मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २१६

3
ब्रह्मपुराणम् · 216

अध्यायः २१६

मुनय ऊचुः:

अहोऽतिदुःखं घोरं च यममार्गे त्वयोदितम् । नरकाणि च घोराणि द्वारं याम्यं च सत्तम

॥१॥

अस्त्य् उपायो न वा ब्रह्मन् यममार्गेऽतिभीषणे । ब्रूहि येन नरा यान्ति सुखेन यमसादनम्

॥२॥

व्यास उवाच:

इह ये धर्मसंयुक्तास् त्व् अहिंसानिरता नराः । गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः

॥३॥

यस्मिन् मनुष्यलोकास् ते सभार्याः ससुतास् तथा । तम् अध्वानं च गच्छन्ति यथा तत् कथयामि वः

॥४॥

विमानैर् विविधैर् दिव्यैः काञ्चनध्वजशोभितैः । धर्मराजपुरं यान्ति सेवमानाप्सरोगणैः

॥५॥

ब्राह्मणेभ्यस् तु दानानि नानारूपाणि भक्तितः । ये प्रयच्छन्ति ते यान्ति सुखेनैव महापथे

॥६॥

अन्नं ये तु प्रयच्छन्ति ब्राह्मणेभ्यः सुसङ्कृतम् । श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युताः

॥७॥

तरुणीभिर् वरस्त्रीभिः सेव्यमानाः प्रयत्नतः । धर्मराजपुरं यान्ति विमानैर् अभ्यलङ्कृतैः

॥८॥

ये च सत्यं प्रभाषन्ते बहिर् अन्तश् च निर्मलाः । तेऽपि यान्त्य् अमरप्रख्या विमानैर् यममन्दिरम्

॥९॥

गोदानानि पवित्राणि विष्णुम् उद्दिश्य साधुषु । ये प्रयच्छन्ति धर्मज्ञाः कृशेषु कृशवृत्तिषु

॥१०॥

ते यान्ति दिव्यवर्णाभैर् विमानैर् मणिचित्रितैः । धर्मराजपुरं श्रीमान् सेव्यमानाप्सरोगणैः

॥११॥

उपानद्युगलं छत्त्रं शय्यासनम् अथापि वा । ये प्रयच्छन्ति वस्त्राणि तथैवाभरणानि च

॥१२॥

ते यान्त्य् अश्वै रथैश् चैव कुञ्जरैश् चाप्य् अलङ्कृताः । धर्मराजपुरं दिव्यं छत्त्रैः सौवर्णराजतैः

॥१३॥

ये च भक्त्या प्रयच्छन्ति गुडपानकम् अर्चितम् । ओदनं च द्विजाग्र्येभ्यो विशुद्धेनान्तरात्मना

॥१४॥

ते यान्ति काञ्चनैर् यानैर् विविधैस् तु यमालयम् । वरस्त्रीभिर् यथाकामं सेव्यमानाः पुनः पुनः

॥१५॥

ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु । ब्राह्मणेभ्यः प्रयत्नेन शुद्ध्योपेतं सुसंस्कृतम्

॥१६॥

चक्रवाकप्रयुक्तैश् च विमानैस् तु हिरण्मयैः । यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम्

॥१७॥

ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च । हंसयुक्तैर् विमानैस् तु यान्ति धर्मपुरं नराः

॥१८॥

ये तिलांस् तिलधेनुं च घृतधेनुम् अथापि वा । श्रोत्रियेभ्यः प्रयच्छन्ति विप्रेभ्यः श्रद्धयान्विताः

॥१९॥

सोममण्डलसङ्काशैर् यानैस् ते यान्ति निर्मलैः । गन्धर्वैर् उपगीयन्ते पुरे वैवस्वतस्य ते

॥२०॥

येषां वाप्यश् च कूपाश् च तडागानि सरांसि च । दीर्घिकाः पुष्करिण्यश् च शीतलाश् च जलाशयाः

॥२१॥

यानैस् ते हेमचन्द्राभैर् दिव्यघण्टानिनादितैः । व्यजनैस् तालवृन्तैश् च वीज्यमाना महाप्रभाः

