मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २०३

3
ब्रह्मपुराणम् · 203

अध्यायः २०३

व्यास उवाच:

गरुडो वारुणं छत्त्रं तथैव मणिपर्वतम् । सभार्यं च हृषीकेशं लीलयैव वहन् ययौ

॥१॥

ततः शङ्खम् उपाध्माय स्वर्गद्वारं गतो हरिः । उपतस्थुस् ततो देवाः सार्घपात्रा जनार्दनम्

॥२॥

स देवैर् अर्चितः कृष्णो देवमातुर् निवेशनम् । सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम्

॥३॥

स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे । ददौ नरकनाशं च शशंसास्यै जनार्दनः

॥४॥

ततः प्रीता जगन्माता धातारं जगतां हरिम् । तुष्टावादितिर् अव्यग्रं कृत्वा तत्प्रवणं मनः

॥५॥

अदितिर् उवाच:

नमस् ते पुण्डरीकाक्ष भक्तानाम् अभयङ्कर । सनातनात्मन् भूतात्मन् सर्वात्मन् भूतभावन

॥६॥

प्रणेतर् मनसो बुद्धेर् इन्द्रियाणां गुणात्मक । सितदीर्घादिनिःशेषकल्पनापरिवर्जित

॥७॥

जन्मादिभिर् असंस्पृष्टस्वप्नादिवारिवर्जितः । सन्ध्या रात्रिर् अहर् भूमिर् गगनं वायुर् अम्बु च

॥८॥

हुताशनो मनो बुद्धिर् भूतादिस् त्वं तथाच्युत । सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर् भवान्

॥९॥

ब्रह्मविष्णुशिवाख्याभिर् आत्ममूर्तिभिर् ईश्वरः । मायाभिर् एतद् व्याप्तं ते जगत् स्थावरजङ्गमम्

॥१०॥

अनात्मन्य् आत्मविज्ञानं सा ते माया जनार्दन । अहं ममेति भावोऽत्र यया समुपजायते

॥११॥

संसारमध्ये मायायास् तवैतन् नाथ चेष्टितम् । यैः स्वधर्मपरैर् नाथ नरैर् आराधितो भवान्

॥१२॥

ते तरन्त्य् अखिलाम् एतां मायाम् आत्मविमुक्तये । ब्रह्माद्याः सकला देवा मनुष्याः पशवस् तथा

॥१३॥

विष्णुमायामहावर्ते मोहान्धतमसावृताः । आराध्य त्वाम् अभीप्सन्ते कामान् आत्मभवक्षये

॥१४॥

पदे ते पुरुषा बद्धा मायया भगवंस् तव । मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च

॥१५॥

आराधितो न मोक्षाय मायाविलसितं हि तत् । कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमाद् अपि

॥१६॥

जायते यद् अपुण्यानां सोऽपराधः स्वदोषजः । तत् प्रसीदाखिलजगन्मायामोहकराव्यय

॥१७॥

अज्ञानं ज्ञानसद्भाव भूतभूतेश नाशय । नमस् ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः

॥१८॥

गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः । एतत् पश्यामि ते रूपं स्थूलचिह्नोपशोभितम् । न जानामि परं यत् ते प्रसीद परमेश्वर

॥१९॥

व्यास उवाच:

अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम्

॥२०॥

श्रीकृष्ण उवाच:

माता देवि त्वम् अस्माकं प्रसीद वरदा भव

॥२१॥

अदितिर् उवाच:

एवम् अस्तु यथेच्छा ते त्वम् अशेषसुरासुरैः । अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि

॥२२॥

व्यास उवाच:

ततोऽनन्तरम् एवास्य शक्राणीसहितां दितिम् । सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः

॥२३॥

अदितिर् उवाच:

मत्प्रसादान् न ते सुभ्रु जरा वैरूप्यम् एव च । भविष्यत्य् अनवद्याङ्गि सर्वकामा भविष्यसि

॥२४॥

व्यास उवाच:

अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् । यथावत् पूजयाम् आस बहुमानपुरःसरम्

॥२५॥

ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् । देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः

॥२६॥

ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् । शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम्

॥२७॥

मथ्यमानेऽमृते जातं जातरूपसमप्रभम् । पारिजातं जगन्नाथः केशवः केशिसूदनः । तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः

