अध्यायः १८३
व्यास उवाच:
कंसस् त्व् अथोद्विग्नमनाः प्राह सर्वान् महासुरान् । प्रलम्बकेशिप्रमुखान् आहूयासुरपुङ्गवान्
॥१॥कंस उवाच:
हे प्रलम्ब महाबाहो केशिन् धेनुक पूतने । अरिष्टाद्यैस् तथा चान्यैः श्रूयतां वचनं मम
॥२॥मां हन्तुम् अमरैर् यत्नः कृतः किल दुरात्मभिः । मद्वीर्यतापितान् वीरान् न त्व् एतान् गणयाम्य् अहम्
॥३॥आश्चर्यं कन्यया चोक्तं जायते दैत्यपुङ्गवाः । हास्यं मे जायते वीरास् तेषु यत्नपरेष्व् अपि
॥४॥तथापि खलु दुष्टानां तेषाम् अप्य् अधिकं मया । अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम्
॥५॥उत्पन्नश् चापि मृत्युर् मे भूतभव्यभवत्प्रभुः । इत्य् एतद् बालिका प्राह देवकीगर्भसम्भवा
॥६॥तस्माद् बालेषु परमो यत्नः कार्यो महीतले । यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः
॥७॥व्यास उवाच:
इत्य् आज्ञाप्यासुरान् कंसः प्रविश्यात्मगृहं ततः । उवाच वसुदेवं च देवकीम् अविरोधतः
॥८॥कंस उवाच:
युवयोर् घातिता गर्भा वृथैवैते मयाधुना । कोऽप्य् अन्य एव नाशाय बालो मम समुद्गतः
॥९॥तद् अलं परितापेन नूनं यद् भाविनो हि ते । अर्भका युवयोः को वा आयुषोऽन्ते न हन्यते
॥१०॥व्यास उवाच:
इत्य् आश्वास्य विमुच्यैव कंसस् तौ परितोष्य च । अन्तर्गृहं द्विजश्रेष्ठाः प्रविवेश पुनः स्वकम्
॥११॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).