मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ६७

3
ब्रह्मपुराणम् · 67

अध्यायः ६७

मुनय ऊचुः:

एकैकस्यास् तु यात्रायाः फलं ब्रूहि पृथक् पृथक् । यत् प्राप्नोति नरः कृत्वा नारी वा तत्र संयता

॥१॥

ब्रह्मोवाच:

प्रतियात्राफलं विप्राः शृणुध्वं गदतो मम । यत् प्राप्नोति नरः कृत्वा तस्मिन् क्षेत्रे सुसंयतः

॥२॥

गुडिवायां तथोत्थाने फाल्गुन्यां विषुवे तथा । यात्रां कृत्वा विधानेन दृष्ट्वा कृष्णं प्रणम्य च

॥३॥

सङ्कर्षणं सुभद्रां च लभेत् सर्वत्र वै फलम् । नरो गच्छेद् विष्णुलोके यावद् इन्द्राश् चतुर्दश

॥४॥

यावद् यात्रां ज्येष्ठमासे करोति विधिवन् नरः । तावत् कल्पं विष्णुलोके सुखं भुङ्क्ते न संशयः

॥५॥

तस्मिन् क्षेत्रवरे पुण्ये रम्ये श्रीपुरुषोत्तमे । भुक्तिमुक्तिप्रदे नॄणां सर्वसत्त्वसुखावहे

॥६॥

ज्येष्ठे यात्रां नरः कृत्वा नारी वा संयतेन्द्रियः । यथोक्तेन विधानेन दश द्वे च समाहितः

॥७॥

प्रतिष्ठां कुरुते यस् तु शाठ्यदम्भविवर्जितः । स भुक्त्वा विविधान् भोगान् मोक्षं चान्ते लभेद् ध्रुवम्

॥८॥

मुनय ऊचुः:

श्रोतुम् इच्छामहे देव प्रतिष्ठां वदतस् तव । विधानं चार्चनं दानं फलं तत्र जगत्पतेः

॥९॥

ब्रह्मोवाच:

शृणुध्वं मुनिशार्दूलाः प्रतिष्ठां विधिचोदिताम् । यां कृत्वा तु नरो भक्त्या नारी वा लभते फलम्

॥१०॥

यात्रा द्वादश सम्पूर्णा यदा स्यात् तु द्विजोत्तमाः । तदा कुर्वीत विधिवत् प्रतिष्ठां पापनाशिनीम्

॥११॥

ज्येष्ठे मासि सिते पक्षे त्व् एकादश्यां समाहितः । गत्वा जलाशयं पुण्यम् आचम्य प्रयतः शुचिः

॥१२॥

आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा । ततः स्नानं प्रकुर्वीत विधिवत् सुसमाहितः

॥१३॥

यस्य यो विधिर् उद्दिष्ट ऋषिभिः स्नानकर्मणि । तेनैव तु विधानेन स्नानं तस्य विधीयते

॥१४॥

स्नात्वा सम्यग् विधानेन ततो देवान् ऋषीन् पितॄन् । सन्तर्पयेत् तथान्यांश् च नामगोत्रविधानवित्

॥१५॥

उत्तीर्य वाससी धौते निर्मले परिधाय वै । उपस्पृश्य विधानेन भास्कराभिमुखस् ततः

॥१६॥

गायत्रीं पावनीं देवीं मनसा वेदमातरम् । सर्वपापहरां पुण्यां जपेद् अष्टोत्तरं शतम्

॥१७॥

पुण्यांश् च सौरमन्त्रांश् च श्रद्धया सुसमाहितः । त्रिः प्रदक्षिणम् आवृत्य भास्करं प्रणमेत् ततः

॥१८॥

वेदोक्तं त्रिषु वर्णेषु स्नानं जाप्यम् उदाहृतम् । स्त्रीशूद्रयोः स्नानजाप्यं वेदोक्तविधिवर्जितम्

