मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — मुमुक्षुव्यवहारप्रकरणम् — सर्गः १३

3
योगवासिष्ठम् · मुमुक्षुव्यवहारप्रकरणम् · 13

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एतां दृष्टिमवष्टभ्य दृष्टात्मानः सुबुद्धयः ।

विचरन्तीह संसारे महान्तोऽभ्युदिता इव

॥१॥

न शोचन्ति न वाञ्छन्ति न याचन्ते शुभाशुभम् ।

सर्वमेव च कुर्वन्ति न कुर्वन्तीह किंचन

॥२॥

स्वच्छमेवावतिष्ठन्ते स्वच्छं कुर्वन्ति यान्ति हि ।

हेयोपादेयतापक्षरहिताः स्वात्मनि स्थिताः

॥३॥

आयान्ति च न चायान्ति प्रयान्ति च न यान्ति च ।

कुर्वन्त्यपि न कुर्वन्ति न वदन्ति वदन्ति च

॥४॥

ये केचन समारम्भा याश्च काश्चन दृष्टयः ।

हेयोपादेयतस्तास्ताः क्षीयन्तेऽधिगते पदे

॥५॥

परित्यक्तसमस्तेहं मनोमधुरवृत्तिमत् ।

सर्वतः सुखमभ्येति चन्द्रबिम्ब इव स्थितम्

॥६॥

अपि निर्मननारम्भमव्यस्ताखिलकौतुकम् ।

आत्मन्येव न मात्यन्तरिन्दाविव रसायनम्

॥७॥

न करोतीन्द्रजालानि नानुधावति वासनाम् ।

बालचापलमुत्सृज्य पूर्वमेव विराजते

॥८॥

एवंविधा हि वृत्तय आत्मतत्त्वावलोकनाल्लभ्यन्ते

नान्यथा

॥९॥

तस्माद्विचारेणात्मैवान्वेष्टव्य उपासनीयो ज्ञातव्यो

यावज्जीवं पुरुषेण नेतरदिति

॥१०॥

स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैकवाक्यता ।

यस्याभ्यासेन तेनात्मा सन्ततेनावलोक्यते

॥११॥

अवहेलितशास्त्रार्थैरवज्ञातमहाजनैः ।

कष्टामप्यापदं प्राप्तो न मूढैः समतामियात्

॥१२॥

न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले ।

खेदाय स्वशरीरस्थं मौर्ख्यमेकं यथा नृणाम्

॥१३॥

किंचित्संस्कृतबुद्धीनां श्रुतं शास्त्रमिदं यथा ।

मौर्ख्यापहं तथा शास्त्रमन्यदस्ति न किंचन

॥१४॥

इदं श्राव्यं सुखकरं यथा दृष्टान्तसुन्दरम् ।

अविरुद्धमशेषेण शास्त्रं वाक्यार्थबन्धुना

॥१३॥

आपदो या दुरुत्तारा याश्च तुच्छाः कुयोनयः ।

तास्ता मौर्ख्यात्प्रसूयन्ते खदिरादिव कण्टकाः

॥१६॥

वरं शरावहस्तस्य चाण्डालागारवीथिषु ।

भिक्षार्थमटनं राम न मौर्ख्यहतजीवितम्

॥१७॥

वरं घोरान्धकूपेषु कोटरेष्वेव भूरुहाम् ।

अन्धकीटत्वमेकान्ते न मौर्ख्यमतिदुःखदम्

॥१८॥

इममालोकमासाद्य मोक्षोपायमयं जनः ।

अन्धतामेति न पुनः कश्चिन्मोहतमस्यपि

॥१९॥

तावन्नयति संकोचं तृष्णा वै मानवाम्बुजम् ।

यावद्विवेकसूर्यस्य नोदिता विमला प्रभा

॥२०॥

संसारदुःखमोक्षार्थे मादृशैः सह बन्धुभिः ।

स्वरूपमात्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः

॥२१॥

जीवन्मुक्ताश्चरन्तीह यथा हरिहरादयः ।

यथा ब्रह्मर्षयश्चान्ये तथा विहर राघव

॥२२॥

अनन्तानीह दुःखानि सुखं तृणलवोपमम् ।

नातः सुखेषु बध्नीयाद्दृष्टिं दुःखानुबन्धिषु

॥२३॥

यदनन्तमनायासं तत्पदं सारसिद्धये ।

साधनीयं प्रयत्नेन पुरुषेण विजानता

