मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १७०

3
ब्रह्मपुराणम् · 170

अध्यायः १७०

ब्रह्मोवाच:

चक्षुस्तीर्थम् इति ख्यातं रूपसौभाग्यदायकम् । यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे

॥१॥

पुरं भौवनम् आख्यातं गिरिमूर्ध्न्य् अभिधीयते । यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः

॥२॥

तस्मिन् पुरवरे कश्चिद् ब्राह्मणो वृद्धकौशिकः । तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः

॥३॥

तस्य मातुर् मनोदोषाद् विपरीतोऽभवद् द्विजः । सखा तस्य वणिक् कश्चिन् मणिकुण्डल उच्यते

॥४॥

तेन सख्यं द्विजस्यासीद् विषमं द्विजवैश्ययोः । श्रीमद्दरिद्रयोर् नित्यं परस्परहितैषिणोः

॥५॥

कदाचिद् गौतमो वैश्यं वित्तेशं मणिकुण्डलम् । प्राहेदं वचनं प्रीत्या रहः स्थित्वा पुनः पुनः

॥६॥

गौतम उवाच:

गच्छामो धनम् आदातुं पर्वतान् उदधीन् अपि । यौवनं तद् वृथा ज्ञेयं विना सौख्यानुकूल्यतः । धनं विना तत् कथं स्याद् अहो धिङ् निर्धनं नरम्

॥७॥

ब्रह्मोवाच:

कुण्डलो द्विजम् आहेदं मत्पित्रोपार्जितं धनम् । बह्व् अस्ति किं धनेनाद्य करिष्ये द्विजसत्तम । द्विजः पुनर् उवाचेदं मणिकुण्डलम् ओजसा

॥८॥

गौतम उवाच:

धर्मार्थज्ञानकामानां को नु तृप्तः प्रशस्यते । उत्कर्षप्राप्तिर् एवैषां सखे श्लाघ्या शरीरिणाम्

॥९॥

स्वेनैव व्यवसायेन धन्या जीवन्ति जन्तवः । परदत्तार्थसन्तुष्टाः कष्टजीविन एव ते

॥१०॥

स पुत्रः शस्यते लोके पितृभिश् चाभिनन्द्यते । यः पैत्र्यम् अभिलिप्सेत न वाचापि तु कुण्डल

॥११॥

स्वबाहुबलम् आश्रित्य योऽर्थान् अर्जयते सुतः । स कृतार्थो भवेल् लोके पैत्र्यं वित्तं न तु स्पृशेत्

॥१२॥

स्वयम् आर्ज्य सुतो वित्तं पित्रे दास्यति बन्धवे । तं तु पुत्रं विजानीयाद् इतरो योनिकीटकः

॥१३॥

ब्रह्मोवाच:

एतच् छ्रुत्वा तु तद् वाक्यं ब्राह्मणस्याभिलाषिणः । तथेति मत्वा तद्वाक्यं रत्नान्य् आदाय सत्वरः

॥१४॥

आत्मकीयानि वित्तानि गौतमाय न्यवेदयत् । धनेनैतेन देशांश् च परिभ्रम्य यथासुखम्

॥१५॥

धनान्य् आदाय वित्तानि पुनर् एष्यामहे गृहम् । सत्यम् एव वणिग् वक्ति स तु विप्रः प्रतारकः

॥१६॥

पापात्मा पापचित्तं च न बुबोध वणिग् द्विजम् । तौ परस्परम् आमन्त्र्य मातापित्रोर् अजानतोः

॥१७॥

देशाद् देशान्तरं यातौ धनार्थं तौ वणिग्द्विजौ । वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुम् इच्छति

॥१८॥

ब्राह्मण उवाच:

येन केनाप्य् उपायेन तद् धनं हि समाहरे । अहो पृथिव्यां रम्याणि नगराणि सहस्रशः

॥१९॥

इष्टप्रदात्र्यः कामस्य देवता इव योषितः । मनोहरास् तत्र तत्र सन्ति किं क्रियते मया

॥२०॥

धनम् आहृत्य यत्नेन योषिद्भ्यो यदि दीयते । भुज्यन्ते तास् ततो नित्यं सफलं जीवितं हि तत्

॥२१॥

नृत्यगीतरतो नित्यं पण्यस्त्रीभिर् अलङ्कृतः । भोक्ष्ये कथं तु तद् वित्तं वैश्यान् मद्धस्तम् आगतम्

॥२२॥

ब्रह्मोवाच:

एवं चिन्तयमानोऽसौ गौतमः प्रहसन्न् इव । मणिकुण्डलम् आहेदम् अधर्माद् एव जन्तवः

॥२३॥

वृद्धिं सुखम् अभीष्टानि प्राप्नुवन्ति न संशयः । धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखभागिनः

