मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १६

3
ब्रह्मपुराणम् · 16

अध्यायः १६

लोमहर्षण उवाच:

भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः । राजाधिदेवः शूरस् तु विदूरथसुतोऽभवत्

॥१॥

राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः । दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः

॥२॥

शमी च दण्डशर्मा च दन्तशत्रुश् च शत्रुजित् । श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः

॥३॥

शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः । स्वयम्भोजः स्वयम्भोजाद् भदिकः सम्बभूव ह

॥४॥

तस्य पुत्रा बभूवुर् हि सर्वे भीमपराक्रमाः । कृतवर्माग्रजस् तेषां शतधन्वा तु मध्यमः

॥५॥

देवान्तश् च नरान्तश् च भिषग्वैतरणश् च यः । सुदान्तश् चातिदान्तश् च निकाश्यः कामदम्भकः

॥६॥

देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः । असमौजाः सुतस् तस्य नासमौजाश् च ताव् उभौ

॥७॥

अजातपुत्राय सुतान् प्रददाव् असमौजसे । सुदंष्ट्रश् च सुचारुश् च कृष्ण इत्य् अन्धकाः स्मृताः

॥८॥

गान्धारी चैव माद्री च क्रोष्टुभार्ये बभूवतुः । गान्धारी जनयाम् आस अनमित्रं महाबलम्

॥९॥

माद्री युधाजितं पुत्रं ततो वै देवमीधुषम् । अनमित्रम् अमित्राणां जेतारम् अपराजितम्

॥१०॥

अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः । प्रसेनश् चाथ सत्राजिच् छत्रुसेनाजिताव् उभौ

॥११॥

प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम् । दिव्यं स्यमन्तकं नाम स सूर्याद् उपलब्धवान्

॥१२॥

तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् । स कदाचिन् निशापाये रथेन रथिनां वरः

॥१३॥

तोयकूलम् अपः स्प्रष्टुम् उपस्थातुं ययौ रविम् । तस्योपतिष्ठतः सूर्यं विवस्वान् अग्रतः स्थितः

॥१४॥

विस्पष्टमूर्तिर् भगवांस् तेजोमण्डलवान् विभुः । अथ राजा विवस्वन्तम् उवाच स्थितम् अग्रतः

॥१५॥

यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते । तेजोमण्डलिनं देवं तथैव पुरतः स्थितम्

॥१६॥

को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै । एतच् छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम्

॥१७॥

स्वकण्ठाद् अवमुच्याथ एकान्ते न्यस्तवान् विभुः । ततो विग्रहवन्तं तं ददर्श नृपतिस् तदा

॥१८॥

प्रीतिमान् अथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् । तम् अभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित्

॥१९॥

लोकान् भासयसे सर्वान् येन त्वं सततं प्रभो । तद् एतन् मणिरत्नं मे भगवन् दातुम् अर्हसि

॥२०॥

ततः स्यमन्तकमणिं दत्तवान् भास्करस् तदा । स तम् आबध्य नगरीं प्रविवेश महीपतिः

॥२१॥

तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह । स्वां पुरीं स विसिष्माय राजा त्व् अन्तःपुरं तथा

॥२२॥

तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् । ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिद् उत्तमम्

॥२३॥

स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने । कालवर्षी च पर्जन्यो न च व्याधिभयं ह्य् अभूत्

॥२४॥

लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके । गोविन्दो न च तं लेभे शक्तोऽपि न जहार सः

॥२५॥

कदाचिन् मृगयां यातः प्रसेनस् तेन भूषितः । स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात्

॥२६॥

अथ सिंहं प्रधावन्तम् ऋक्षराजो महाबलः । निहत्य मणिरत्नं तद् आदाय प्राविशद् गुहाम्

॥२७॥

ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् । प्रार्थनां तां मणेर् बद्ध्वा सर्व एव शशङ्किरे

॥२८॥

स शङ्क्यमानो धर्मात्मा अकारी तस्य कर्मणः । आहरिष्ये मणिम् इति प्रतिज्ञाय वनं ययौ

॥२९॥

यत्र प्रसेनो मृगयां व्यचरत् तत्र चाप्य् अथ । प्रसेनस्य पदं गृह्य पुरुषैर् आप्तकारिभिः

