्तराणि च

॥६॥

क्वचिच् च पर्वतक्षेपाद् ग्रामादीन् समचूर्णयत् । शैलान् उत्पाट्य तोयेषु मुमोचाम्बुनिधौ तथा

॥७॥

पुनश् चार्णवमध्यस्थः क्षोभयाम् आस सागरम् । तेनातिक्षोभितश् चाब्धिर् उद्वेलो जायते द्विजाः

॥८॥

प्लावयंस् तीरजान् ग्रामान् पुरादीन् अतिवेगवान् । कामरूपं महारूपं कृत्वा सस्यान्य् अनेकशः

॥९॥

लुठन् भ्रमणसम्मर्दैः सञ्चूर्णयति वानरः । तेन विप्रकृतं सर्वं जगद् एतद् दुरात्मना

॥१०॥

निःस्वाध्यायवषट्कारं द्विजाश् चासीत् सुदुःखितम् । कदाचिद् रैवतोद्याने पपौ पानं हलायुधः

॥११॥

रेवती च महाभागा तथैवान्या वरस्त्रियः । उद्गीयमानो विलसल्ललनामौलिमध्यगः

॥१२॥

रेमे यदुवरश्रेष्ठः कुबेर इव मन्दरे । ततः स वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम्

॥१३॥

मुशलं च चकारास्य सम्मुखः स विडम्बनाम् । तथैव योषितां तासां जहासाभिमुखं कपिः

॥१४॥

पानपूर्णांश् च करकांश् चिक्षेपाहत्य वै तदा । ततः कोपपरीतात्मा भर्त्सयाम् आस तं बलम्

॥१५॥

तथापि तम् अवज्ञाय चक्रे किलकिलाध्वनिम् । ततः समुत्थाय बलो जगृहे मुशलं रुषा

॥१६॥

सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः । चिक्षेप च स तां क्षिप्तां मुशलेन सहस्रधा

॥१७॥

बिभेद यादवश्रेष्ठः सा पपात महीतले । अपतन् मुशलं चासौ समुल्लङ्घ्य प्लवङ्गमः

॥१८॥

वेगेनायम्य रोषेण बलेनोरस्य् अताडयत् । ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः

॥१९॥

पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः । पतता तच्छरीरेण गिरेः शृङ्गम् अशीर्यत

॥२०॥

मुनयः शतधा वज्रिवज्रेणेव हि ताडितम् । पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः

॥२१॥

प्रशशंसुस् तदाभ्येत्य साध्व् एतत् ते महत् कृतम् । अनेन दुष्टकपिना दैत्यपक्षोपकारिणा । जगन् निराकृतं वीर दिष्ट्या स क्षयम् आगतः

॥२२॥

व्यास उवाच:

एवंविधान्य् अनेकानि बलदेवस्य धीमतः । कर्माण्य् अपरिमेयानि शेषस्य धरणीभृतः

॥२३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).