मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ४

3
ब्रह्मपुराणम् · 4

अध्यायः ४

लोमहर्षण उवाच:

अभिषिच्याधिराजेन्द्रं पृथुं वैण्यं पितामहः । ततः क्रमेण राज्यानि व्यादेष्टुम् उपचक्रमे

॥१॥

द्विजानां वीरुधां चैव नक्षत्रग्रहयोस् तथा । यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत्

॥२॥

अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् । आदित्यानां तथा विष्णुं वसूनाम् अथ पावकम्

॥३॥

प्रजापतीनां दक्षं तु मरुताम् अथ वासवम् । दैत्यानां दानवानां वै प्रह्रादम् अमितौजसम्

॥४॥

वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् । यक्षाणां राक्षसानां च पार्थिवानां तथैव च

॥५॥

सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् । शैलानां हिमवन्तं च नदीनाम् अथ सागरम्

॥६॥

गन्धर्वाणाम् अधिपतिं चक्रे चित्ररथं प्रभुम् । नागानां वासुकिं चक्रे सर्पाणाम् अथ तक्षकम्

॥७॥

वारणानां तु राजानम् ऐरावतम् अथादिशत् । उच्चैःश्रवसम् अश्वानां गरुडं चैव पक्षिणाम्

॥८॥

मृगाणाम् अथ शार्दूलं गोवृषं तु गवां पतिम् । वनस्पतीनां राजानं प्लक्षम् एवाभ्यषेचयत्

॥९॥

एवं विभज्य राज्यानि क्रमेणैव पितामहः । दिशां पालान् अथ ततः स्थापयाम् आस स प्रभुः

॥१०॥

पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः । दिशः पालं सुधन्वानं राजानं सोऽभ्यषेचयत्

॥११॥

दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत्

॥१२॥

पश्चिमस्यां दिशि तथा रजसः पुत्रम् अच्युतम् । केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत्

॥१३॥

तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत्

॥१४॥

तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशम् अद्यापि धर्मेण प्रतिपाल्यते

॥१५॥

राजसूयाभिषिक्तस् तु पृथुर् एतैर् नराधिपैः । वेददृष्टेन विधिना राजा राज्ये नराधिपः

॥१६॥

ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि । वैवस्वताय मनवे पृथिव्यां राज्यम् आदिशत्

॥१७॥

तस्य विस्तरम् आख्यास्ये मनोर् वैवस्वतस्य ह । भवतां चानुकूल्याय यदि श्रोतुम् इहेच्छथ । महद् एतद् अधिष्ठानं पुराणे तद् अधिष्ठितम्

॥१८॥

मुनय ऊचुः:

विस्तरेण पृथोर् जन्म लोमहर्षण कीर्तय । यथा महात्मना तेन दुग्धा वेयं वसुन्धरा

॥१९॥

यथा वापि नृभिर् दुग्धा यथा देवैर् महर्षिभिः । यथा दैत्यैश् च नागैश् च यथा यक्षैर् यथा द्रुमैः

॥२०॥

यथा शैलैः पिशाचैश् च गन्धर्वैश् च द्विजोत्तमैः । राक्षसैश् च महासत्त्वैर् यथा दुग्धा वसुन्धरा

॥२१॥

तेषां पात्रविशेषांश् च वक्तुम् अर्हसि सुव्रत । वत्सक्षीरविशेषांश् च दोग्धारं चानुपूर्वशः

॥२२॥

यस्माच् च कारणात् पाणिर् वेणस्य मथितः पुरा । क्रुद्धैर् महर्षिभिस् तात कारणं तच् च कीर्तय

॥२३॥

लोमहर्षण उवाच:

शृणुध्वं कीर्तयिष्यामि पृथोर् वैण्यस्य विस्तरम् । एकाग्राः प्रयताश् चैव पुण्यार्थं वै द्विजर्षभाः

॥२४॥

नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य च । कीर्तयेयम् इदं विप्राः कृतघ्नायाहिताय च

