अध्यायः १५६
ब्रह्मोवाच:
शङ्खह्रदं नाम तीर्थं यत्र शङ्खगदाधरः । तत्र स्नात्वा च तं दृष्ट्वा मुच्यते भवबन्धनात्
॥१॥तत्रेदं वृत्तम् आख्यास्ये भुक्तिमुक्तिप्रदायकम् । पुरा कृतयुगस्यादौ ब्रह्मणः सामगायिनः
॥२॥ब्रह्माण्डागारसम्भूता राक्षसा बहुरूपिणः । ब्रह्माणं खादितुं प्राप्ता बलोन्मत्ता धृतायुधाः
॥३॥तदाहम् अब्रवं विष्णुं रक्षणाय जगद्गुरुम् । स विष्णुस् तानि रक्षांसि हन्तुं चक्रेण चोद्यतः
॥४॥छित्त्वा चक्रेण रक्षांसि शङ्खम् आपूरयत् तदा । निष्कण्टकं तलं कृत्वा स्वर्गं निर्वैरम् एव च
॥५॥ततो हर्षप्रकर्षेण शङ्खम् आपूरयद् धरिः । ततो रक्षांसि सर्वाणि ह्य् अनीनशुर् अशेषतः
॥६॥यत्रैतद् वृत्तम् अखिलं विष्णुशङ्खप्रभावतः । शङ्खतीर्थं तु तत् प्रोक्तं सर्वक्षेमकरं नृणाम्
॥७॥सर्वाभीष्टप्रदं पुण्यं स्मरणान् मङ्गलप्रदम् । आयुरारोग्यजननं लक्ष्मीपुत्रप्रवर्धनम्
॥८॥स्मरणात् पठनाद् वापि सर्वकामान् अवाप्नुयात् । तीर्थानाम् अयुतं तत्र सर्वपापनुदं मुने
॥९॥तीर्थान्य् अयुतसङ्ख्यानि सर्वपापहराणि च । येषां प्रभावं जानाति वक्तुं देवो महेश्वरः
॥१०॥पापक्षयप्रतिनिधिर् नैतेभ्योऽस्त्य् अपरः क्वचित्
॥११॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).