॥३०॥

ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिम् उत्तमम् । अन्वेषयन् परिश्रान्तः स ददर्श महामनाः

॥३१॥

साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम् । अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः

॥३२॥

ऋक्षेण निहतो दृष्टः पदैर् ऋक्षस् तु सूचितः । पदैस् तैर् अन्वियायाथ गुहाम् ऋक्षस्य माधवः

॥३३॥

स हि ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम् । धात्र्या कुमारम् आदाय सुतं जाम्बवतो द्विजाः

॥३४॥

क्रीडयन्त्या च मणिना मा रोदीर् इत्य् अथेरिताम्

॥३५॥

धात्र्य् उवाच:

सिंहः प्रसेनम् अवधीत् सिंहो जाम्बवता हतः । सुकुमारक मा रोदीस् तव ह्य् एष स्यमन्तकः

॥३६॥

व्यक्तितस् तस्य शब्दस्य तूर्णम् एव बिलं ययौ । प्रविश्य तत्र भगवांस् तद् ऋक्षबिलम् अञ्जसा

॥३७॥

स्थापयित्वा बिलद्वारे यदूंल् लाङ्गलिना सह । शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः

॥३८॥

युयुधे वासुदेवस् तु बिले जाम्बवता सह । बाहुभ्याम् एव गोविन्दो दिवसान् एकविंशतिम्

॥३९॥

प्रविष्टेऽथ बिले कृष्णे बलदेवपुरःसराः । पुरीं द्वारवतीम् एत्य हतं कृष्णं न्यवेदयन्

॥४०॥

वासुदेवोऽपि निर्जित्य जाम्बवन्तं महाबलम् । लेभे जाम्बवतीं कन्याम् ऋक्षराजस्य सम्मताम्

॥४१॥

मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये । अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात्

॥४२॥

उपायाद् द्वारकां कृष्णः स विनीतैः पुरःसरैः । एवं स मणिम् आहृत्य विशोध्यात्मानम् अच्युतः

॥४३॥

ददौ सत्राजिते तं वै सर्वसात्वतसंसदि । एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना

॥४४॥

आत्मा विशोधितः पापाद् विनिर्जित्य स्यमन्तकम् । सत्राजितो दश त्व् आसन् भार्यास् तासां शतं सुताः

॥४५॥

ख्यातिमन्तस् त्रयस् तेषां भगङ्कारस् तु पूर्वजः । वीरो वातपतिश् चैव वसुमेधस् तथैव च

॥४६॥

कुमार्यश् चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः । सत्यभामोत्तमा तासां व्रतिनी च दृढव्रता

॥४७॥

तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ । सभाक्षो भङ्गकारिस् तु नावेयश् च नरोत्तमौ

॥४८॥

जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा । माद्र्याः पुत्रोऽथ जज्ञेऽथ वृष्णिपुत्रो युधाजितः

॥४९॥

जज्ञाते तनयौ वृष्णेः श्वफल्कश् चित्रकस् तथा । श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत

॥५०॥

गान्दिनीं नाम तस्याश् च गाः सदा प्रददौ पिता । तस्यां जज्ञे महाबाहुः श्रुतवान् अतिथिप्रियः

॥५१॥

अक्रूरोऽथ महाभागो जज्ञे विपुलदक्षिणः । उपमद्गुस् तथा मद्गुर् मुदरश् चारिमर्दनः

॥५२॥

आरिक्षेपस् तथोपेक्षः शत्रुहा चारिमेजयः । धर्मभृच् चापि धर्मा च गृध्रभोजान्धकस् तथा

॥५३॥

आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना । विश्रुताश्वस्य महिषी कन्या चास्य वसुन्धरा

॥५४॥

रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा । अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ

॥५५॥

वसुदेवश् चोपदेवश् च जज्ञाते देववर्चसौ । चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च

॥५६॥

अश्वग्रीवोऽश्वबाहुश् च सुपार्श्वकगवेषणौ । अरिष्टनेमिश् च सुता धर्मो धर्मभृद् एव च

॥५७॥

सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ । इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम्

॥५८॥

वेद मिथ्याभिशापास् तं न स्पृशन्ति कदाचन

॥५९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).