अध्यायः ३३
मुनय ऊचुः:
भूयोऽपि कथयास्माकं कथां सूर्यसमाश्रिताम् । न तृप्तिम् अधिगच्छामः शृण्वन्तस् तां कथां शुभाम्
॥१॥योऽयं दीप्तो महातेजा वह्निराशिसमप्रभः । एतद् वेदितुम् इच्छामः प्रभावोऽस्य कुतः प्रभो
॥२॥ब्रह्मोवाच:
तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे । प्रकृतेर् गुणहेतुस् तु पूर्वं बुद्धिर् अजायत
॥३॥अहङ्कारस् ततो जातो महाभूतप्रवर्तकः । वाय्वग्निर् आपः खं भूमिस् ततस् त्व् अण्डम् अजायत
॥४॥तस्मिन्न् अण्डे त्व् इमे लोकाः सप्त चैव प्रतिष्ठिताः । पृथिवी सप्तभिर् द्वीपैः समुद्रैश् चैव सप्तभिः
॥५॥तत्रैवावस्थितो ह्य् आसीद् अहं विष्णुर् महेश्वरः । विमूढास् तामसाः सर्वे प्रध्यायन्ति तम् ईश्वरम्
॥६॥ततो वै सुमहातेजाः प्रादुर्भूतस् तमोनुदः । ध्यानयोगेन चास्माभिर् विज्ञातः सविता तदा
॥७॥ज्ञात्वा च परमात्मानं सर्व एव पृथक् पृथक् । दिव्याभिः स्तुतिभिर् देवः स्तुतोऽस्माभिस् तदेश्वरः
॥८॥आदिदेवोऽसि देवानाम् ऐश्वर्याच् च त्वम् ईश्वरः । आदिकर्तासि भूतानां देवदेवो दिवाकरः
॥९॥जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् । मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम्
॥१०॥त्वं ब्रह्मा त्वं महादेवस् त्वं विष्णुस् त्वं प्रजापतिः । वायुर् इन्द्रश् च सोमश् च विवस्वान् वरुणस् तथा
॥११॥त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः । सरितः सागराः शैला विद्युदिन्द्रधनूंषि च
॥१२॥प्रलयः प्रभवश् चैव व्यक्ताव्यक्तः सनातनः । ईश्वरात् परतो विद्या विद्यायाः परतः शिवः
॥१३॥शिवात् परतरो देवस् त्वम् एव परमेश्वरः । सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः
॥१४॥सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः । भूतादिर् भूर् भुवः स्वश् च महः सत्यं तपो जनः
॥१५॥प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् । दुर्निरीक्षं सुरेन्द्राणां यद् रूपं तस्य ते नमः
॥१६॥सुरसिद्धगणैर् जुष्टं भृग्वत्रिपुलहादिभिः । स्तुतं परमम् अव्यक्तं यद् रूपं तस्य ते नमः
॥१७॥वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् । सर्वदेवातिदेवस्य यद् रूपं तस्य ते नमः
॥१८॥विश्वकृद् विश्वभूतं च वैश्वानरसुरार्चितम् । विश्वस्थितम् अचिन्त्यं च यद् रूपं तस्य ते नमः
॥१९॥परं यज्ञात् परं वेदात् परं लोकात् परं दिवः । परमात्मेत्य् अभिख्यातं यद् रूपं तस्य ते नमः
॥२०॥अविज्ञेयम् अनालक्ष्यम् अध्यानगतम् अव्ययम् । अनादिनिधनं चैव यद् रूपं तस्य ते नमः
॥२१॥नमो नमः कारणकारणाय । नमो नमः पापविमोचनाय । नमो नमस् ते दितिजार्दनाय । नमो नमो रोगविमोचनाय
॥२२॥नमो नमः सर्ववरप्रदाय । नमो नमः सर्वसुखप्रदाय । नमो नमः सर्वधनप्रदाय । नमो नमः सर्वमतिप्रदाय
॥२३॥स्तुतः स भगवान् एवं तैजसं रूपम् आस्थितः । उवाच वाचा कल्याण्या को वरो वः प्रदीयताम्
॥२४॥देवा ऊचुः:
तवातितैजसं रूपं न कश्चित् सोढुम् उत्सहेत् । सहनीयं तद् भवतु हिताय जगतः प्रभो