॥२८॥

सत्यभामोवाच:

कस्मान् न द्वारकाम् एष नीयते कृष्ण पादपः । यदि ते तद् वचः सत्यं सत्यात्यर्थं प्रियेति मे

॥२९॥

मद्गृहे निष्कुटार्थाय तद् अयं नीयतां तरुः । न मे जाम्बवती तादृग् अभीष्टा न च रुक्मिणी

॥३०॥

सत्ये यथा त्वम् इत्य् उक्तं त्वया कृष्णासकृत् प्रियम् । सत्यं तद् यदि गोविन्द नोपचारकृतं वचः

॥३१॥

तद् अस्तु पारिजातोऽयं मम गेहविभूषणम् । बिभ्रती पारिजातस्य केशपाशेन मञ्जरीम् । सपत्नीनाम् अहं मध्ये शोभेयम् इति कामये

॥३२॥

व्यास उवाच:

इत्य् उक्तः स प्रहस्यैनं पारिजातं गरुत्मति । आरोपयाम् आस हरिस् तम् ऊचुर् वनरक्षिणः

॥३३॥

वनपाला ऊचुः:

भोः शची देवराजस्य महिषी तत्परिग्रहम् । पारिजातं न गोविन्द हर्तुम् अर्हसि पादपम्

॥३४॥

शचीविभूषणार्थाय देवैर् अमृतमन्थने । उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि

॥३५॥

मौढ्यात् प्रार्थयसे क्षेमी गृहीत्वैनं च को व्रजेत् । अवश्यम् अस्य देवेन्द्रो विकृतिं कृष्ण यास्यति

॥३६॥

वज्रोद्यतकरं शक्रम् अनुयास्यन्ति चामराः । तद् अलं सकलैर् देवैर् विग्रहेण तवाच्युत । विपाककटु यत् कर्म न तच् छंसन्ति पण्डिताः

॥३७॥

व्यास उवाच:

इत्य् उक्ते तैर् उवाचैतान् सत्यभामातिकोपिनी

॥३८॥

सत्यभामोवाच:

का शची पारिजातस्य को वा शक्रः सुराधिपः । सामान्यः सर्वलोकानां यद्य् एषोऽमृतमन्थने

॥३९॥

समुत्पन्नः पुरा कस्माद् एको गृह्णाति वासवः । यथा सुरा यथा चेन्दुर् यथा श्रीर् वनरक्षिणः

॥४०॥

सामान्यः सर्वलोकस्य पारिजातस् तथा द्रुमः । भर्तृबाहुमहागर्वाद् रुणद्ध्य् एनम् अथो शची

॥४१॥

तत् कथ्यतां द्रुतं गत्वा पौलोम्या वचनं मम । सत्यभामा वदत्य् एवं भर्तृगर्वोद्धताक्षरम्

॥४२॥

यदि त्वं दयिता भर्तुर् यदि तस्य प्रिया ह्य् असि । मद्भर्तुर् हरतो वृक्षं तत् कारय निवारणम्

॥४३॥

जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् । पारिजातं तथाप्य् एनं मानुषी हारयामि ते

॥४४॥

व्यास उवाच:

इत्य् उक्ता रक्षिणो गत्वा प्रोच्चैः प्रोचुर् यथोदितम् । शची चोत्साहयाम् आस त्रिदशाधिपतिं पतिम्

॥४५॥

ततः समस्तदेवानां सैन्यैः परिवृतो हरिम् । प्रवृक्तः पारिजातार्थम् इन्द्रो योधयितुं द्विजाः

॥४६॥

ततः परिघनिस्त्रिंशगदाशूलधरायुधाः । बभूवुस् त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते

॥४७॥

ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम् । शक्रं देवपरीवारं युद्धाय समुपस्थितम्

॥४८॥

चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् । मुमोच च शरव्रातं सहस्रायुतसम्मितम्

॥४९॥

ततो दिशो नभश् चैव दृष्ट्वा शरशताचितम् । मुमुचुस् त्रिदशाः सर्वे शस्त्राण्य् अस्त्राण्य् अनेकशः

॥५०॥

एकैकम् अस्त्रं शस्त्रं च देवैर् मुक्तं सहस्रधा । चिच्छेद लीलयैवेशो जगतां मधुसूदनः