॥२२॥

येषां देवकुलान्य् अत्र चित्राण्य् आयतनानि च । रत्नैः प्रस्फुरमाणानि मनोज्ञानि शुभानि च

॥२३॥

ते यान्ति लोकपालैस् तु विमानैर् वातरंहसैः । धर्मराजपुरं दिव्यं नानाजनसमाकुलम्

॥२४॥

पानीयं ये प्रयच्छन्ति सर्वप्राण्युपजीवितम् । ते वितृष्णाः सुखं यान्ति विमानैस् तं महापथम्

॥२५॥

काष्ठपादुकयानानि पीठकान्य् आसनानि च । यैर् दत्तानि द्विजातिभ्यस् तेऽध्वानं यान्ति वै सुखम्

॥२६॥

सौवर्णमणिपीठेषु पादौ कृत्वोत्तमेषु च । ते प्रयान्ति विमानैस् तु अप्सरोगणमण्डितैः

॥२७॥

आरामाणि विचित्राणि पुष्पाढ्यानीह मानवाः । रोपयन्ति फलाढ्यानि नराणाम् उपकारिणः

॥२८॥

वृक्षच्छायासु रम्यासु शीतलासु स्वलङ्कृताः । वरस्त्रीगीतवाद्यैश् च सेव्यमाना व्रजन्ति ते

॥२९॥

सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा । ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः

॥३०॥

भूमिदा दीप्यमानाश् च सर्वकामैस् तु तर्पिताः । उदितादित्यसङ्काशैर् विमानैर् भृशनादितैः

॥३१॥

कन्यां तु ये प्रयच्छन्ति ब्रह्मदेयाम् अलङ्कृताम् । दिव्यकन्यावृता यान्ति विमानैस् ते यमालयम्

॥३२॥

सुगन्धागुरुकर्पूरान् पुष्पधूपान् द्विजोत्तमाः । प्रयच्छन्ति द्विजातिभ्यो भक्त्या परमयान्विताः

॥३३॥

ते सुगन्धाः सुवेशाश् च सुप्रभाः सुविभूषिताः । यान्ति धर्मपुरं यानैर् विचित्रैर् अभ्यलङ्कृताः

॥३४॥

दीपदा यान्ति यानैश् च दीपयन्तो दिशो दश । आदित्यसदृशैर् यानैर् दीप्यमाना यथाग्नयः

॥३५॥

गृहावसथदातारो गृहैः काञ्चनमण्डितैः । व्रजन्ति बालार्कनिभैर् धर्मराजगृहं नराः

॥३६॥

जलभाजनदातारः कुण्डिकाकरकप्रदाः । पूजमानाप्सरोभिश् च यान्ति दृप्ता महागजैः

॥३७॥

पादाभ्यङ्गं शिरोभ्यङ्गं स्नानपानोदकं तथा । ये प्रयच्छन्ति विप्रेभ्यस् ते यान्त्य् अश्वैर् यमालयम्

॥३८॥

विश्रामयन्ति ये विप्राञ् श्रान्तान् अध्वनि कर्शितान् । चक्रवाकप्रयुक्तेन यान्ति यानेन ते सुखम्

॥३९॥

स्वागतेन च यो विप्रं पूजयेद् आसनेन च । स गच्छति तम् अध्वानं सुखं परमनिर्वृतः

॥४०॥

नमो ब्रह्मण्यदेवेति यो हरिं चाभिवादयेत् । गां च पापहरेत्य् उक्त्वा सुखं यान्ति च तत् पथम्

॥४१॥

अनन्तराशिनो ये च दम्भानृतविवर्जिताः । तेऽपि सारसयुक्तैस् तु यान्ति यानैश् च तत् पथम्

॥४२॥

वर्तन्ते ह्य् एकभक्तेन शाठ्यदम्भविवर्जिताः । हंसयुक्तैर् विमानैस् तु सुखं यान्ति यमालयम्

॥४३॥

चतुर्थेनैकभक्तेन वर्तन्ते ये जितेन्द्रियाः । ते यान्ति धर्मनगरं यानैर् बर्हिणयोजितैः