॥२५॥एवम् अस्त्व् इति सोऽप्य् उक्त्वा भगवान् आदिकृत् प्रभुः । लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः
॥२६॥ततः साङ्ख्याश् च योगाश् च ये चान्ये मोक्षकाङ्क्षिणः । ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम्
॥२७॥सर्वलक्षणहीनोऽपि युक्तो वा सर्वपातकैः । सर्वं च तरते पापं देवम् अर्कं समाश्रितः
॥२८॥अग्निहोत्रं च वेदाश् च यज्ञाश् च बहुदक्षिणाः । भानोर् भक्तिनमस्कारकलां नार्हन्ति षोडशीम्
॥२९॥तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् । पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम्
॥३०॥शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम् । सर्वकिल्बिषनिर्मुक्ताः सूर्यलोकं व्रजन्ति ते
॥३१॥मुनय ऊचुः:
चिरात् प्रभृति नो ब्रह्मञ् श्रोतुम् इच्छा प्रवर्तते । नाम्नाम् अष्टशतं ब्रूहि यत् त्वयोक्तं पुरा रवेः
॥३२॥ब्रह्मोवाच:
अष्टोत्तरशतं नाम्नां शृणुध्वं गदतो मम । भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः
॥३३॥ॐ सूर्योऽर्यमा भगस् त्वष्टा पूषार्कः सविता रविः । गभस्तिमान् अजः कालो मृत्युर् धाता प्रभाकरः
॥३४॥पृथिव्य् आपश् च तेजश् च खं वायुश् च परायणम् । सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च
॥३५॥इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः । ब्रह्मा विष्णुश् च रुद्रश् च स्कन्दो वैश्रवणो यमः
॥३६॥वैद्युतो जाठरश् चाग्निर् ऐन्धनस् तेजसां पतिः । धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः
॥३७॥कृतं त्रेता द्वापरश् च कलिः सर्वामराश्रयः । कलाकाष्ठामुहूर्ताश् च क्षपा यामास् तथा क्षणाः
॥३८॥संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः
॥३९॥कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । वरुणः सागरोऽंशश् च जीमूतो जिवनोऽरिहा
॥४०॥भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः । स्रष्टा संवर्तको वह्निः सर्वस्यादिर् अलोलुपः
॥४१॥अनन्तः कपिलो भानुः कामदः सर्वतोमुखः । जयो विशालो वरदः सर्वभूतनिषेवितः
॥४२॥मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः । धन्वन्तरिर् धूमकेतुर् आदिदेवोऽदितेः सुतः
॥४३॥द्वादशात्मा रविर् दक्षः पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
॥४४॥देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः
॥४५॥एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः । नाम्नाम् अष्टशतं रम्यं मया प्रोक्तं द्विजोत्तमाः
॥४६॥सुरगणपितृयक्षसेवितं ह्य् । असुरनिशाकरसिद्धवन्दितम् । वरकनकहुताशनप्रभं । प्रणिपतितोऽस्मि हिताय भास्करम्
॥४७॥सूर्योदये यः सुसमाहितः पठेत् । स पुत्रदारान् धनरत्नसञ्चयान् । लभेत जातिस्मरतां नरः स तु । स्मृतिं च मेधां च स विन्दते पराम्
॥४८॥इमं स्तवं देववरस्य यो नरः । प्रकीर्तयेच् छुद्धमनाः समाहितः । विमुच्यते शोकदवाग्निसागराल् । लभेत कामान् मनसा यथेप्सितान्
॥४९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).