॥५१॥

पाशं सलिलराजस्य समाकृष्योरगाशनः । चचाल खण्डशः कृत्त्वा बालपन्नगदेहवत्

॥५२॥

यमेन प्रहितं दण्डं गदाप्रक्षेपखण्डितम् । पृथिव्यां पातयाम् आस भगवान् देवकीसुतः

॥५३॥

शिबिकां च धनेशस्य चक्रेण तिलशो विभुः । चकार शौरिर् अर्केन्दू दृष्टिपातहतौजसौ

॥५४॥

नीतोऽग्निः शतशो बाणैर् द्राविता वसवो दिशः । चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिताः

॥५५॥

साध्या विश्वे च मरुतो गन्धर्वाश् चैव सायकैः । शार्ङ्गिणा प्रेरिताः सर्वे व्योम्नि शाल्मलितूलवत्

॥५६॥

गरुडश् चापि वक्त्रेण पक्षाभ्यां च नखाङ्कुरैः । भक्षयन्न् अहनद् देवान् दानवांश् च सदा खगः

॥५७॥

ततः शरसहस्रेण देवेन्द्रमधुसूदनौ । परस्परं ववर्षाते धाराभिर् इव तोयदौ

॥५८॥

ऐरावतेन गरुडो युयुधे तत्र सङ्कुले । देवैः समेतैर् युयुधे शक्रेण च जनार्दनः

॥५९॥

छिन्नेषु शीर्यमाणेषु शस्त्रेष्व् अस्त्रेषु सत्वरम् । जग्राह वासवो वज्रं कृष्णश् चक्रं सुदर्शनम्

॥६०॥

ततो हाहाकृतं सर्वं त्रैलोक्यं सचराचरम् । वज्रचक्रधरौ दृष्ट्वा देवराजजनार्दनौ

॥६१॥

क्षिप्तं वज्रम् अथेन्द्रेण जग्राह भगवान् हरिः । न मुमोच तदा चक्रं तिष्ठ तिष्ठेति चाब्रवीत्

॥६२॥

प्रनष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् । सत्यभामाब्रवीद् वाक्यं पलायनपरायणम्

॥६३॥

सत्यभामोवाच:

त्रैलोक्येश्वर नो युक्तं शचीभर्तुः पलायनम् । पारिजातस्रगाभोगात् त्वाम् उपस्थास्यते शची

॥६४॥

कीदृशं देव राज्यं ते पारिजातस्रगुज्ज्वलाम् । अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम्

॥६५॥

अलं शक्र प्रयासेन न व्रीडां यातुम् अर्हसि । नीयतां पारिजातोऽयं देवाः सन्तु गतव्यथाः

॥६६॥

पतिगर्वावलेपेन बहुमानपुरःसरम् । न ददर्श गृहायाताम् उपचारेण मां शची

॥६७॥

स्त्रीत्वाद् अगुरुचित्ताहं स्वभर्तुः श्लाघनापरा । ततः कृतवती शक्र भवता सह विग्रहम्

॥६८॥

तद् अलं पारिजातेन परस्वेन हृतेन वा । रूपेण यशसा चैव भवेत् स्त्री का न गर्विता

॥६९॥

व्यास उवाच:

इत्य् उक्ते वै निववृते देवराजस् तया द्विजाः । प्राह चैनाम् अलं चण्डि सखि खेदातिविस्तरैः

॥७०॥

न चापि सर्गसंहारस्थितिकर्ताखिलस्य यः । जितस्य तेन मे व्रीडा जायते विश्वरूपिणा

॥७१॥

यस्मिञ् जगत् सकलम् एतद् अनादिमध्ये । यस्माद् यतश् च न भविष्यति सर्वभूतात् । तेनोद्भवप्रलयपालनकारणेन । व्रीडा कथं भवति देवि निराकृतस्य

॥७२॥

सकलभुवनमूर्तिर् अल्पा सुसूक्ष्मा । विदितसकलवेदैर् ज्ञायते यस्य नान्यैः । तम् अजम् अकृतम् ईशं शाश्वतं स्वेच्छयैनं । जगदुपकृतिम् आद्यं को विजेतुं समर्थः

॥७३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).