अध्यायः २२२
मुनय ऊचुः:
श्रोतुम् इच्छामहे ब्रह्मन् वर्णधर्मान् विशेषतः । चतुराश्रमधर्मांश् च द्विजवर्य ब्रवीहि तान्
॥१॥व्यास उवाच:
ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् । शृणुध्वं संयता भूत्वा वर्णधर्मान् मयोदितान्
॥२॥दानदयातपोदेवयज्ञस्वाध्यायतत्परः । नित्योदकी भवेद् विप्रः कुर्याच् चाग्निपरिग्रहम्
॥३॥वृत्त्यर्थं याजयेत् त्व् अन्यान् द्विजान् अध्यापयेत् तथा । कुर्यात् प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः
॥४॥सर्वलोकहितं कुर्यान् नाहितं कस्यचिद् द्विजाः । मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम्
॥५॥गवि रत्ने च पारक्ये समबुद्धिर् भवेद् द्विजाः । ऋताव् अभिगमः पत्न्यां शस्यते वास्य भो द्विजाः
॥६॥दानानि दद्याद् इच्छातो द्विजेभ्यः क्षत्रियोऽपि हि । यजेच् च विविधैर् यज्ञैर् अधीयीत च भो द्विजाः
॥७॥शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम्
॥८॥धरित्रीपालनेनैव कृतकृत्या नराधिपाः । भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम्
॥९॥दुष्टानां शासनाद् राजा शिष्टानां परिपालनात् । प्राप्नोत्य् अभिमतांल् लोकान् वर्णसंस्थापको नृपः
॥१०॥पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः । वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः
॥११॥तस्याप्य् अध्ययनं यज्ञो दानं धर्मश् च शस्यते । नित्यनैमित्तिकादीनाम् अनुष्ठानं च कर्मणाम्
॥१२॥द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम् । क्रयविक्रयजैर् वापि धनैः कारुभवैस् तु वा
॥१३॥दानं दद्याच् च शूद्रोऽपि पाकयज्ञैर् यजेत च । पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै
॥१४॥भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः । ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः
॥१५॥दया समस्तभूतेषु तितिक्षा नाभिमानिता । सत्यं शौचम् अनायासो मङ्गलं प्रियवादिता
॥१६॥मैत्री चैवास्पृहा तद्वद् अकार्पण्यं द्विजोत्तमाः । अनसूया च सामान्या वर्णानां कथिता गुणाः
॥१७॥आश्रमाणां च सर्वेषाम् एते सामान्यलक्षणाः । गुणास् तथोपधर्माश् च विप्रादीनाम् इमे द्विजाः
॥१८॥क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि । राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः
॥१९॥ससामर्थ्ये सति त्याज्यम् उभाभ्याम् अपि च द्विजाः । तद् एवापदि कर्तव्यं न कुर्यात् कर्मसङ्करम्
॥२०॥इत्य् एते कथिता विप्रा वर्णधर्मा मयाद्य वै । धर्मम् आश्रमिणां सम्यग् ब्रुवतोऽपि निबोधत
॥२१॥बालः कृतोपनयनो वेदाहरणतत्परः । गुरोर् गेहे वसन् विप्रा ब्रह्मचारी समाहितः
॥२२॥शौचाचाररतस् तत्र कार्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्यो वेदश् च कृतबुद्धिना
॥२३॥उभे सन्ध्ये रविं विप्रास् तथैवाग्निं समाहितः । उपतिष्ठेत् तथा कुर्याद् गुरोर् अप्य् अभिवादनम्
॥२४॥स्थिते तिष्ठेद् व्रजेद् याति नीचैर् आसीत चासिते । शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च सन्त्यजेत्
॥२५॥तेनैवोक्तं पठेद् वेदं नान्यचित्तः पुरस्थितः । अनुज्ञातं च भिक्षान्नम् अश्नीयाद् गुरुणा ततः
॥२६॥अवगाहेद् अपः पूर्वम् आचार्येणावगाहिताः । समिज्जलादिकं चास्य कल्यकल्यम् उपानयेत्
॥२७॥गृहीतग्राह्यवेदश् च ततोऽनुज्ञाम् अवाप्य वै । गार्हस्थ्यम् आवसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः
॥२८॥विधिनावाप्तदारस् तु धनं प्राप्य स्वकर्मणा । गृहस्थकार्यम् अखिलं कुर्याद् विप्राः स्वशक्तितः
॥२९॥निर्वापेण पितॄन् अर्च्य यज्ञैर् देवांस् तथातिथीन् । अन्नैर् मुनींश् च स्वाध्यायैर् अपत्येन प्रजापतिम्
॥३०॥बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत् । प्राप्नोति लोकान् पुरुषो निजकर्मसमार्जितान्
॥३१॥भिक्षाभुजश् च ये केचित् परिव्राड् ब्रह्मचारिणः । तेऽप्य् अत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम्
॥३२॥वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः । अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च
॥३३॥अनिकेता ह्य् अनाहारा ये तु सायङ्गृहास् तु ते । तेषां गृहस्थः सततं प्रतिष्ठा योनिर् उच्यते
॥३४॥तेषां स्वागतदानानि वक्तव्यं मधुरं सदा । गृहागतानां दद्याच् च शयनासनभोजनम्
॥३५॥अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति
॥३६॥अवज्ञानम् अहङ्कारो दम्भश् चापि गृहे सतः । परिवादोपघातौ च पारुष्यं च न शस्यते
॥३७॥यश् च सम्यक् करोत्य् एवं गृहस्थः परमं विधिम् । सर्वबन्धविनिर्मुक्तो लोकान् आप्नोति चोत्तमान्
॥३८॥वयःपरिणतौ विप्राः कृतकृत्यो गृहाश्रमी । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा
॥३९॥पर्णमूलफलाहारः केशश्मश्रुजटाधरः । भूमिशायी भवेत् तत्र मुनिः सर्वातिथिर् द्विजाः
॥४०॥चर्मकाशकुशैः कुर्यात् परिधानोत्तरीयके । तद्वत् त्रिषवणं स्नानं शस्तम् अस्य द्विजोत्तमाः
॥४१॥देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् । भिक्षा बलिप्रदानं तु शस्तम् अस्य प्रशस्यते
॥४२॥वन्यस्नेहेन गात्राणाम् अभ्यङ्गश् चापि शस्यते । तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता
॥४३॥यस् त्व् एता नियतश् चर्या वानप्रस्थश् चरेन् मुनिः । स दहत्य् अग्निवद् दोषाञ् जयेल् लोकांश् च शाश्वतान्
॥४४॥चतुर्थश् चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । तस्य स्वरूपं गदतो बुध्यध्वं मम सत्तमाः
॥४५॥पुत्रद्रव्यकलत्रेषु त्यजेत् स्नेहं द्विजोत्तमाः । चतुर्थम् आश्रमस्थानं गच्छेन् निर्धूतमत्सरः
॥४६॥त्रैवर्णिकांस् त्यजेत् सर्वान् आरम्भान् द्विजसत्तमाः । मित्रादिषु समो मैत्रः समस्तेष्व् एव जन्तुषु
॥४७॥जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् । युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश् च वर्जयेत्
॥४८॥एकरात्रस्थितिर् ग्रामे पञ्चरात्रस्थितिः पुरे । तथा प्रीतिर् न तिर्यक्षु द्वेषो वा नास्य जायते
॥४९॥प्राणयात्रानिमित्तं च व्यङ्गारेऽभुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद् गृहान्
॥५०॥अलाभे न विषादी स्याल् लाभे नैव च हर्षयेत् । प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः
॥५१॥अतिपूजितलाभांस् तु जुगुप्सं चैव सर्वतः । अतिपूजितलाभैस् तु यतिर् मुक्तोऽपि बध्यते
॥५२॥कामः क्रोधस् तथा दर्पो लोभमोहादयश् च ये । तांस् तु दोषान् परित्यज्य परिव्राण् निर्ममो भवेत्
॥५३॥अभयं सर्वसत्त्वेभ्यो दत्त्वा यश् चरते महीम् । तस्य देहाद् विमुक्तस्य भयं नोत्पद्यते क्वचित्
॥५४॥कृत्वाग्निहोत्रं स्वशरीरसंस्थं । शारीरम् अग्निं स्वमुखे जुहोति । विप्रस् तु भिक्षोपगतैर् हविर्भिश् । चिताग्निना स व्रजति स्म लोकान्
॥५५॥मोक्षाश्रमं यश् चरते यथोक्तं । शुचिश् च सङ्कल्पितबुद्धियुक्तः । अनिन्धनं ज्योतिर् इव प्रशान्तं । स ब्रह्मलोकं व्रजति द्विजातिः
॥५६॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).