॥२५॥

स्वर्ग्यं यशस्यम् आयुष्यं धन्यं वेदैश् च सम्मितम् । रहस्यम् ऋषिभिः प्रोक्तं शृणुध्वं वै यथातथम्

॥२६॥

यश् चेमं कीर्तयेन् नित्यं पृथोर् वैण्यस्य विस्तरम् । ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम्

॥२७॥

आसीद् धर्मस्य सङ्गोप्ता पूर्वम् अत्रिसमः प्रभुः । अत्रिवंशे समुत्पन्नस् त्व् अङ्गो नाम प्रजापतिः

॥२८॥

तस्य पुत्रोऽभवद् वेणो नात्यर्थं धर्मकोविदः । जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः

॥२९॥

स मातामहदोषेण तेन कालात्मजात्मजः । स्वधर्मं पृष्ठतः कृत्वा कामलोभेष्व् अवर्तत

॥३०॥

मर्यादां भेदयाम् आस धर्मोपेतां स पार्थिवः । वेदधर्मान् अतिक्रम्य सोऽधर्मनिरतोऽभवत्

॥३१॥

निःस्वाध्यायवषट्काराः प्रजास् तस्मिन् प्रजापतौ । प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः

॥३२॥

न यष्टव्यं न होतव्यम् इति तस्य प्रजापतेः । आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते

॥३३॥

अहम् इज्यश् च यष्टा च यज्ञश् चेति भृगूद्वह । मयि यज्ञो विधातव्यो मयि होतव्यम् इत्य् अपि

॥३४॥

तम् अतिक्रान्तमर्यादम् आददानम् असाम्प्रतम् । ऊचुर् महर्षयः सर्वे मरीचिप्रमुखास् तदा

॥३५॥

वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून् । अधर्मं कुरु मा वेण एष धर्मः सनातनः

॥३६॥

निधनेऽत्रेः प्रसूतस् त्वं प्रजापतिर् असंशयम् । प्रजाश् च पालयिष्येऽहम् इतीह समयः कृतः

॥३७॥

तांस् तथा ब्रुवतः सर्वान् महर्षीन् अब्रवीत् तदा । वेणः प्रहस्य दुर्बुद्धिर् इमम् अर्थम् अनर्थवित्

॥३८॥

वेण उवाच:

स्रष्टा धर्मस्य कश् चान्यः श्रोतव्यं कस्य वा मया । श्रुतवीर्यतपःसत्यैर् मया वा कः समो भुवि

॥३९॥

प्रभवं सर्वभूतानां धर्माणां च विशेषतः । सम्मूढा न विदुर् नूनं भवन्तो मां विचेतसः

॥४०॥

इच्छन् दहेयं पृथिवीं प्लावयेयं जलैस् तथा । द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा

॥४१॥

यदा न शक्यते मोहाद् अवलेपाच् च पार्थिवः । अपनेतुं तदा वेणस् ततः क्रुद्धा महर्षयः

॥४२॥

तं निगृह्य महात्मानो विस्फुरन्तं महाबलम् । ततोऽस्य सव्यम् ऊरुं ते ममन्थुर् जातमन्यवः

॥४३॥

तस्मिन् निमथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान् । ह्रस्वोऽतिमात्रः पुरुषः कृष्णश् चेति बभूव ह

॥४४॥

स भीतः प्राञ्जलिर् भूत्वा तस्थिवान् द्विजसत्तमाः । तम् अत्रिर् विह्वलं दृष्ट्वा निषीदेत्य् अब्रवीत् तदा

॥४५॥

निषादवंशकर्तासौ बभूव वदतां वराः । धीवरान् असृजच् चापि वेणकल्मषसम्भवान्

॥४६॥

ये चान्ये विन्ध्यनिलयास् तथा पर्वतसंश्रयाः । अधर्मरुचयो विप्रास् ते तु वै वेणकल्मषाः

॥४७॥

ततः पुनर् महात्मानः पाणिं वेणस्य दक्षिणम् । अरणीम् इव संरब्धा ममन्थुर् जातमन्यवः

॥४८॥

पृथुस् तस्मात् समुत्पन्नः कराज् ज्वलनसन्निभः । दीप्यमानः स्ववपुषा साक्षाद् अग्निर् इव ज्वलन्