॥२४॥

तस्माद् धर्मेण किं तेन दुःखैकफलहेतुना

॥२५॥

ब्रह्मोवाच:

नेत्य् उवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम् । पापे दुःखं भयं शोको दारिद्र्यं क्लेश एव च । यतो धर्मस् ततो मुक्तिः स्वधर्मः किं विनश्यति

॥२६॥

ब्रह्मोवाच:

एवं विवदतोस् तत्र सम्परायस् तयोर् अभूत् । यस्य पक्षो भवेज् ज्यायान् स परार्थम् अवाप्नुयात्

॥२७॥

पृच्छावः कस्य प्राबल्यं धर्मिणो वाप्य् अधर्मिणः । वेदात् तु लौकिकं ज्येष्ठं लोके धर्मात् सुखं भवेत्

॥२८॥

एवं विवदमानौ ताव् ऊचतुः सकलाञ् जनान् । धर्मस्य वाप्य् अधर्मस्य प्राबल्यम् अनयोर् भुवि

॥२९॥

तद् वदन्तु यथावृत्तम् एवम् ऊचतुर् ओजसा । एवं तत्रोचिरे केचिद् ये धर्मेणानुवर्तिनः

॥३०॥

तैर् दुःखम् अनुभूयते पापिष्ठाः सुखिनो जनाः । सम्पराये धनं सर्वं जितं विप्रे न्यवेदयत्

॥३१॥

मणिमान् धर्मविच्छ्रेष्ठः पुनर् धर्मं प्रशंसति । मणिमन्तं द्विजः प्राह किं धर्मम् अनुशंससि ।

॥३२॥

ब्रह्मोवाच:

तथेति चेत्य् आह वैश्यो ब्राह्मणः पुनर् अब्रवीत्

॥३२॥

ब्राह्मण उवाच:

जितं मया धनं वैश्य निर्लज्जः किं नु भाषसे । मयैव विजितो धर्मो यथेष्टचरणात्मना

॥३३॥

ब्रह्मोवाच:

तद् ब्राह्मणवचः श्रुत्वा वैश्यः सस्मित ऊचिवान्

॥३४॥

वैश्य उवाच:

पुलाका इव धान्येषु पुत्तिका इव पक्षिषु । तथैव तान् सखे मन्ये येषां धर्मो न विद्यते

॥३५॥

चतुर्णां पुरुषार्थानां धर्मः प्रथम उच्यते । पश्चाद् अर्थश् च कामश् च स धर्मो मयि तिष्ठति । कथं ब्रूषे द्विजश्रेष्ठ मया विजितम् इत्य् अदः

॥३६॥

ब्रह्मोवाच:

द्विजो वैश्यं पुनः प्राह हस्ताभ्यां जायतां पणः । तथेति मन्यते वैश्यस् तौ गत्वा पुनर् ऊचतुः

॥३७॥

पूर्ववल् लौकिकान् गत्वा जितम् इत्य् अब्रवीद् द्विजः । करौ छित्त्वा ततः प्राह कथं धर्मं तु मन्यसे । आक्षिप्तो ब्राह्मणेनैवं वैश्यो वचनम् अब्रवीत्

॥३८॥

वैश्य उवाच:

धर्मम् एव परं मन्ये प्राणैः कण्ठगतैर् अपि । माता पिता सुहृद् बन्धुर् धर्म एव शरीरिणाम्

॥३९॥

ब्रह्मोवाच:

एवं विवदमानौ ताव् अर्थवान् ब्राह्मणोऽभवत् । विमुक्तो वैश्यकस् तत्र बाहुभ्यां च धनेन च

॥४०॥

एवं भ्रमन्तौ सम्प्राप्तौ गङ्गां योगेश्वरं हरिम् । यदृच्छया मुनिश्रेष्ठ मिथस् ताव् ऊचतुः पुनः

॥४१॥

वैश्यो गङ्गां तु योगेशं धर्मम् एव प्रशंसति । अतिकोपाद् द्विजो वैश्यम् आक्षिपन् पुनर् अब्रवीत्

॥४२॥

ब्राह्मण उवाच:

गतं धनं करौ छिन्नाव् अवशिष्टोऽसुभिर् भवान् । त्वम् अन्यथा यदि ब्रूष आहरिष्येऽसिना शिरः

॥४३॥

ब्रह्मोवाच:

विहस्य पुनर् आहेदं वैश्यो गौतमम् अञ्जसा

॥४४॥

वैश्य उवाच:

