मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १४३

3
ब्रह्मपुराणम् · 143

अध्यायः १४३

ब्रह्मोवाच:

सिद्धतीर्थम् इति ख्यातं यत्र सिद्धेश्वरो हरः । तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम्

॥१॥

पुलस्त्यवंशसम्भूतो रावणो लोकरावणः । दिशो विजित्य सर्वाश् च सोमलोकम् अजीगमत्

॥२॥

सोमेन सह योत्स्यन्तं दशास्यम् अहम् अब्रवम् । मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद् दशानन

॥३॥

इत्य् उक्त्वाष्टोत्तरं मन्त्रं शतनामभिर् अन्वितम् । शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये

॥४॥

निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम् । शरणं शिव एवात्र संसारेऽन्यो न कश्चन

॥५॥

ततो निवृत्तः स ह मन्त्रियुक्तस् । तत् सोमलोकाज् जयम् आप्य रक्षः । स पुष्पकारूढगतिः सगर्वो । लोकान् पुनः प्राप जवाद् दशास्यः

॥६॥

स प्रेक्षमाणो देवम् अन्तरिक्षं । भुवं च नागांश् च गजांश् च विप्रान् । आलोकयाम् आस नगं महान्तं । कैलासम् आवास उमापतेर् यः

॥७॥

दृष्ट्वा स्मयोत्फुल्लदृग् अद्रिराजं । स मन्त्रिणौ रावण इत्य् उवाच

॥८॥

रावण उवाच:

को वा गिराव् अत्र वसेन् महात्मा । गिरिं नयाम्य् एनम् अथाधि भूमेः । लङ्कागतोऽयं गिरिर् आशु शोभां । लङ्कापि सत्यं श्रियम् आतनोति

॥९॥

ब्रह्मोवाच:

इत्थं वचो राक्षसमन्त्रिणौ तौ । निशम्य रक्षोधिपतेश् च भावम् । न युक्तम् इत्य् ऊचतुर् इष्टबुद्ध्या । निशाचरस् तद्वचनं न मेने

॥१०॥

संस्थाप्य तत् पुष्पकम् आशु रक्षः । पुप्लाव कैलासगिरेश् च मूले । हिन्दोलयाम् आस गिरिं दशास्यो । ज्ञात्वा भवः कृत्यम् इदं चकार

॥११॥

जित्वा दिगीशांश् च सगर्वितस्य । कैलासम् आन्दोलयतः सुरारेः । लोकांश् च यातस्य दशाननस्य

॥१२॥

आलूनकायस्य गिरं निशम्य । विहस्य देव्या सह दत्तम् इष्टम् । तस्मै प्रसन्नः कुपितोऽपि शम्भुर् । अयुक्तदातेति न संशयोऽत्र

॥१३॥

ततोऽयम् आवाप्य वरान् सुवीरो । भवप्रसादात् कुसुमं जगाम । गच्छन् स लङ्कां भवपूजनाय । गङ्गाम् अगाच् छम्भुजटाप्रसूताम्

॥१४॥

सम्पूजयित्वा विविधैश् च मन्त्रैर् । गङ्गाजलैः शम्भुम् अदीनसत्त्वः । असिं स लेभे शशिखण्डभूषात् । सिद्धिं च सर्वर्द्धिम् अभीप्सितां च

॥१५॥

मद्दत्तमन्त्रं शशिरक्षणाय । स साधयाम् आस भवं प्रपूज्य । सिद्धे तु मन्त्रे पुनर् एव लङ्काम् । अयात् स रक्षोधिपतिः स तुष्टः

॥१६॥

ततः प्रभृत्य् एतद् अतिप्रभावं । तीर्थं महासिद्धिदम् इष्टदं च । समस्तपापौघविनाशनं च । सिद्धैर् अशेषैः परिसेवितं च

॥१७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).