॥४४॥

तृतीये दिवसे ये तु भुञ्जते नियतव्रताः । तेऽपि हस्तिरथैर् दिव्यैर् यान्ति यानैश् च तत् पदम्

॥४५॥

षष्ठेऽन्नभक्षको यस् तु शौचनित्यो जितेन्द्रियः । स याति कुञ्जरस्थस् तु शचीपतिर् इव स्वयम्

॥४६॥

धर्मराजपुरं दिव्यं नानामणिविभूषितम् । नानास्वरसमायुक्तं जयशब्दरवैर् युतम्

॥४७॥

पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः । पुरं तद् धर्मराजस्य सेव्यमानाः सुरासुरैः

॥४८॥

ये च मासोपवासं तु कुर्वते संयतेन्द्रियाः । तेऽपि सूर्यप्रदीप्तैस् तु यान्ति यानैर् यमालयम्

॥४९॥

महाप्रस्थानम् एकाग्रो यः प्रयाति दृढव्रतः । सेव्यमानस् तु गन्धर्वैर् याति यानैर् यमालयम्

॥५०॥

शरीरं साधयेद् यस् तु वैष्णवेनान्तरात्मना । स रथेनाग्निवर्णेन यातीह त्रिदशालयम्

॥५१॥

अग्निप्रवेशं यः कुर्यान् नारायणपरायणः । स यात्य् अग्निप्रकाशेन विमानेन यमालयम्

॥५२॥

प्राणांस् त्यजति यो मर्त्यः स्मरन् विष्णुं सनातनम् । यानेनार्कप्रकाशेन याति धर्मपुरं नरः

॥५३॥

प्रविष्टोऽन्तर् जलं यस् तु प्राणांस् त्यजति मानवः । सोममण्डलकल्पेन याति यानेन वै सुखम्

॥५४॥

स्वशरीरं हि गृध्रेभ्यो वैष्णवो यः प्रयच्छति । स याति रथमुख्येन काञ्चनेन यमालयम्

॥५५॥

स्त्रीग्रहे गोग्रहे वापि युद्धे मृत्युम् उपैति यः । स यात्य् अमरकन्याभिः सेव्यमानो रविप्रभः

॥५६॥

वैष्णवा ये च कुर्वन्ति तीर्थयात्रां जितेन्द्रियाः । तत् पथं यान्ति ते घोरं सुखयानैर् अलङ्कृताः

॥५७॥

ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर् भूरिदक्षिणैः । तप्तहाटकसङ्काशैर् विमानैर् यान्ति ते सुखम्

॥५८॥

परपीडाम् अकुर्वन्तो भृत्यानां भरणादिकम् । कुर्वन्ति ते सुखं यान्ति विमानैः कनकोज्ज्वलैः

॥५९॥

ये क्षान्ताः सर्वभूतेषु प्राणिनाम् अभयप्रदाः । क्रोधमोहविनिर्मुक्ता निर्मदाः संयतेन्द्रियाः

॥६०॥

पूर्णचन्द्रप्रकाशेन विमानेन महाप्रभाः । यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः

॥६१॥

एकभावेन ये विष्णुं ब्रह्माणं त्र्यम्बकं रविम् । पूजयन्ति हि ते यान्ति विमानैर् भास्करप्रभैः

॥६२॥

ये च मांसं न खादन्ति सत्यशौचसमन्विताः । तेऽपि यान्ति सुखेनैव धर्मराजपुरं नराः

॥६३॥

मांसान् मिष्टतरं नास्ति भक्ष्यभोज्यादिकेषु च । तस्मान् मांसं न भुञ्जीत नास्ति मिष्टैः सुखोदयः

॥६४॥

गोसहस्रं तु यो दद्याद् यस् तु मांसं न भक्षयेत् । समाव् एतौ पुरा प्राह ब्रह्मा वेदविदां वरः

॥६५॥

सर्वतीर्थेषु यत् पुण्यं सर्वयज्ञेषु यत् फलम् । अमांसभक्षणे विप्रास् तच् च तच् च च तत्समम्