धर्मम् एव परं मन्ये यथेच्छसि तथा कुरु । ब्राह्मणांश् च गुरून् देवान् वेदान् धर्मं जनार्दनम्

॥४५॥

यस् तु निन्दयते पापो नासौ स्पृश्योऽथ पापकृत् । उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः

॥४६॥

ब्रह्मोवाच:

ततः प्राह स कोपेन धर्मं यद्य् अनुशंससि । आवयोः प्राणयोर् अत्र पणः स्याद् इति वै मुने

॥४७॥

एवम् उक्ते गौतमेन तथेत्य् आह वणिक् तदा । पुनर् अप्य् ऊचतुर् उभौ लोकांल् लोकास् तथोचिरे

॥४८॥

योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे । तं निपात्य विशं विप्रश् चक्षुर् उत्पाट्य चाब्रवीत्

॥४९॥

विप्र उवाच:

गतोऽसीमां दशां वैश्य नित्यं धर्मप्रशंसया । गतं धनं गतं चक्षुश् छेदितौ करपल्लवौ । पृष्टोऽसि मित्र गच्छामि मैवं ब्रूयाः कथान्तरे

॥५०॥

ब्रह्मोवाच:

तस्मिन् प्रयाते वैश्योऽसौ चिन्तयाम् आस चेतसि । हा कष्टं मे किम् अभवद् धर्मैकमनसो हरे

॥५१॥

स कुण्डलो वणिक्श्रेष्ठो निर्धनो गतबाहुकः । गतनेत्रः शुचं प्राप्तो धर्मम् एवानुसंस्मरन्

॥५२॥

एवं बहुविधां चिन्तां कुर्वन्न् आस्ते महीतले । निश्चेष्टोऽथ निरुत्साहः पतितः शोकसागरे

॥५३॥

दिनावसाने शर्वर्याम् उदिते चन्द्रमण्डले । एकादश्यां शुक्लपक्षे तत्रायाति विभीषणः

॥५४॥

स तु योगेश्वरं देवं पूजयित्वा यथाविधि । स्नात्वा तु गौतमीं गङ्गां सपुत्रो राक्षसैर् वृतः

॥५५॥

विभीषणस्य हि सुतो विभीषण इवापरः । वैभीषणिर् इति ख्यातस् तम् अपश्यद् उवाच ह

॥५६॥

वैश्यस्य वचनं श्रुत्वा यथावृत्तं स धर्मवित् । पित्रे निवेदयाम् आस लङ्केशाय महात्मने । स तु लङ्केश्वरः प्राह पुत्रं प्रीत्या गुणाकरम्

॥५७॥

विभीषण उवाच:

श्रीमान् रामो मम गुरुस् तस्य मान्यः सखा मम । हनुमान् इति विख्यातस् तेनानीतो गिरिर् महान्

॥५८॥

पुरा कार्यान्तरे प्राप्ते सर्वौषध्याश्रयोऽचलः । जाते कार्ये तम् आदाय हिमवन्तम् अथागमत्

॥५९॥

विशल्यकरणी चेति मृतसञ्जीवनीति च । तदानीय महाबुद्धी रामायाक्लिष्टकर्मणे

॥६०॥

निवेदयित्वा तत् साध्यं तस्मिन् वृत्ते समागतः । पुनर् गिरिं समादाय आगच्छद् देवपर्वतम्

॥६१॥

ताम् आनीयास्य हृदये निवेशय हरिं स्मरन् । ततः प्राप्स्यत्य् अयं सर्वम् अपेक्षितम् उदारधीः

॥६२॥

गच्छतस् तस्य वेगेन विशल्यकरणी पुनः । अपतद् गौतमीतीरे यत्र योगेश्वरो हरिः

॥६३॥

वैभीषणिर् उवाच:

ताम् ओषधीं मम पितर् दर्शयाशु विलम्ब मा । परार्तिशमनाद् अन्यच् छ्रेयो न भुवनत्रये

॥६४॥

ब्रह्मोवाच:

विभीषणस् तथेत्य् उक्त्वा तां पुत्रस्याप्य् अदर्शयत् । इषे त्वेत्य् अस्य वृक्षस्य शाखां चिच्छेद तत्सुतः । वैश्यस्य चापि वै प्रीत्या सन्तः परहिते रताः

॥६५॥

विभीषण उवाच:

यत्रापतन् नगे चास्मिन् स वृक्षस् तु प्रतापवान् । तस्य शाखां समादाय हृदयेऽस्य निवेशय । तत्स्पृष्टमात्र एवासौ स्वकं रूपम् अवाप्नुयात्

॥६६॥

ब्रह्मोवाच:

