अध्यायः २२४
उमोवाच:
भगवन् सर्वभूतेश सुरासुरनमस्कृत । धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो
॥१॥कर्मणा मनसा वाचा त्रिविधैर् देहिनः सदा । बध्यन्ते बन्धनैः कैर् वा मुच्यन्ते वा कथं वद
॥२॥केन शीलेन वै देव कर्मणा कीदृशेन वा । समाचारैर् गुणैः कैर् वा स्वर्गं यान्तीह मानवाः
॥३॥शिव उवाच:
देवि धर्मार्थतत्त्वज्ञे धर्मनित्ये उमे सदा । सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः
॥४॥सत्यधर्मरताः शान्ताः सर्वलिङ्गविवर्जिताः । नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः
॥५॥प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः । वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः
॥६॥कर्मणा मनसा वाचा ये न हिंसन्ति किञ्चन । ये न मज्जन्ति कस्मिंश्चित् ते न बध्नन्ति कर्मभिः
॥७॥प्राणातिपाताद् विरताः शीलवन्तो दयान्विताः । तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः
॥८॥सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु । त्यक्तहिंस्रसमाचारास् ते नराः स्वर्गगामिनः
॥९॥परस्वनिर्ममा नित्यं परदारविवर्जिकाः । धर्मलब्धार्थभोक्तारस् ते नराः स्वर्गगामिनः
॥१०॥मातृवत् स्वसृवच् चैव नित्यं दुहितृवच् च ये । परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः
॥११॥स्वदारनिरता ये च ऋतुकालाभिगामिनः । अग्राम्यसुखभोगाश् च ते नराः स्वर्गगामिनः
॥१२॥स्तैन्यान् निवृत्ताः सततं सन्तुष्टाः स्वधनेन च । स्वभाग्यान्य् उपजीवन्ति ते नराः स्वर्गगामिनः
॥१३॥परदारेषु ये नित्यं चारित्रावृतलोचनाः । जितेन्द्रियाः शीलपरास् ते नराः स्वर्गगामिनः
॥१४॥एष दैवकृतो मार्गः सेवितव्यः सदा नरैः । अकषायकृतश् चैव मार्गः सेव्यः सदा बुधैः
॥१५॥अवृथापकृतश् चैव मार्गः सेव्यः सदा बुधैः । दानकर्मतपोयुक्तः शीलशौचदयात्मकः । स्वर्गमार्गम् अभीप्सद्भिर् न सेव्यस् त्व् अत उत्तरः
॥१६॥उमोवाच:
वाचा तु बध्यते येन मुच्यते ह्य् अथवा पुनः । तानि कर्माणि मे देव वद भूतपतेऽनघ
॥१७॥शिव उवाच:
आत्महेतोः परार्थे वा अधर्माश्रितम् एव च । ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः
॥१८॥वृत्त्यर्थं धर्महेतोर् वा कामकारात् तथैव च । अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः
॥१९॥श्लक्ष्णां वाणीं स्वच्छवर्णां मधुरां पापवर्जिताम् । स्वगतेनाभिभाषन्ते ते नराः स्वर्गगामिनः
॥२०॥परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा । न पैशुन्यरताः सन्तस् ते नराः स्वर्गगामिनः
॥२१॥पिशुनं न प्रभाषन्ते मित्रभेदकरं तथा । परपीडाकरं चैव ते नराः स्वर्गगामिनः
॥२२॥ये वर्जयन्ति परुषं परद्रोहं च मानवाः । सर्वभूतसमा दान्तास् ते नराः स्वर्गगामिनः
॥२३॥शठप्रलापाद् विरता विरुद्धपरिवर्जकाः । सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः
॥२४॥न कोपाद् व्याहरन्ते ये वाचं हृदयदारिणीम् । शान्तिं विन्दन्ति ये क्रुद्धास् ते नराः स्वर्गगामिनः
॥२५॥एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः । शुभसत्यगुणैर् नित्यं वर्जनीया मृषा बुधैः
॥२६॥उमोवाच:
मनसा बध्यते येन कर्मणा पुरुषः सदा । तन् मे ब्रूहि महाभाग देवदेव पिनाकधृक्
॥२७॥महेश्वर उवाच:
मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा । स्वर्गं गच्छन्ति कल्याणि तन् मे कीर्तयतः शृणु
