अध्यायः ६९
मुनय ऊचुः:
बह्वाश्चर्यस् त्वया प्रोक्तो विष्णुलोको जगत्पते । नित्यानन्दकरः श्रीमान् भुक्तिमुक्तिफलप्रदः
॥१॥क्षेत्रं च दुर्लभं लोके कीर्तितं पुरुषोत्तमम् । त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः
॥२॥सम्यक् क्षेत्रस्य माहात्म्यं त्वया सम्यक् प्रकीर्तितम् । यत्र स्वदेहसन्त्यागाद् विष्णुलोकं व्रजेन् नरः
॥३॥अहो मोक्षस्य मार्गोऽयं देहत्यागस् त्वयोदितः । नराणाम् उपकाराय पुरुषाख्ये न संशयः
॥४॥अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः । तस्मिन् क्षेत्रे परं विष्णोः पदं यान्ति निरामयम्
॥५॥श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महान् अभूत् । प्रयागपुष्करादीनि क्षेत्राण्य् आयतनानि च
॥६॥पृथिव्यां सर्वतीर्थानि सरितश् च सरांसि च । न तथा तानि सर्वाणि प्रशंससि सुरोत्तम
॥७॥यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः । ज्ञातोऽस्माभिर् अभिप्रायस् तवेदानीं पितामह
॥८॥येन प्रशंससि क्षेत्रं मुक्तिदं पुरुषोत्तमम् । पुरुषाख्यसमं नूनं क्षेत्रं नास्ति महीतले । तेन त्वं विबुधश्रेष्ठ प्रशंससि पुनः पुनः
॥९॥ब्रह्मोवाच:
सत्यं सत्यं मुनिश्रेष्ठा भवद्भिः समुदाहृतम् । पुरुषाख्यसमं क्षेत्रं नास्त्य् अत्र पृथिवीतले
॥१०॥सन्ति यानि तु तीर्थानि पुण्यान्य् आयतनानि च । तानि श्रीपुरुषाख्यस्य कलां नार्हन्ति षोडशीम्
॥११॥यथा सर्वेश्वरो विष्णुः सर्वलोकोत्तमोत्तमः । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥१२॥आदित्यानां यथा विष्णुः श्रेष्ठत्वे समुदाहृतः । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥१३॥नक्षत्राणां यथा सोमः सरसां सागरो यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥१४॥वसूनां पावको यद्वद् रुद्राणां शङ्करो यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥१५॥वर्णानां ब्राह्मणो यद्वद् वैनतेयश् च पक्षिणाम् । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥१६॥शिखरिणां यथा मेरुः पर्वतानां हिमालयः । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥१७॥प्रमदानां यथा लक्ष्मीः सरितां जाह्नवी यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥१८॥ऐरावतो गजेन्द्राणां महर्षीणां भृगुर् यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥१९॥सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥२०॥उच्चैःश्रवा यथाश्वानां कवीनाम् उशना कविः । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥२१॥मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥२२॥इन्द्रियाणां मनो यद्वद् भूतानाम् अवनी यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥२३॥अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥२४॥भूषणानां तु सर्वेषां यथा चूडामणिर् द्विजाः । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥२५॥गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥२६॥अकारः सर्ववर्णानां गायत्री छन्दसां यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥२७॥सर्वाङ्गेभ्यो यथा श्रेष्ठम् उत्तमाङ्गं द्विजोत्तमाः । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥२८॥अरुन्धती यथा स्त्रीणां सतीनां श्रेष्ठतां गता । तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम्
॥२९॥यथा समस्तविद्यानां मोक्षविद्या परा स्मृता । तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम्
॥३०॥मनुष्याणां यथा राजा धेनूनाम् अपि कामधुक् । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥३१॥सुवर्णं सर्वरत्नानां सर्पाणां वासुकिर् यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥३२॥प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥३३॥झषाणां मकरो यद्वन् मृगाणां मृगराड् यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥३४॥समुद्राणां यथा श्रेष्ठः क्षीरोदः सरितां पतिः । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥३५॥वरुणो यादसां यद्वद् यमः संयमिनां यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥३६॥देवर्षीणां यथा श्रेष्ठो नारदो मुनिसत्तमाः । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥३७॥धातूनां काञ्चनं यद्वत् पवित्राणां च दक्षिणा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥३८॥प्रजापतिर् यथा दक्ष ऋषीणां कश्यपो यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥३९॥ग्रहाणां भास्करो यद्वन् मन्त्राणां प्रणवो यथा । तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
॥४०॥अश्वमेधस् तु यज्ञानां यथा श्रेष्ठः प्रकीर्तितः । तथा समस्ततीर्थानां क्षेत्रं च तद् द्विजोत्तमाः
॥४१॥ओषधीनां यथा धान्यं तृणेषु तृणराड् यथा । तथा समस्ततीर्थानाम् उत्तमं पुरुषोत्तमम्
॥४२॥यथा समस्ततीर्थानां धर्मः संसारतारकः । तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम्
॥४३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).