मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १४८

3
ब्रह्मपुराणम् · 148

अध्यायः १४८

ब्रह्मोवाच:

कोटितीर्थम् इति ख्यातं गङ्गाया दक्षिणे तटे । यस्यानुस्मरणाद् एव सर्वपापैः प्रमुच्यते

॥१॥

यत्र कोटीश्वरो देवः सर्वं कोटिगुणं भवेत् । कोटिद्वयं तत्र पूर्णं तीर्थानां शुभदायिनाम्

॥२॥

तत्र व्युष्टिं प्रवक्ष्यामि शृणु नारद तन्मनाः । कण्वस्य तु सुतो ज्येष्ठो बाह्लीक इति विश्रुतः

॥३॥

काण्वश् चेति जनैः ख्यातो वेदवेदाङ्गपारगः । इष्टीः पार्वायणानीर् याः सभार्यो वेदपारगः

॥४॥

कुर्वन्न् आस्ते स गौतम्यास् तीरस्थो लोकपूजितः । प्रातःकाले सभार्योऽसौ जुह्वद् अग्नौ समाहितः

॥५॥

सर्वदास्ते कदाचित् तु हवनाय समुद्यतः । एकाहुतिं स हुत्वा तु समिद्धे हव्यवाहने

॥६॥

आहुत्यन्तरदानाय हविर् द्रव्यं करेऽग्रहीत् । एतस्मिन्न् अन्तरे वह्निर् उपशान्तोऽभवत् तदा

॥७॥

ततश् चिन्तापरः काण्वः कर्तव्यं किं भवेद् इति । अन्तर् विचारयाम् आस विषादं परमं गतः

॥८॥

आहुत्योश् च द्वयोर् मध्य उपशान्तो हुताशनः । अग्न्यन्तरम् उपादेयं वैदिकं लौकिकं तथा

॥९॥

क्व होष्यं स्याद् द्वितीयं तु आहुत्यन्तरम् एव च । एवं मीमांसमाने तु दैवी वाग् अब्रवीत् तदा

॥१०॥

अग्न्यन्तरं नैव तेऽत्र उपादेयं भविष्यति । यानि तत्र भविष्यन्ति शकलानि समीपतः

॥११॥

अर्धदग्धेषु काष्ठेषु विप्रराज प्रहूयताम् । नेत्य् उवाच तदा काण्वः सैव वाग् अब्रवीत् पुनः

॥१२॥

अग्नेः पुत्रो हिरण्यस् तु पिता पुत्रः स एव तु । पुत्रे दत्तं प्रियायैव पितुः प्रीत्यै भविष्यति

॥१३॥

पित्रे देयं सुते दद्यात् कोटिप्रीतिगुणं भवेत् । दैवी वाग् अब्रवीद् एवं ततः सर्वे महर्षयः

॥१४॥

निश्चित्य धर्मसर्वस्वं तथा चक्रुर् यथोदितम् । एतज् ज्ञात्वा जगत्य् अत्र पुत्रे दत्तं पितुर् भवेत्

॥१५॥

अपत्याद्युपकारेण पित्रोः प्रीतिर् यथा भवेत् । तथा नान्येन केनापि जगत्य् एतद् धि विश्रुतम्

॥१६॥

सुप्रसिद्धं जगत्य् एतत् सर्वलोकेषु पूजितम् । तस्मिन् दत्ते भवेत् पुण्यं सर्वं कोटिगुणं सुत

॥१७॥

मनोग्लानिनिवृत्तिश् च जायते च महत् सुखम् । पुनर् अप्य् आह सा वाणी काण्वेऽस्मिंस् तीर्थ उत्तमे

॥१८॥

अभवत् तन् महत् तीर्थं काण्व पुण्यप्रभावतः । लोकत्रयाश्रयाशेषतीर्थेभ्योऽपि महाफलम्

॥१९॥

स्नानदानादिकं किञ्चिद् भक्त्या कुर्वन् समाहितः । फलं प्राप्स्यस्य् अशेषेण सर्वं कोटिगुणं मुने

॥२०॥

यत् किञ्चित् क्रियते चात्र स्नानदानादिकं नरैः । सर्वं कोटिगुणं विद्यात् कोटितीर्थं ततो विदुः

॥२१॥

यत्रैतद् वृत्तम् आग्नेयं काण्वं पौत्रं हिरण्यकम् । वाणीसञ्ज्ञं कोटितीर्थं कोटितीर्थफलं यतः

॥२२॥

कोटितीर्थस्य माहात्म्यम् अत्र वक्तुं न शक्यते । वाचस्पतिप्रभृतिभिर् अथवान्यैः सुरैर् अपि

॥२३॥

यत्रानुष्ठीयमानं हि सर्वं कर्म यथा तथा । गोदावर्याः प्रसादेन सर्वं कोटिगुणं भवेत्

॥२४॥

कोटितीर्थे द्विजाग्र्याय गाम् एकां यः प्रयच्छति । तस्य तीर्थस्य माहात्म्याद् गोकोटिफलम् अश्नुते

॥२५॥

तस्मिंस् तीर्थे शुचिर् भूत्वा भूमिदानं करोति यः । श्रद्धायुक्तेन मनसा स्यात् तत्कोटिगुणोत्तरम्

॥२६॥

सर्वत्र गौतमीतीरे पितॄणां दानम् उत्तमम् । विशेषतः कोटितीर्थे तद् अनन्तफलप्रदम् । अत्रैकन्यूनपञ्चाशत् तीर्थानि मुनयो विदुः

॥२७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).