॥४९॥

अथ सोऽजगवं नाम धनुर् गृह्य महारवम् । शरांश् च दिव्यान् रक्षार्थं कवचं च महाप्रभम्

॥५०॥

तस्मिञ् जातेऽथ भूतानि सम्प्रहृष्टानि सर्वशः । समापेतुर् महाभागा वेणस् तु त्रिदिवं ययौ

॥५१॥

समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना । त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात् तदा

॥५२॥

तं समुद्राश् च नद्यश् च रत्नान्य् आदाय सर्वशः । तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे

॥५३॥

पितामहश् च भगवान् देवैर् आङ्गिरसैः सह । स्थावराणि च भूतानि जङ्गमानि च सर्वशः

॥५४॥

समागम्य तदा वैण्यम् अभ्यषिञ्चन् नराधिपम् । महता राजराजेन प्रजास् तेनानुरञ्जिताः

॥५५॥

सोऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः । आधिराज्ये तदा राज्ञां पृथुर् वैण्यः प्रतापवान्

॥५६॥

पित्रापरञ्जितास् तस्य प्रजास् तेनानुरञ्जिताः । अनुरागात् ततस् तस्य नाम राजाभ्यजायत

॥५७॥

आपस् तस्तम्भिरे तस्य समुद्रम् अभियास्यतः । पर्वताश् च ददुर् मार्गं ध्वजभङ्गश् च नाभवत्

॥५८॥

अकृष्टपच्या पृथिवी सिध्यन्त्य् अन्नानि चिन्तनात् । सर्वकामदुघा गावः पुटके पुटके मधु

॥५९॥

एतस्मिन्न् एव काले तु यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः

॥६०॥

तस्मिन्न् एव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः

॥६१॥

ताव् ऊचुर् ऋषयः सर्वे स्तूयताम् एष पार्थिवः । कर्मैतद् अनुरूपं वां पात्रं चायं नराधिपः

॥६२॥

ताव् ऊचतुस् तदा सर्वांस् तान् ऋषीन् सूतमागधौ । आवां देवान् ऋषींश् चैव प्रीणयावः स्वकर्मभिः

॥६३॥

न चास्य विद्मो वै कर्म नाम वा लक्षणं यशः । स्तोत्रं येनास्य कुर्याव राज्ञस् तेजस्विनो द्विजाः

॥६४॥

ऋषिभिस् तौ नियुक्तौ तु भविष्यैः स्तूयताम् इति । यानि कर्माणि कृतवान् पृथुः पश्चान् महाबलः

॥६५॥

ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः । आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः

॥६६॥

तयोः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः । अनूपदेशं सूताय मगधं मागधाय च

॥६७॥

तं दृष्ट्वा परमप्रीताः प्रजाः प्रोचुर् मनीषिणः । वृत्तीनाम् एष वो दाता भविष्यति नराधिपः

॥६८॥

ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः । त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात् तदा

॥६९॥

सोऽभिद्रुतः प्रजाभिस् तु प्रजाहितचिकीर्षया । धनुर् गृह्य पृषत्कांश् च पृथिवीम् आद्रवद् बली

॥७०॥

ततो वैण्यभयत्रस्ता गौर् भूत्वा प्राद्रवन् मही । तां पृथुर् धनुर् आदाय द्रवन्तीम् अन्वधावत

॥७१॥

सा लोकान् ब्रह्मलोकादीन् गत्वा वैण्यभयात् तदा । प्रददर्शाग्रतो वैण्यं प्रगृहीतशरासनम्

॥७२॥

ज्वलद्भिर् निशितैर् बाणैर् दीप्ततेजसम् अन्ततः । महायोगं महात्मानं दुर्धर्षम् अमरैर् अपि

॥७३॥

अलभन्ती तु सा त्राणं वैण्यम् एवान्वपद्यत । कृताञ्जलिपुटा भूत्वा पूज्या लोकैस् त्रिभिस् तदा

