मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ३

3
ब्रह्मपुराणम् · 3

अध्यायः ३

मुनय ऊचुः:

देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय

॥१॥

लोमहर्षण उवाच:

प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा । यथा ससर्ज भूतानि तथा शृणुत भो द्विजाः

॥२॥

मानसान्य् एव भूतानि पूर्वम् एवासृजत् प्रभुः । ऋषीन् देवान् सगन्धर्वान् असुरान् यक्षराक्षसान्

॥३॥

यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा । तदा सञ्चिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः

॥४॥

स मैथुनेन धर्मेण सिसृक्षुर् विविधाः प्रजाः । असिक्नीम् आवहत् पत्नीं वीरणस्य प्रजापतेः

॥५॥

सुतां सुतपसा युक्तां महतीं लोकधारिणीम् । अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान्

॥६॥

असिक्न्यां जनयाम् आस दक्ष एव प्रजापतिः । तांस् तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः

॥७॥

देवर्षिः प्रियसंवादो नारदः प्राब्रवीद् इदम् । नाशाय वचनं तेषां शापायैवात्मनस् तथा

॥८॥

यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् । दक्षस्य वै दुहितरि दक्षशापभयान् मुनिः

॥९॥

पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः । असिक्न्याम् अथ वैरण्यां भूयो देवर्षिसत्तमः

॥१०॥

तं भूयो जनयाम् आस पितेव मुनिपुङ्गवम् । तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः

॥११॥

निर्मथ्य नाशिताः सर्वे विधिना च न संशयः । तस्योद्यतस् तदा दक्षो नाशायामितविक्रमः

॥१२॥

ब्रह्मर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना । ततोऽभिसन्धिश् चक्रे वै दक्षस्य परमेष्ठिना

॥१३॥

कन्यायां नारदो मह्यं तव पुत्रो भवेद् इति । ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने । स तस्यां नारदो जज्ञे भूयः शापभयाद् ऋषिः

॥१४॥

मुनय ऊचुः:

कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा । प्रजापतेः सूतवर्य श्रोतुम् इच्छाम तत्त्वतः

॥१५॥

लोमहर्षण उवाच:

दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः । समागता महावीर्या नारदस् तान् उवाच ह

॥१६॥

नारद उवाच:

बालिशा बत यूयं वै नास्या जानीत वै भुवः । प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः

॥१७॥

अन्तर् ऊर्ध्वम् अधश् चैव कथं सृजथ वै प्रजाः । ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः

॥१८॥

अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः । हर्यश्वेष्व् अथ नष्टेषु दक्षः प्राचेतसः पुनः

॥१९॥

वैरण्याम् अथ पुत्राणां सहस्रम् असृजत् प्रभुः । विवर्धयिषवस् ते तु शबलाश्वास् तथा प्रजाः

॥२०॥

पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः । अन्योन्यम् ऊचुस् ते सर्वे सम्यग् आह महान् ऋषिः

॥२१॥

भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः । ज्ञात्वा प्रमाणं पृथ्व्याश् च सुखं स्रक्ष्यामहे प्रजाः

॥२२॥

तेऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् । अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः

॥२३॥

तदा प्रभृति वै भ्राता भ्रातुर् अन्वेषणे द्विजाः । प्रयातो नश्यति क्षिप्रं तन् न कार्यं विपश्चिता

॥२४॥

तांश् चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः । षष्टिं ततोऽसृजत् कन्या वैरण्याम् इति नः श्रुतम्

॥२५॥

तास् तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः । सोमो धर्मश् च भो विप्रास् तथैवान्ये महर्षयः

॥२६॥

ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने

॥२७॥

द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु

॥२८॥

अरुन्धती वसुर् यामी लम्बा भानुर् मरुत्वती । सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भो द्विजाः

॥२९॥

धर्मपत्न्यो दश त्व् एतास् तास्व् अपत्यानि बोधत । विश्वेदेवास् तु विश्वायाः साध्या साध्यान् व्यजायत

