मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ५२

3
ब्रह्मपुराणम् · 52

अध्यायः ५२

ब्रह्मोवाच:

आसीत् कल्पे मुनिश्रेष्ठाः सम्प्रवृत्ते महाक्षये । नष्टेऽर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे

॥१॥

उदिते प्रलयादित्ये प्रचण्डे घनगर्जिते । विद्युदुत्पातसङ्घातैः सम्भग्ने तरुपर्वते

॥२॥

लोके च संहृते सर्वे महदुल्कानिबर्हणे । शुष्केषु सर्वतोयेषु सरःसु च सरित्सु च

॥३॥

ततः संवर्तको वह्निर् वायुना सह भो द्विजाः । लोकं तु प्राविशत् सर्वम् आदित्यैर् उपशोभितम्

॥४॥

पश्चात् स पृथिवीं भित्त्वा प्रविश्य च रसातलम् । देवदानवयक्षाणां भयं जनयते महत्

॥५॥

निर्दहन् नागलोकं च यच् च किञ्चित् क्षिताव् इह । अधस्तान् मुनिशार्दूलाः सर्वं नाशयते क्षणात्

॥६॥

ततो योजनविंशानां सहस्राणि शतानि च । निर्दहत्य् आशुगो वायुः स च संवर्तकोऽनलः

॥७॥

सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् । ततो दहति सन्दीप्तः सर्वम् एव जगत् प्रभुः

॥८॥

प्रदीप्तोऽसौ महारौद्रः कल्पाग्निर् इति संश्रुतः । महाज्वालो महार्चिष्मान् सम्प्रदीप्तमहास्वनः

॥९॥

सूर्यकोटिप्रतीकाशो ज्वलन्न् इव स तेजसा । त्रैलोक्यं चादहत् तूर्णं ससुरासुरमानुषम्

॥१०॥

एवंविधे महाघोरे महाप्रलयदारुणे । ऋषिः परमधर्मात्मा ध्यानयोगपरोऽभवत्

॥११॥

एकः सन्तिष्ठते विप्रा मार्कण्डेयेति विश्रुतः । मोहपाशैर् निबद्धोऽसौ क्षुत्तृष्णाकुलितेन्द्रियाः

॥१२॥

स दृष्ट्वा तं महावह्निं शुष्ककण्ठौष्ठतालुकः । तृष्णार्तः प्रस्खलन् विप्रास् तदासौ भयविह्वलः

॥१३॥

बभ्राम पृथिवीं सर्वां कान्दिशीको विचेतनः । त्रातारं नाधिगच्छन् वै इतश् चेतश् च धावति

॥१४॥

न लेभे च तदा शर्म यत्र विश्राम्यता द्विजाः । करोमि किं न जानामि यस्याहं शरणं व्रजे

॥१५॥

कथं पश्यामि तं देवं पुरुषेशं सनातनम् । इति सञ्चिन्तयन् देवम् एकाग्रेण सनातनम्

॥१६॥

प्राप्तवांस् तत् पदं दिव्यं महाप्रलयकारणम् । पुरुषेशम् इति ख्यातं वटराजं सनातनम्

॥१७॥

त्वरायुक्तो मुनिश् चासौ न्यग्रोधस्यान्तिकं ययौ । आसाद्य तं मुनिश्रेष्ठास् तस्य मूले समाविशत्

॥१८॥

न कालाग्निभयं तत्र न चाङ्गारप्रवर्षणम् । न संवर्तागमस् तत्र न च वज्राशनिस् तथा

॥१९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).