अध्यायः ४६
मुनय ऊचुः:
श्रोतुम् इच्छामहे देव कथाशेषं महीपतेः । तस्मिन् क्षेत्रवरे गत्वा किं चकार नराधिपः
॥१॥ब्रह्मोवाच:
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । क्षेत्रसन्दर्शनं चैव कृत्यं तस्य च भूपतेः
॥२॥गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते । ददर्श रमणीयानि स्थानानि सरितस् तथा
॥३॥नदी तत्र महापुण्या विन्ध्यपादविनिर्गता । स्वित्त्रोपलेति विख्याता सर्वपापहरा शिवा
॥४॥गङ्गातुल्या महास्रोता दक्षिणार्णवगामिनी । महानदीति नाम्ना सा पुण्यतोया सरिद्वरा
॥५॥दक्षिणस्योदधेर् गर्भं शोभिता । उभयोस् तटयोर् यस्या ग्रामाश् च नगराणि च
॥६॥दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः । हृष्टपुष्टजनाकीर्णा वस्त्रालङ्कारभूषिताः
॥७॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास् तत्र पृथक् पृथक् । स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः
॥८॥ताम्बूलपूर्णवदना मालादामविभूषिताः । वेदपूर्णमुखा विप्राः सषडङ्गपदक्रमाः
॥९॥अग्निहोत्ररताः केचित् केचिद् औपासनक्रियाः । सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः
॥१०॥चत्वारे राजमार्गेषु वनेषूपवनेषु च । सभामण्डलहर्म्येषु देवतायतनेषु च
॥११॥इतिहासपुराणानि वेदाः साङ्गाः सुलक्षणाः । काव्यशास्त्रकथास् तत्र श्रूयन्ते च महाजनैः
॥१२॥स्त्रियस् तद्देशवासिन्यो रूपयौवनगर्विताः । सम्पूर्णलक्षणोपेता विस्तीर्णश्रोणिमण्डलाः
॥१३॥सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः । पीनोन्नतस्तनाः सर्वाः समृद्ध्या चारुदर्शनाः
॥१४॥सौवर्णवलयाक्रान्ता दिव्यैर् वस्त्रैर् अलङ्कृताः । कदलीगर्भसङ्काशाः पद्मकिञ्जल्कसप्रभाः
॥१५॥बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः । सुमुखाश् चारुकेशाश् च हावभावावनामिताः
॥१६॥काश्चित् पद्मपलाशाक्ष्यः काश्चिद् इन्दीवरेक्षणाः । विद्युद्विस्पष्टदशनास् तन्वङ्ग्यश् च तथापराः
॥१७॥कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः । ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः
॥१८॥कुण्डलै रत्नसंयुक्तैः कर्णपूरैर् मनोहरैः । देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः
॥१९॥दिव्यगीतवरैर् धन्यैः क्रीडमाना वराङ्गनाः । वीणावेणुमृदङ्गैश् च पणवैश् चैव गोमुखैः
॥२०॥शङ्खदुन्दुभिनिर्घोषैर् नानावाद्यैर् मनोहरैः । क्रीडन्त्यस् ताः सदा हृष्टा विलासिन्यः परस्परम्
॥२१॥एवमादि तथानेकगीतवाद्यविशारदाः । दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः
॥२२॥भिक्षुवैखानसैः सिद्धैः स्नातकैर् ब्रह्मचारिभिः । मन्त्रसिद्धैस् तपःसिद्धैर् यज्ञसिद्धैर् निषेवितम्
॥२३॥इत्य् एवं ददृशे राजा क्षेत्रं परमशोभनम् । अत्रैवाराधयिष्यामि भगवन्तं सनातनम्
॥२४॥जगद्गुरुं परं देवं परं पारं परं पदम् । सर्वेश्वरेश्वरं विष्णुम् अनन्तम् अपराजितम्
॥२५॥इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम् । कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति
॥२६॥प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता । न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा
॥२७॥तथा यत्नं करिष्यामि यथा देवो जगत्पतिः । प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः
॥२८॥यज्ञैर् दानैस् तपोभिश् च होमैर् ध्यानैस् तथार्चनैः । उपवासैश् च विधिवच् चरेयं व्रतम् उत्तमम्
॥२९॥अनन्यमनसा चैव तन्मना नान्यमानसः । विष्ण्वायतनविन्यासे प्रारम्भं च करोम्य् अहम्
॥३०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).