॥३०॥

मरुत्वत्यां मरुत्वन्तो वसोस् तु वसवः सुताः । भानोस् तु भानवः पुत्रा मुहूर्तास् तु मुहूर्तजाः

॥३१॥

लम्बायाश् चैव घोषोऽथ नागवीथी च यामिजा । पृथिवी विषयं सर्वम् अरुन्धत्यां व्यजायत

॥३२॥

सङ्कल्पायास् तु विश्वात्मा जज्ञे सङ्कल्प एव हि । नागवीथ्यां च यामिन्यां वृषलश् च व्यजायत

॥३३॥

परा याः सोमपत्नीश् च दक्षः प्राचेतसो ददौ । सर्वा नक्षत्रनाम्न्यस् ता ज्योतिषे परिकीर्तिताः

॥३४॥

ये त्व् अन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः । वसवोऽष्टौ समाख्यातास् तेषां वक्ष्यामि विस्तरम्

॥३५॥

आपो ध्रुवश् च सोमश् च धवश् चैवानिलोऽनलः । प्रत्यूषश् च प्रभासश् च वसवो नामभिः स्मृताः

॥३६॥

आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस् तथा । ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः

॥३७॥

सोमस्य भगवान् वर्चा वर्चस्वी येन जायते । धवस्य पुत्रो द्रविणो हुतहव्यवहस् तथा । मनोहरायाः शिशिरः प्राणोऽथ रमणस् तथा

॥३८॥

अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । अविज्ञातगतिश् चैव द्वौ पुत्राव् अनिलस्य च

॥३९॥

अग्निपुत्रः कुमारस् तु शरस्तम्बे श्रिया वृतः । तस्य शाखो विशाखश् च नैगमेयश् च पृष्ठजः

॥४०॥

अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः । प्रत्यूषस्य विदुः पुत्रम् ऋषिं नाम्नाथ देवलम्

॥४१॥

द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ । बृहस्पतेस् तु भगिनी वरस्त्री ब्रह्मवादिनी

॥४२॥

योगसिद्धा जगत् कृत्स्नम् असक्ता विचचार ह । प्रभासस्य तु सा भार्या वसूनाम् अष्टमस्य तु

॥४३॥

विश्वकर्मा महाभागो यस्यां जज्ञे प्रजापतिः । कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः

॥४४॥

भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । यः सर्वेषां विमानानि दैवतानां चकार ह

॥४५॥

मानुषाश् चोपजीवन्ति यस्य शिल्पं महात्मनः । सुरभी कश्यपाद् रुद्रान् एकादश विनिर्ममे

॥४६॥

महादेवप्रसादेन तपसा भाविता सती । अजैकपाद् अहिर्बुध्न्यस् त्वष्टा रुद्रश् च वीर्यवान्

॥४७॥

हरश् च बहुरूपश् च त्र्यम्बकश् चापराजितः । वृषाकपिश् च शम्भुश् च कपर्दी रैवतस् तथा

॥४८॥

मृगव्याधश् च शर्वश् च कपाली च द्विजोत्तमाः । एकादशैते विख्याता रुद्रास् त्रिभुवनेश्वराः

॥४९॥

शतं त्व् एवं समाख्यातं रुद्राणाम् अमितौजसाम् । पुराणे मुनिशार्दूला यैर् व्याप्तं सचराचरम्

॥५०॥

दाराञ् शृणुध्वं विप्रेन्द्राः कश्यपस्य प्रजापतेः । अदितिर् दितिर् दनुश् चैव अरिष्टा सुरसा खसा

॥५१॥

सुरभिर् विनता चैव ताम्रा क्रोधवशा इरा । कद्रुर् मुनिश् च भो विप्रास् तास्व् अपत्यानि बोधत

॥५२॥

पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः । तुषिता नाम तेऽन्योन्यम् ऊचुर् वैवस्वतेऽन्तरे

॥५३॥

उपस्थितेऽतियशसश् चाक्षुषस्यान्तरे मनोः । हितार्थं सर्वलोकानां समागम्य परस्परम्

॥५४॥

आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै । मन्वन्तरे प्रसूयामस् तन् नः श्रेयो भविष्यति