॥१९॥

ततो गच्छेद् गृहं मौनी पूजयेत् पुरुषोत्तमम् । प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि

॥२०॥

घृतेन स्नापयेद् देवं क्षीरेण तदनन्तरम् । मधुगन्धोदकेनैव तीर्थचन्दनवारिणा

॥२१॥

ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् । चन्दनागरुकर्पूरैः कुङ्कुमेन विलेपयेत्

॥२२॥

पूजयेत् परया भक्त्या पद्मैश् च पुरुषोत्तमम् । अन्यैश् च वैष्णवैः पुष्पैर् अर्चयेन् मल्लिकादिभिः

॥२३॥

सम्पूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् । धूपं चागुरुसंयुक्तं दहेद् देवस्य चाग्रतः

॥२४॥

गुग्गुलं च मुनिश्रेष्ठा दहेद् गन्धसमन्वितम् । दीपं प्रज्वालयेद् भक्त्या यथाशक्त्या घृतेन वै

॥२५॥

अन्यांश् च दीपकान् दद्याद् द्वादशैव समाहितः । घृतेन च मुनिश्रेष्ठास् तिलतैलेन वा पुनः

॥२६॥

नैवेद्ये पायसापूपशष्कुलीवटकं तथा । मोदकं फाणितं वाल्पं फलानि च निवेदयेत्

॥२७॥

एवं पञ्चोपचारेण सम्पूज्य पुरुषोत्तमम् । नमः पुरुषोत्तमायेति जपेद् अष्टोत्तरं शतम्

॥२८॥

ततः प्रसादयेद् देवं भक्त्या तं पुरुषोत्तमम् । नमस् ते सर्वलोकेश भक्तानाम् अभयप्रद

॥२९॥

संसारसागरे मग्नं त्राहि मां पुरुषोत्तम । यास् ते मया कृता यात्रा द्वादशैव जगत्पते

॥३०॥

प्रसादात् तव गोविन्द सम्पूर्णास् ता भवन्तु मे । एवं प्रसाद्य तं देवं दण्डवत् प्रणिपत्य च

॥३१॥

ततोऽर्चयेद् गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः । नानयोर् अन्तरं यस्माद् विद्यते मुनिसत्तमाः

॥३२॥

देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः । नानापुष्पैर् मुनिश्रेष्ठा विचित्रं पुष्पमण्डपम्

॥३३॥

कृत्वावधारणं पश्चाज् जागरं कारयेन् निशि । कथां च वासुदेवस्य गीतिकां चापि कारयेत्

॥३४॥

ध्यायन् पठन् स्तुवन् देवं प्रणयेद् रजनीं बुधः । ततः प्रभाते विमले द्वादश्यां द्वादशैव तु

॥३५॥

निमन्त्रयेद् व्रतस्नातान् ब्राह्मणान् वेदपारगान् । इतिहासपुराणज्ञाञ् श्रोत्रियान् संयतेन्द्रियान्

॥३६॥

स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः । स्नापयेत् पूर्ववत् तत्र पूजयेत् पुरुषोत्तमम्

॥३७॥

गन्धैः पुष्पैर् उपहारैर् नैवेद्यैर् दीपकैस् तथा । उपचारैर् बहुविधैः प्रणिपातैः प्रदक्षिणैः

॥३८॥

जाप्यैः स्तुतिनमस्कारैर् गीतवाद्यैर् मनोहरैः । सम्पूज्यैवं जगन्नाथं ब्राह्मणान् पूजयेत् ततः

॥३९॥

द्वादशैव तु गास् तेभ्यो दत्त्वा कनकम् एव च । छत्त्रोपानद्युगं चैव श्रद्धाभक्तिसमन्वितः

॥४०॥

भक्त्या तु सधनं तेभ्यो दद्याद् वस्त्रादिकं द्विजाः । सद्भावेन तु गोविन्दस् तोष्यते पूजितो यतः