॥६६॥

एवं सुखेन ते यान्ति यमलोकं च धार्मिकाः । दानव्रतपरा यानैर् यत्र देवो रवेः सुतः

॥६७॥

दृष्ट्वा तान् धार्मिकान् देवः स्वयं सम्मानयेद् यमः । स्वागतासनदानेन पाद्यार्घ्येण प्रियेण तु

॥६८॥

धन्या यूयं महात्मान आत्मनो हितकारिणः । येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम्

॥६९॥

इदं विमानम् आरुह्य दिव्यस्त्रीभोगभूषिताः । स्वर्गं गच्छध्वम् अतुलं सर्वकामसमन्वितम्

॥७०॥

तत्र भुक्त्वा महाभोगान् अन्ते पुण्यपरिक्षयात् । यत् किञ्चिद् अल्पम् अशुभं फलं तद् इह भोक्ष्यथ

॥७१॥

ये तु तं धर्मराजानं नराः पुण्यानुभावतः । पश्यन्ति सौम्यमनसं पितृभूतम् इवात्मनः

॥७२॥

तस्माद् धर्मः सेवितव्यः सदा मुक्तिफलप्रदः । धर्माद् अर्थस् तथा कामो मोक्षश् च परिकीर्त्यते

॥७३॥

धर्मो माता पिता भ्राता धर्मो नाथः सुहृत् तथा । धर्मः स्वामी सखा गोप्ता तथा धाता च पोषकः

॥७४॥

धर्माद् अर्थोऽर्थतः कामः कामाद् भोगः सुखानि च । धर्माद् ऐश्वर्यम् एकाग्र्यं धर्मात् स्वर्गगतिः परा

॥७५॥

धर्मस् तु सेवितो विप्रास् त्रायते महतो भयात् । देवत्वं च द्विजत्वं च धर्मात् प्राप्नोत्य् असंशयम्

॥७६॥

यदा च क्षीयते पापं नराणां पूर्वसञ्चितम् । तदैषां भजते बुद्धिर् धर्मं चात्र द्विजोत्तमाः

॥७७॥

जन्मान्तरसहस्रेषु मानुष्यं प्राप्य दुर्लभम् । यो हि नाचरते धर्मं भवेत् स खलु वञ्चितः

॥७८॥

कुत्सिता ये दरिद्राश् च विरूपा व्याधितास् तथा । परप्रेष्याश् च मूर्खाश् च ज्ञेया धर्मविवर्जिताः

॥७९॥

ये हि दीर्घायुषः शूराः पण्डिता भोगिनोऽर्थिनः । अरोगा रूपवन्तश् च तैस् तु धर्मः पुरा कृतः

॥८०॥

एवं धर्मरता विप्रा गच्छन्ति गतिम् उत्तमाम् । अधर्मं सेवमानास् तु तिर्यग्योनिं व्रजन्ति ते

॥८१॥

ये नरा नरकध्वंसिवासुदेवम् अनुव्रताः । ते स्वप्नेऽपि न पश्यन्ति यमं वा नरकाणि वा

॥८२॥

अनादिनिधनं देवं दैत्यदानवदारणम् । ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम्

॥८३॥

कर्मणा मनसा वाचा येऽच्युतं शरणं गताः । न समर्थो यमस् तेषां ते मुक्तिफलभागिनः

॥८४॥

ये जना जगतां नाथं नित्यं नारायणं द्विजाः । नमन्ति नहि ते विष्णोः स्थानाद् अन्यत्र गामिनः

॥८५॥

न ते दूतान् न तन् मार्गं न यमं न च तां पुरीम् । प्रणम्य विष्णुं पश्यन्ति नरकाणि कथञ्चन

॥८६॥

कृत्वापि बहुशः पापं नरा मोहसमन्विताः । न यान्ति नरकं नत्वा सर्वपापहरं हरिम्

॥८७॥

शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् । तेऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकम् अनामयम्

॥८८॥

अत्यन्तक्रोधसक्तोऽपि कदाचित् कीर्तयेद् धरिम् । सोऽपि दोषक्षयान् मुक्तिं लभेच् चेदिपतिर् यथा

॥८९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).