॥५५॥

लोमहर्षण उवाच:

एवम् उक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । मारीचात् कश्यपाज् जातास् त्व् अदित्या दक्षकन्यया

॥५६॥

तत्र विष्णुश् च शक्रश् च जज्ञाते पुनर् एव हि । अर्यमा चैव धाता च त्वष्टा पूषा तथैव च

॥५७॥

विवस्वान् सविता चैव मित्रो वरुण एव च । अंशो भगश् चातितेजा आदित्या द्वादश स्मृताः

॥५८॥

सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः । तासाम् अपत्यान्य् अभवन् दीप्तान्य् अमिततेजसः

॥५९॥

अरिष्टनेमिपत्नीनाम् अपत्यानीह षोडश । बहुपुत्रस्य विदुषश् चतस्रो विद्युतः स्मृताः

॥६०॥

चाक्षुषस्यान्तरे पूर्वे ऋचो ब्रह्मर्षिसत्कृताः । कृशाश्वस्य च देवर्षेर् देवप्रहरणाः स्मृताः

॥६१॥

एते युगसहस्रान्ते जायन्ते पुनर् एव हि । सर्वे देवगणाश् चात्र त्रयस्त्रिंशत् तु कामजाः

॥६२॥

तेषाम् अपि च भो विप्रा निरोधोत्पत्तिर् उच्यते । यथा सूर्यस्य गगन उदयास्तमयाव् इह

॥६३॥

एवं देवनिकायास् ते सम्भवन्ति युगे युगे । दित्याः पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतम्

॥६४॥

हिरण्यकशिपुश् चैव हिरण्याक्षश् च वीर्यवान् । सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः

॥६५॥

सैंहिकेया इति ख्याता यस्याः पुत्रा महाबलाः । हिरण्यकशिपोः पुत्राश् चत्वारः प्रथितौजसः

॥६६॥

ह्रादश् च अनुह्रादश् च प्रह्रादश् चैव वीर्यवान् । संह्रादश् च चतुर्थोऽभूद् ध्रादपुत्रो ह्रदस् तथा

॥६७॥

ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस् तथैव च । विरोचनश् च प्राह्रादिर् बलिर् जज्ञे विरोचनात्

॥६८॥

बलेः पुत्रशतम् आसीद् बाणज्येष्ठं तपोधनाः । धृतराष्ट्रश् च सूर्यश् च चन्द्रमाश् चन्द्रतापनः

॥६९॥

कुम्भनाभो गर्दभाक्षः कुक्षिर् इत्य् एवमादयः । बाणस् तेषाम् अतिबलो ज्येष्ठः पशुपतेः प्रियः

॥७०॥

पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् । पार्श्वतो विहरिष्यामि इत्य् एवं याचितो वरः

॥७१॥

हिरण्याक्षसुताश् चैव विद्वांसश् च महाबलाः । भर्भरः शकुनिश् चैव भूतसन्तापनस् तथा

॥७२॥

महानाभश् च विक्रान्तः कालनाभस् तथैव च । अभवन् दनुपुत्राश् च शतं तीव्रपराक्रमाः

॥७३॥

तपस्विनो महावीर्याः प्राधान्येन ब्रवीमि तान् । द्विमूर्धा शङ्कुकर्णश् च तथा हयशिरा विभुः

॥७४॥

अयोमुखः शम्बरश् च कपिलो वामनस् तथा । मारीचिर् मघवांश् चैव इल्वलः स्वसृमस् तथा

॥७५॥

विक्षोभणश् च केतुश् च केतुवीर्यशतह्रदौ । इन्द्रजित् सर्वजिच् चैव वज्रनाभस् तथैव च

॥७६॥

एकचक्रो महाबाहुस् तारकश् च महाबलः । वैश्वानरः पुलोमा च विद्रावणमहाशिराः

॥७७॥

स्वर्भानुर् वृषपर्वा च विप्रचित्तिश् च वीर्यवान् । सर्व एते दनोः पुत्राः कश्यपाद् अभिजज्ञिरे