॥२८॥दुष्प्रणीतेन मनसा दुष्प्रणीतान्तराकृतिः । नरो बध्येत येनेह शृणु वा तं शुभानने
॥२९॥अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा । मनसापि न गृह्णन्ति ते नराः स्वर्गगामिनः
॥३०॥तथैव परदारान् ये कामवृत्ता रहोगताः । मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः
॥३१॥शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः । भजन्ति मैत्र्यं सङ्गम्य ते नराः स्वर्गगामिनः
॥३२॥श्रुतवन्तो दयावन्तः शुचयः सत्यसङ्गराः । स्वैर् अर्थैः परिसन्तुष्टास् ते नराः स्वर्गगामिनः
॥३३॥अवैरा ये त्व् अनायासा मैत्रचित्तरताः सदा । सर्वभूतदयावन्तस् ते नराः स्वर्गगामिनः
॥३४॥ज्ञातवन्तः क्रियावन्तः क्षमावन्तः सुहृत्प्रियाः । धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः
॥३५॥शुभानाम् अशुभानां च कर्मणां फलसञ्चये । निराकाङ्क्षाश् च ये देवि ते नराः स्वर्गगामिनः
॥३६॥पापोपेतान् वर्जयन्ति देवद्विजपराः सदा । समुत्थानम् अनुप्राप्तास् ते नराः स्वर्गगामिनः
॥३७॥शुभैः कर्मफलैर् देवि मयैते परिकीर्तिताः । स्वर्गमार्गपरा भूयः किं त्वं श्रोतुम् इहेच्छसि
॥३८॥उमोवाच:
महान् मे संशयः कश्चिन् मर्त्यान् प्रति महेश्वर । तस्मात् त्वं निपुणेनाद्य मम व्याख्यातुम् अर्हसि
॥३९॥केनायुर् लभते दीर्घं कर्मणा पुरुषः प्रभो । तपसा वापि देवेश केनायुर् लभते महत्
॥४०॥क्षीणायुः केन भवति कर्मणा भुवि मानवः । विपाकं कर्मणां देव वक्तुम् अर्हस्य् अनिन्दित
॥४१॥अपरे च महाभाग्या मन्दभाग्यास् तथा परे । अकुलीनाः कुलीनाश् च सम्भवन्ति तथा परे
॥४२॥दुर्दर्शाः केचिद् आभान्ति नराः काष्ठमया इव । प्रियदर्शास् तथा चान्ये दर्शनाद् एव मानवाः
॥४३॥दुष्प्रज्ञाः केचिद् आभान्ति केचिद् आभान्ति पण्डिताः । महाप्रज्ञास् तथा चान्ये ज्ञानविज्ञानभाविनः
॥४४॥अल्पवाचास् तथा केचिन् महावाचास् तथा परे । दृश्यन्ते पुरुषा देव ततो व्याख्यातुम् अर्हसि
॥४५॥शिव उवाच:
हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् । मर्त्यलोके नरः सर्वो येन स्वं फलम् अश्नुते
॥४६॥प्राणातिपाती योगीन्द्रो दण्डहस्तो नरः सदा । नित्यम् उद्यतशस्त्रश् च हन्ति भूतगणान् नरः
॥४७॥निर्दयः सर्वभूतेभ्यो नित्यम् उद्वेगकारकः । अपि कीटपतङ्गानाम् अशरण्यः सुनिर्घृणः
॥४८॥एवम्भूतो नरो देवि निरयं प्रतिपद्यते । विपरीतस् तु धर्मात्मा स्वरूपेणाभिजायते
॥४९॥निरयं याति हिंसात्मा याति स्वर्गम् अहिंसकः । यातनां निरये रौद्रां सकृच्छ्रां लभते नरः
॥५०॥यः कश्चिन् निरयात् तस्मात् समुत्तरति कर्हिचित् । मानुष्यं लभते वापि हीनायुस् तत्र जायते
॥५१॥पापेन कर्मणा देवि युक्तो हिंसादिभिर् यतः । अहितः सर्वभूतानां हीनायुर् उपजायते
॥५२॥शुभेन कर्मणा देवि प्राणिघातविवर्जितः । शुभेन कर्मणा देवि प्राणिघातविवर्जितः । निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन
॥५३॥न घातयति नो हन्ति घ्नन्तं नैवानुमोदते । सर्वभूतेषु सस्नेहो यथात्मनि तथा परे
॥५४॥ईदृशः पुरुषो नित्यं देवि देवत्वम् अश्नुते । उपपन्नान् सुखान् भोगान् सदाश्नाति मुदा युतः
॥५५॥अथ चेन् मानुषे लोके कदाचिद् उपपद्यते । एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् । प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः
॥५६॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).