॥७४॥

उवाच वैण्यं नाधर्मं स्त्रीवधे परिपश्यसि । कथं धारयिता चासि प्रजा राजन् विना मया

॥७५॥

मयि लोकाः स्थिता राजन् मयेदं धार्यते जगत् । मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत्

॥७६॥

न माम् अर्हसि हन्तुं वै श्रेयश् चेत् त्वं चिकीर्षसि । प्रजानां पृथिवीपाल शृणु चेदं वचो मम

॥७७॥

उपायतः समारब्धाः सर्वे सिध्यन्त्य् उपक्रमाः । उपायं पश्य येन त्वं धारयेथाः प्रजाम् इमाम्

॥७८॥

हत्वापि मां न शक्तस् त्वं प्रजानां पोषणे नृप । अनुकूला भविष्यामि यच्छ कोपं महामते

॥७९॥

अवध्यां च स्त्रियं प्राहुस् तिर्यग्योनिगतेष्व् अपि । यद्य् एवं पृथिवीपाल न धर्मं त्यक्तुम् अर्हसि

॥८०॥

एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः । कोपं निगृह्य धर्मात्मा वसुधाम् इदम् अब्रवीत्

॥८१॥

पृथुर् उवाच:

एकस्यार्थे तु यो हन्याद् आत्मनो वा परस्य वा । बहून् वा प्राणिनोऽनन्तं भवेत् तस्येह पातकम्

॥८२॥

सुखम् एधन्ति बहवो यस्मिंस् तु निहतेऽशुभे । तस्मिन् हते नास्ति भद्रे पातकं चोपपातकम्

॥८३॥

सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे । यदि मे वचनान् नाद्य करिष्यसि जगद्धितम्

॥८४॥

त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् । आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम्

॥८५॥

सा त्वं शासनम् आस्थाय मम धर्मभृतां वरे । सञ्जीवय प्रजाः सर्वाः समर्था ह्य् असि धारणे

॥८६॥

दुहितृत्वं च मे गच्छ तत एनम् अहं शरम् । नियच्छेयं त्वद्वधार्थम् उद्यन्तं घोरदर्शनम्

॥८७॥

वसुधोवाच:

सर्वम् एतद् अहं वीर विधास्यामि न संशयः । वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला

॥८८॥

समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर । यथा विस्यन्दमानं मे क्षीरं सर्वत्र भावयेत्

॥८९॥

लोमहर्षण उवाच:

तत उत्सारयाम् आस शैलाञ् शतसहस्रशः । धनुष्कोट्या तदा वैण्यस् तेन शैला विवर्धिताः

॥९०॥

नहि पूर्वविसर्गे वै विषमे पृथिवीतले । संविभागः पुराणां वा ग्रामाणां वाभवत् तदा

॥९१॥

न सस्यानि न गोरक्ष्यं न कृषिर् न वणिक्पथः । नैव सत्यानृतं चासीन् न लोभो न च मत्सरः

॥९२॥

वैवस्वतेऽन्तरे तस्मिन् साम्प्रतं समुपस्थिते । वैण्यात् प्रभृति वै विप्राः सर्वस्यैतस्य सम्भवः

॥९३॥

यत्र यत्र समं त्व् अस्या भूमेर् आसीत् तदा द्विजाः । तत्र तत्र प्रजाः सर्वा निवासं समरोचयन्

॥९४॥

आहारः फलमूलानि प्रजानाम् अभवत् तदा । कृच्छ्रेण महता युक्त इत्य् एवम् अनुशुश्रुम

॥९५॥

स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् । स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः

॥९६॥

सस्यजातानि सर्वाणि पृथुर् वैण्यः प्रतापवान् । तेनान्नेन प्रजाः सर्वा वर्तन्तेऽद्यापि सर्वशः

॥९७॥

ऋषयश् च तदा देवाः पितरोऽथ सरीसृपाः । दैत्या यक्षाः पुण्यजना गन्धर्वाः पर्वता नगाः