॥७८॥

विप्रचित्तिप्रधानास् ते दानवाः सुमहाबलाः । एतेषां पुत्रपौत्रं तु न तच् छक्यं द्विजोत्तमाः

॥७९॥

प्रसङ्ख्यातुं बहुत्वाच् च पुत्रपौत्रम् अनन्तकम् । स्वर्भानोस् तु प्रभा कन्या पुलोम्नस् तु शची सुता

॥८०॥

उपदीप्तिर् हयशिराः शर्मिष्ठा वार्षपर्वणी । पुलोमा कालिका चैव वैश्वानरसुते उभे

॥८१॥

बह्वपत्ये महापत्ये मरीचेस् तु परिग्रहः । तयोः पुत्रसहस्राणि षष्टिर् दानवनन्दनाः

॥८२॥

चतुर्दशशतान् अन्यान् हिरण्यपुरवासिनः । मरीचिर् जनयाम् आस महता तपसान्वितः

॥८३॥

पौलोमाः कालकेयाश् च दानवास् ते महाबलाः । अवध्या देवतानां हि हिरण्यपुरवासिनः

॥८४॥

पितामहप्रसादेन ये हताः सव्यसाचिना । ततोऽपरे महावीर्या दानवास् त्व् अतिदारुणाः

॥८५॥

सिंहिकायाम् अथोत्पन्ना विप्रचित्तेः सुतास् तथा । दैत्यदानवसंयोगाज् जातास् तीव्रपराक्रमाः

॥८६॥

सैंहिकेया इति ख्यातास् त्रयोदश महाबलाः । वंश्यः शल्यश् च बलिनौ नलश् चैव तथा बलः

॥८७॥

वातापिर् नमुचिश् चैव इल्वलः स्वसृमस् तथा । अञ्जिको नरकश् चैव कालनाभस् तथैव च

॥८८॥

सरमानस् तथा चैव स्वरकल्पश् च वीर्यवान् । एते वै दानवाः श्रेष्ठा दनोर् वंशविवर्धनाः

॥८९॥

तेषां पुत्राश् च पौत्राश् च शतशोऽथ सहस्रशः । संह्रादस्य तु दैत्यस्य निवातकवचाः कुले

॥९०॥

समुत्पन्नाः सुमहता तपसा भावितात्मनः । तिस्रः कोट्यः सुतास् तेषां मणिवत्यां निवासिनः

॥९१॥

अवध्यास् तेऽपि देवानाम् अर्जुनेन निपातिताः । षट् सुताः सुमहाभागास् ताम्रायाः परिकीर्तिताः

॥९२॥

क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका । क्रौञ्ची तु जनयाम् आस उलूकप्रत्युलूककान्

॥९३॥

श्येनी श्येनांस् तथा भासी भासान् गृध्रांश् च गृध्र्य् अपि । शुचिर् औदकान् पक्षिगणान् सुग्रीवी तु द्विजोत्तमाः

॥९४॥

अश्वान् उष्ट्रान् गर्दभांश् च ताम्रावंशः प्रकीर्तितः । विनतायास् तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ

॥९५॥

गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्मणा । सुरसायाः सहस्रं तु सर्पाणाम् अमितौजसाम्

॥९६॥

अनेकशिरसां विप्राः खचराणां महात्मनाम् । काद्रवेयास् तु बलिनः सहस्रम् अमितौजसः

॥९७॥

सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः । येषां प्रधानाः सततं शेषवासुकितक्षकाः

॥९८॥

ऐरावतो महापद्मः कम्बलाश्वतराव् उभौ । एलापत्त्रश् च शङ्खश् च कर्कोटकधनञ्जयौ

॥९९॥

महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ । कुहरः पुष्पदंष्ट्रश् च दुर्मुखः सुमुखस् तथा

॥१००॥

शङ्खश् च शङ्खपालश् च कपिलो वामनस् तथा । नहुषः शङ्खरोमा च मणिर् इत्य् एवमादयः

॥१०१॥

तेषां पुत्राश् च पौत्राश् च शतशोऽथ सहस्रशः । चतुर्दशसहस्राणि क्रूराणाम् अनिलाशिनाम्