॥४१॥

आचार्याय ततो दद्याद् गोवस्त्रं कनकं तथा । छत्त्रोपानद्युगं चान्यत् कांस्यपात्रं च भक्तितः

॥४२॥

ततस् तान् भोजयेद् विप्रान् भोज्यं पायसपूर्वकम् । पक्वान्नं भक्ष्यभोज्यं च गुडसर्पिःसमन्वितम्

॥४३॥

ततस् तान् अन्नतृप्तांश् च ब्राह्मणान् स्वस्थमानसान् । द्वादशैवोदकुम्भांश् च दद्यात् तेभ्यः समोदकान्

॥४४॥

दक्षिणां च यथाशक्त्या दद्यात् तेभ्यो विमत्सरः । कुम्भं च दक्षिणां चैव आचार्याय निवेदयेत्

॥४५॥

एवं सम्पूज्य तान् विप्रान् गुरुं ज्ञानप्रदायकम् । पूजयेत् परया भक्त्या विष्णुतुल्यं द्विजोत्तमाः

॥४६॥

सुवर्णवस्त्रगोधान्यैर् द्रव्यैश् चान्यैर् वरैर् बुधः । सम्पूज्य तं नमस्कृत्य इमं मन्त्रम् उदीरयेत्

॥४७॥

सर्वव्यापी जगन्नाथः शङ्खचक्रगदाधरः । अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः

॥४८॥

इत्य् उच्चार्य ततो विप्रांस् त्रिः कृत्वा च प्रदक्षिणाम् । प्रणम्य शिरसा भक्त्या आचार्यं तु विसर्जयेत्

॥४९॥

ततस् तान् ब्राह्मणान् भक्त्या चासीमान्तम् अनुव्रजेत् । अनुव्रज्य तु तान् सर्वान् नमस्कृत्य निवर्तयेत्

॥५०॥

बान्धवैः स्वजनैर् युक्तस् ततो भुञ्जीत वाग्यतः । अन्यैश् चोपासकैर् दीनैर् भिक्षुकैश् चान्नकाङ्क्षिभिः

॥५१॥

एवं कृत्वा नरः सम्यङ् नारी वा लभते फलम् । अश्वमेधसहस्राणां राजसूयशतस्य च

॥५२॥

अतीतं शतम् आदाय पुरुषाणां नरोत्तमाः । भविष्यं च शतं विप्राः स्वर्गत्या दिव्यरूपधृक्

॥५३॥

सर्वलक्षणसम्पन्नः सर्वालङ्कारभूषितः । सर्वकामसमृद्धात्मा देववद् विगतज्वरः

॥५४॥

रूपयौवनसम्पन्नो गुणैः सर्वैर् अलङ्कृतः । स्तूयमानोऽप्सरोभिश् च गन्धर्वैः समलङ्कृतः

॥५५॥

विमानेनार्कवर्णेन कामगेन स्थिरेण च । पताकाध्वजयुक्तेन सर्वरत्नैर् अलङ्कृतः

॥५६॥

उद्योतयन् दिशः सर्वा आकाशे विगतक्लमः । युवा महाबलो धीमान् विष्णुलोकं स गच्छति

॥५७॥

तत्र कल्पशतं यावद् भुङ्क्ते भोगान् यथेप्सितान् । सिद्धाप्सरोभिर् गन्धर्वैः सुरविद्याधरोरगैः

॥५८॥

स्तूयमानो मुनिवरैस् तिष्ठते विगतज्वरः । यथा देवो जगन्नाथः शङ्खचक्रगदाधरः

॥५९॥

तथासौ मुदितो विप्राः कृत्वा रूपं चतुर्भुजम् । भुक्त्वा तत्र वरान् भोगान् क्रीडां कृत्वा सुरैः सह

