अध्यायः ८२
ब्रह्मोवाच:
यत् ख्यातं कृत्तिकातीर्थं कार्त्तिकेयाद् अनन्तरम् । तस्य श्रवणमात्रेण सोमपानफलं लभेत्
॥१॥पुरा तारकनाशाय भवरेतोऽपिबत् कविः । रेतोगर्भं कविं दृष्ट्वा ऋषिपत्न्योऽस्पृहन् मुने
॥२॥सप्तर्षीणाम् ऋतुस्नातां वर्जयित्वा त्व् अरुन्धतीम् । तासु गर्भः समभवत् षट्सु स्त्रीषु तदाग्नितः
॥३॥तप्यमानास् तु शोभिष्ठा ऋतुस्नातास् तु ता मुने । किं कुर्मः क्व नु गच्छामः किं कृत्वा सुकृतं भवेत्
॥४॥इत्य् उक्त्वा ता मिथो गङ्गां व्यग्रा गत्वा व्यपीडयन् । ताभ्यस् ते निःसृता गर्भाः फेनरूपास् तदाम्भसि
॥५॥अम्भसा त्व् एकतां प्राप्ता वायुना सर्व एव हि । एकरूपस् तदा ताभ्यः षण्मुखः समजायत
॥६॥स्रावयित्वा तु तान् गर्भान् ऋषिपत्न्यो गृहान् ययुः । तासां विकृतरूपाणि दृष्ट्वा ते ऋषयोऽब्रुवन्
॥७॥गम्यतां गम्यतां शीघ्रं स्वैरी वृत्तिर् न युज्यते । स्त्रीणाम् इति ततो वत्स निरस्ताः पतिभिस् तु ताः
॥८॥ततो दुःखं समाविष्टास् त्यक्ताः स्वपतिभिश् च षट् । ता दृष्ट्वा नारदः प्राह कार्त्तिकेयो हरोद्भवः
॥९॥गाङ्गेयोऽग्निभवश् चेति विख्यातस् तारकान्तकः । तं यान्तु न चिराद् एव प्रीतो भोगं प्रदास्यति
॥१०॥देवर्षेर् वचनाद् एव समभ्येत्य च षण्मुखम् । कृत्तिकाः स्वयम् एवैतद् यथावृत्तं न्यवेदयत्
॥११॥ताभ्यो वाक्यं कृत्तिकाभ्यः कार्त्तिकेयोऽनुमन्य च । गौतमीं यान्तु सर्वाश् च स्नात्वापूज्य महेश्वरम्
॥१२॥एष्यामि चाहं तत्रैव यास्यामि सुरमन्दिरम् । तथेत्य् उक्त्वा कृत्तिकाश् च स्नात्वा गङ्गां च गौतमीम्
॥१३॥देवेश्वरं च सम्पूज्य कार्त्तिकेयानुशासनात् । देवेश्वरप्रसादेन प्रययुः सुरमन्दिरम्
॥१४॥ततः प्रभृति तत् तीर्थं कृत्तिकातीर्थम् उच्यते । कार्त्तिक्यां कृत्तिकायोगे तत्र यः स्नानम् आचरेत्
॥१५॥सर्वक्रतुफलं प्राप्य राजा भवति धार्मिकः । तत्तीर्थस्मरणं वापि यः करोति शृणोति च । सर्वपापविनिर्मुक्तो दीर्घम् आयुर् अवाप्नुयात्
॥१६॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).