॥९८॥

एते पुरा द्विजश्रेष्ठा दुदुहुर् धरणीं किल । क्षीरं वत्सश् च पात्रं च तेषां दोग्धा पृथक् पृथक्

॥९९॥

ऋषीणाम् अभवत् सोमो वत्सो दोग्धा बृहस्पतिः । क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः

॥१००॥

देवानां काञ्चनं पात्रं वत्सस् तेषां शतक्रतुः । क्षीरम् ओजस्करं चैव दोग्धा च भगवान् रविः

॥१०१॥

पितॄणां राजतं पात्रं यमो वत्सः प्रतापवान् । अन्तकश् चाभवद् दोग्धा क्षीरं तेषां सुधा स्मृता

॥१०२॥

नागानां तक्षको वत्सः पात्रं चालाबुसञ्ज्ञकम् । दोग्धा त्व् ऐरावतो नागस् तेषां क्षीरं विषं स्मृतम्

॥१०३॥

असुराणां मधुर् दोग्धा क्षीरं मायामयं स्मृतम् । विरोचनस् तु वत्सोऽभूद् आयसं पात्रम् एव च

॥१०४॥

यक्षाणाम् आमपात्रं तु वत्सो वैश्रवणः प्रभुः । दोग्धा रजतनाभस् तु क्षीरान्तर्धानम् एव च

॥१०५॥

सुमाली राक्षसेन्द्राणां वत्सः क्षीरं च शोणितम् । दोग्धा रजतनाभस् तु कपालं पात्रम् एव च

॥१०६॥

गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम् । दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः

॥१०७॥

शैलं पात्रं पर्वतानां क्षीरं रत्नौषधीस् तथा । वत्सस् तु हिमवान् आसीद् दोग्धा मेरुर् महागिरिः

॥१०८॥

प्लक्षो वत्सस् तु वृक्षाणां दोग्धा शालस् तु पुष्पितः । पालाशपात्रं क्षीरं च च्छिन्नदग्धप्ररोहणम्

॥१०९॥

सेयं धात्री विधात्री च पावनी च वसुन्धरा । चराचरस्य सर्वस्य प्रतिष्ठा योनिर् एव च

॥११०॥

सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहणी । आसीद् इयं समुद्रान्ता मेदिनी परिविश्रुता

॥१११॥

मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता । तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः

॥११२॥

ततोऽभ्युपगमाद् राज्ञः पृथोर् वैण्यस्य भो द्विजाः । दुहितृत्वम् अनुप्राप्ता देवी पृथ्वीति चोच्यते

॥११३॥

पृथुना प्रविभक्ता च शोधिता च वसुन्धरा । सस्याकरवती स्फीता पुरपत्तनशालिनी

॥११४॥

एवम्प्रभावो वैण्यः स राजासीद् राजसत्तमः । नमस्यश् चैव पूज्यश् च भूतग्रामैर् न संशयः

॥११५॥

ब्राह्मणैश् च महाभागैर् वेदवेदाङ्गपारगैः । पृथुर् एव नमस्कार्यो ब्रह्मयोनिः सनातनः

॥११६॥

पार्थिवैश् च महाभागैः पार्थिवत्वम् इहेच्छुभिः । आदिराजो नमस्कार्यः पृथुर् वैण्यः प्रतापवान्

॥११७॥

योधैर् अपि च विक्रान्तैः प्राप्तुकामैर् जयं युधि । आदिराजो नमस्कार्यो योधानां प्रथमो नृपः

॥११८॥

यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् । स घोररूपात् सङ्ग्रामात् क्षेमी भवति कीर्तिमान्

॥११९॥

वैश्यैर् अपि च वित्ताढ्यैर् वैश्यवृत्तिविधायिभिः । पृथुर् एव नमस्कार्यो वृत्तिदाता महायशाः

॥१२०॥

तथैव शूद्रैः शुचिभिस् त्रिवर्णपरिचारिभिः । पृथुर् एव नमस्कार्यः श्रेयः परम् इहेप्सुभिः

॥१२१॥

एते वत्सविशेषाश् च दोग्धारः क्षीरम् एव च । पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः

॥१२२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).