॥६०॥

तदन्ते ब्रह्मसदनम् आयाति सर्वकामदम् । सिद्धविद्याधरैश् चापि शोभितं सुरकिन्नरैः

॥६१॥

कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः । तस्माद् आयाति विप्रेन्द्राः सर्वकामफलप्रदम्

॥६२॥

रुद्रलोकं सुरगणैः सेवितं सुखमोक्षदम् । अनेकशतसाहस्रैर् विमानैः समलङ्कृतम्

॥६३॥

सिद्धविद्याधरैर् यक्षैर् भूषितं दैत्यदानवैः । अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः

॥६४॥

तदन्ते याति गोलोकं सर्वभोगसमन्वितम् । सुरसिद्धाप्सरोभिश् च शोभितं सुमनोहरम्

॥६५॥

तत्र सप्ततिकल्पांस् तु भुक्त्वा भोगम् अनुत्तमम् । दुर्लभं त्रिषु लोकेषु स्वस्थचित्तो यथामरः

॥६६॥

तस्माद् आगच्छते लोकं प्राजापत्यम् अनुत्तमम् । गन्धर्वाप्सरसैः सिद्धैर् मुनिविद्याधरैर् वृतः

॥६७॥

षष्टिकल्पान् सुखं तत्र भुक्त्वा नानाविधं मुदा । तदन्ते शक्रभवनं नानाश्चर्यसमन्वितम्

॥६८॥

गन्धर्वैः किन्नरैः सिद्धैः सुरविद्याधरोरगैः । गुह्यकाप्सरसैः साध्यैर् वृतैश् चान्यैः सुरोत्तमैः

॥६९॥

आगत्य तत्र पञ्चाशत् कल्पान् भुक्त्वा सुखं नरः । सुरलोकं ततो गत्वा विमानैः समलङ्कृतः

॥७०॥

चत्वारिंशत् तु कल्पांस् तु भुक्त्वा भोगान् सुदुर्लभान् । आगच्छते ततो लोकं नक्षत्राख्यं सुदुर्लभम्

॥७१॥

ततो भोगान् वरान् भुङ्क्ते त्रिंशत् कल्पान् यथेप्सितान् । तस्माद् आगच्छते लोकं शशाङ्कस्य द्विजोत्तमाः

॥७२॥

यत्रासौ तिष्ठते सोमः सर्वैर् देवैर् अलङ्कृतः । तत्र विंशतिकल्पांस् तु भुक्त्वा भोगं सुदुर्लभम्

॥७३॥

आदित्यस्य ततो लोकम् आयाति सुरपूजितम् । नानाश्चर्यमयं पुण्यं गन्धर्वाप्सरःसेवितम्

॥७४॥

तत्र भुक्त्वा शुभान् भोगान् दश कल्पान् द्विजोत्तमाः । तस्माद् आयाति भुवनं गन्धर्वाणां सुदुर्लभम्

॥७५॥

तत्र भोगान् समस्तांश् च कल्पम् एकं यथासुखम् । भुक्त्वा चायाति मेदिन्यां राजा भवति धार्मिकः

॥७६॥

चक्रवर्ती महावीर्यो गुणैः सर्वैर् अलङ्कृतः । कृत्वा राज्यं स्वधर्मेण यज्ञैर् इष्ट्वा सुदक्षिणैः

॥७७॥

तदन्ते योगिनां लोकं गत्वा मोक्षप्रदं शिवम् । तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम्

॥७८॥

तस्माद् आगच्छते चात्र जायते योगिनां कुले । प्रवरे वैष्णवे विप्रा दुर्लभे साधुसम्मते

॥७९॥

चतुर्वेदी विप्रवरो यज्ञैर् इष्ट्वाप्तदक्षिणैः । वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात्

॥८०॥

एवं यात्राफलं विप्रा मया सम्यग् उदाहृतम् । भुक्तिमुक्तिप्रदं नॄणां किम् अन्यच् छ्रोतुम् इच्छथ

॥८१॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).