एतच् छ्रुत्वा पितुर् वाक्यं वैभीषणिर् उदारधीः । तथा चकार वै सम्यक् काष्ठखण्डं न्यवेशयत्

॥६७॥

हृदये स तु वैश्योऽपि सचक्षुः सकरोऽभवत् । मणिमन्त्रौषधीनां हि वीर्यं कोऽपि न बुध्यते

॥६८॥

तद् एव काष्ठम् आदाय धर्मम् एवानुसंस्मरन् । स्नात्वा तु गौतमीं गङ्गां तथा योगेश्वरं हरिम्

॥६९॥

नमस्कृत्वा पुनर् अगात् काष्ठखण्डेन वैश्यकः । परिभ्रमन् नृपपुरं महापुरम् इति श्रुतम्

॥७०॥

महाराज इति ख्यातस् तत्र राजा महाबलः । तस्य नास्ति सुतः कश्चित् पुत्रिका नष्टलोचना

॥७१॥

सैव तस्य सुता पुत्रस् तस्यापि व्रतम् ईदृशम् । देवो वा दानवो वापि ब्राह्मणः क्षत्रियो भवेत्

॥७२॥

वैश्यो वा शूद्रयोनिर् वा सगुणो निर्गुणोऽपि वा । तस्मै देया इयं पुत्री यो नेत्रे आहरिष्यति

॥७३॥

राज्येन सह देयेयम् इति राजा ह्य् अघोषयत् । अहर्निशम् असौ वैश्यः श्रुत्वा घोषम् अथाब्रवीत्

॥७४॥

वैश्य उवाच:

अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम्

॥७५॥

ब्रह्मोवाच:

तं वैश्यं तरसादाय महाराज्ञे न्यवेदयत् । तत्काष्ठस्पर्शमात्रेण सनेत्राभून् नृपात्मजा

॥७६॥

ततः सविस्मयो राजा को भवान् इति चाब्रवीत् । वैश्यो राज्ञे यथावृत्तं न्यवेदयद् अशेषतः

॥७७॥

वैश्य उवाच:

ब्राह्मणानां प्रसादेन धर्मस्य तपसस् तथा । दानप्रभावाद् यज्ञैश् च विविधैर् भूरिदक्षिणैः । दिव्यौषधिप्रभावेन मम सामर्थ्यम् ईदृशम्

॥७८॥

ब्रह्मोवाच:

एतद् वैश्यवचः श्रुत्वा विस्मितोऽभून् महीपतिः

॥७९॥

राजोवाच:

अहो महानुभावोऽयं प्रायो वृन्दारको भवेत् । अन्यथैतादृग् अन्यस्य सामर्थ्यं दृश्यते कथम् । तस्माद् अस्मै तु तां कन्यां प्रदास्ये राज्यपूर्विकाम्

॥८०॥

ब्रह्मोवाच:

इति सङ्कल्प्य मनसि कन्यां राज्यं च दत्तवान् । विहारार्थं गतः स्वैरं परं खेदम् उपागतः

॥८१॥

न मित्रेण विना राज्यं न मित्रेण विना सुखम् । तम् एव सततं विप्रं चिन्तयन् वैश्यनन्दनः

॥८२॥

एतद् एव सुजातानां लक्षणं भुवि देहिनाम् । कृपार्द्रं यन् मनो नित्यं तेषाम् अप्य् अहितेषु हि

॥८३॥

महानृपो वनं प्रायात् स राजा मणिकुण्डलः । तस्मिञ् शासति राज्यं तु कदाचिद् गौतमं द्विजम्

॥८४॥

हृतस्वं द्यूतकैः पापैर् अपश्यन् मणिकुण्डलः । तम् आदाय द्विजं मित्रं पूजयाम् आस धर्मवित्

॥८५॥

धर्माणां तु प्रभावं तं तस्मै सर्वं न्यवेदयत् । स्नापयाम् आस गङ्गायां तं सर्वाघनिवृत्तये

॥८६॥

तेन विप्रेण सर्वैस् तैः स्वकीयैर् गोत्रजैर् वृतः । वैश्यैः स्वदेशसम्भूतैर् ब्राह्मणस्य तु बान्धवैः

॥८७॥

वृद्धकौशिकमुख्यैश् च तस्मिन् योगेश्वरान्तिके । यज्ञान् इष्ट्वा सुरान् पूज्य ततः स्वर्गम् उपेयिवान्

॥८८॥

ततः प्रभृति तत् तीर्थं मृतसञ्जीवनं विदुः । चक्षुस्तीर्थं सयोगेशं स्मरणाद् अपि पुण्यदम् । मनःप्रसादजननं सर्वदुर्भावनाशनम्

॥८९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).