॥१०२॥

गणं क्रोधवंशं विप्रास् तस्य सर्वे च दंष्ट्रिणः । स्थलजाः पक्षिणोऽब्जाश् च धरायाः प्रसवाः स्मृताः

॥१०३॥

गास् तु वै जनयाम् आस सुरभिर् महिषीस् तथा । इरा वृक्षलता वल्लीस् तृणजातीश् च सर्वशः

॥१०४॥

खसा तु यक्षरक्षांसि मुनिर् अप्सरसस् तथा । अरिष्टा तु महासिद्धा गन्धर्वान् अमितौजसः

॥१०५॥

एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः । येषां पुत्राश् च पौत्राश् च शतशोऽथ सहस्रशः

॥१०६॥

एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः । वैवस्वतेऽतिमहति वारुणे वितते क्रतौ

॥१०७॥

जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते । पूर्वं यत्र समुत्पन्नान् ब्रह्मर्षीन् सप्त मानसान्

॥१०८॥

पुत्रत्वे कल्पयाम् आस स्वयम् एव पितामहः । ततो विरोधे देवानां दानवानां च भो द्विजाः

॥१०९॥

दितिर् विनष्टपुत्रा वै तोषयाम् आस कश्यपम् । कश्यपस् तु प्रसन्नात्मा सम्यग् आराधितस् तया

॥११०॥

वरेण च्छन्दयाम् आस सा च वव्रे वरं तदा । पुत्रम् इन्द्रवधार्थाय समर्थम् अमितौजसम्

॥१११॥

स च तस्मै वरं प्रादात् प्रार्थितः सुमहातपाः । दत्त्वा च वरम् अत्युग्रो मारीचः समभाषत

॥११२॥

इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम् । यदि धारयसे शौचतत्परा व्रतम् आस्थिता

॥११३॥

तथेत्य् अभिहितो भर्ता तया देव्या महातपाः । धारयाम् आस गर्भं तु शुचिः सा मुनिसत्तमाः

॥११४॥

ततोऽभ्युपागमद् दित्यां गर्भम् आधाय कश्यपः । रोधयन् वै गणं श्रेष्ठं देवानाम् अमितौजसम्

॥११५॥

तेजः संहृत्य दुर्धर्षम् अवध्यम् अमरैर् अपि । जगाम पर्वतायैव तपसे संशितव्रता

॥११६॥

तस्याश् चैवान्तरप्रेप्सुर् अभवत् पाकशासनः । जाते वर्षशते चास्या ददर्शान्तरम् अच्युतः

॥११७॥

अकृत्वा पादयोः शौचं दितिः शयनम् आविशत् । निद्रां चाहारयाम् आस तस्यां कुक्षिं प्रविश्य सः

॥११८॥

वज्रपाणिस् ततो गर्भं सप्तधा तं न्यकृन्तयत् । स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह

॥११९॥

मा रोदीर् इति तं शक्रः पुनः पुनर् अथाब्रवीत् । सोऽभवत् सप्तधा गर्भस् तम् इन्द्रो रुषितः पुनः

॥१२०॥

एकैकं सप्तधा चक्रे वज्रेणैवारिकर्षणः । मरुतो नाम ते देवा बभूवुर् द्विजसत्तमाः

॥१२१॥

यथोक्तं वै मघवता तथैव मरुतोऽभवन् । देवाश् चैकोनपञ्चाशत् सहाया वज्रपाणिनः

॥१२२॥

तेषाम् एवं प्रवृत्तानां भूतानां द्विजसत्तमाः । रोचयन् वै गणश्रेष्ठान् देवानाम् अमितौजसाम्

॥१२३॥

निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन् । क्रमशस् तानि राज्यानि पृथुपूर्वाणि भो द्विजाः

॥१२४॥

स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः । पर्जन्यस् तपनोऽनन्तस् तस्य सर्वम् इदं जगत्

॥१२५॥

भूतसर्गम् इमं सम्यग् जानतो द्विजसत्तमाः । नावृत्तिभयम् अस्तीह परलोकभयं कुतः

॥१२६॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).