॥२४॥

त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः ।

अनुत्तमपदालम्बि मनो येषां गतज्वरम्

॥२५॥

संभोगाशनमात्रेण राज्यादिषु सुखेषु ये ।

संतुष्टा दुष्टमनसो विद्धि तानन्धदर्दुरान्

॥२६॥

ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु ।

द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु

॥२७॥

ते यान्ति दुर्गमाद्दुर्गं दुःखाद्दुःखं भयाद्भयम् ।

नरकान्नरकं मूढा मोहमन्थरबुद्धयः

॥२८॥

परस्परविनाशोक्तेः श्रेयःस्थो न कदाचन ।

सुखदुःखदशे राम तडित्प्रसरभङ्गुरे

॥२९॥

ये विरक्ता महात्मानः सुविविक्ता भवादृशाः ।

पुरुषान्विद्धि तान्वन्द्यान्भोगमोक्षैकभाजनान्

॥३०॥

विवेकं परमाश्रित्य वैराग्याभ्यासयोगतः ।

संसारसरितं घोरामिमामापदमुत्तरेत्

॥३१॥

न स्वप्तव्यं च संसारमायास्विह विजानता ।

विषमूर्च्छनसंमोहदायिनीषु विवेकिना

॥३२॥

संसारमिममासाद्य यस्तिष्ठत्यवहेलया ।

ज्वलितस्य गृहस्योच्चैः शेते तार्णस्य संस्तरे

॥३३॥

यत्प्राप्य न निवर्तन्ते यदासाद्य न शोचति ।

तत्पदं शेमुषीलभ्यमस्त्येवात्र न संशयः

॥३४॥

नास्ति चेत्तद्विचारेण दोषः को भवतां भवेत् ।

अस्ति चेत्तत्समुत्तीर्णा भविष्यथ भवार्णवात्

॥३५॥

प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे ।

यदा भवत्याशु तदा मोक्षभागी स उच्यते

॥३६॥

अनपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् ।

न विना केवलीभावाद्विद्यते भुवनत्रये

॥३७॥

तत्प्राप्तावुत्तमप्राप्तौ न क्लेश उपजायते ।

न धनान्युपकुर्वन्ति न मित्राणि न बान्धवाः

॥३८॥

न हस्तपादचलनं न देशान्तरसंगमः ।

न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयाः

॥३९॥

पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा ।

केवलं तन्मनोमात्रजयेनासाद्यते पदम्

॥४०॥

विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् ।

त्यजता दुःखजालानि नरेणैतदवाप्यते

॥४१॥

सुखसेव्यासनस्थेन तद्विचारयता स्वयम् ।

न शोच्यते पदं प्राप्य न स भूयो हि जायते

॥४२॥

तत्समस्तसुखासारसीमान्तं साधवो विदुः ।

तदनुत्तमनिष्पन्दं परमाहू रसायनम्

॥४३॥

क्षयित्वात्सर्वभावानां स्वर्गमानुष्ययोर्द्वयोः ।

सुखं नास्त्येव सलिलं मृगतृष्णास्विवैतयोः

॥४४॥

अतो मनोजयश्चिन्त्यः शमसंतोषसाधनः ।

अनन्तसमसंयोगस्तस्मादानन्द आप्यते

॥४५॥

तिष्ठता गच्छता चैव पतता भ्रमता तथा ।

रक्षसा दानवेनापि देवेन पुरुषेण वा

॥४६॥

मनः प्रशमनोद्भूत्तं तत्प्राप्यं परमं सुखम् ।

विकासिशमपुष्पस्य विवेकोच्चतरोः फलम्

॥४७॥

व्यवहारपरेणापि कार्यवृन्दमविन्दता ।

भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छयते

॥४८॥

मनःप्रशान्तमत्यच्छं विश्रान्तं विगतभ्रमम् ।

अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति

॥४९॥

मोक्षद्वारे द्वारपालानिमाञ्छ्रणु यथाक्रमम् ।

येषामेकतमासक्त्या मोक्षद्वारं प्रविश्यते।

॥५०॥

सुखदोषदशादीर्घा संसारमरुमण्डली ।

जन्तोः शीतलतामेति शीतरश्मेः समप्रभा

॥५१॥

शमेनासाद्यते श्रेयः शमो हि परमं पदम् ।

शमः शिवः शमः शान्ति शमो भ्रान्तिनिवारणम्

॥५२॥

पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः ।

शमभूषितचित्तस्य शत्रुरप्येति मित्रताम्

॥५३॥

शमचन्द्रमसा येषामाशयः समलंकृतः ।

क्षीरोदानामिवोदेति तेषां परमशुद्धता

॥५४॥

हृत्कुशेशयकोशेषु येषां शमकुशेशयम् ।

सतां विकसितं ते हि द्विहृत्पद्माः समा हरेः

॥५५॥

शमश्रीः शोभते येषां मुखेन्दावकलङ्किते ।

ते कुलीनेन्दवो वन्द्याः सौन्दर्यविजितेन्द्रियाः

॥५६॥

त्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः ।

साम्राज्यसंपत्प्रतिमा यथा शमविभूतयः

॥५७॥

यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः ।

तत्सर्वं शान्तचेतःसु तमोऽर्केष्विव नश्यति

॥५८॥

मनो हि सर्वभूतानां प्रसादमधिगच्छति ।

न तथेन्दोर्यथा शान्ते जने जनितकौतुकम्

॥५९॥

शमशालिनि सौहार्दवति सर्वेषु जन्तुषु ।

सुजने परमं तत्त्वं स्वयमेव प्रसीदति

॥६०॥

मातरीव परं यान्ति विषमाणि मृदूनि च ।

विश्वासमिह भूतानि सर्वाणि शमशालिनि

॥६१॥

न रसायनपानेन न लक्ष्म्यालिङ्गनेन च ।

तथा सुखमवाप्नोति शमेनान्तर्यथा मनः

॥६२॥

सर्वाधिव्याधिचलितं क्रान्तं तृष्णावरत्रया ।

मनः शमामृतासेकैः समाश्वासय राघव

॥६३॥

यत्करोषि यदश्नासि शमशीतलया धिया ।

तत्रातिस्वदते स्वादु नेतरत्तात मानसे

॥६४॥

शमामृतरसाच्छन्नं मनो यामेति निर्वृतिम् ।

छिन्नान्यपि तयाङ्गानि मन्ये रोहन्ति राघव

॥६५॥

न पिशाचा न रक्षांसि न दैत्या न च शत्रवः ।

न च व्याघ्रभुजङ्गा वा द्विषन्ति शमशालिनम्

॥६६॥

सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा ।

वेधयन्ति न दुःखानि शरा वज्रशिलामिव

॥६७॥

न तथा शोभते राजा अप्यन्तःपुरसंस्थितः ।

समया स्वच्छया बुद्ध्या यथोपशमशीलया

॥६८॥

प्राणात्प्रियतरं दृष्ट्वा तुष्टिमेति न वै जनः ।

यामायाति जनः शान्तिमवलोक्य शमाशयम्

॥६९॥

समया शमशालिन्या वृत्त्या यः साधु वर्तते ।

अभिनन्दितया लोके जीवतीह स नेतरः

॥७०॥

अनुद्धतमनाः शान्तः साधुः कर्म करोति यत् ।

तत्सर्वमभिनन्दन्ति तस्येमा भूतजातयः

॥७१॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।

न हृष्यति ग्लायति यः स शान्त इति कथ्यते

॥७२॥

यः समः सर्वभूतेषु भावि काङ्क्षति नोज्झति ।

जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते

॥७३॥

स्पृष्ट्वाऽवदातया बुद्ध्या यथैवान्तस्तथा बहिः ।

दृश्यन्ते यत्र कार्याणि स शान्त इति कथ्यते

॥७४॥

तुषारकरबिम्बाभं मनो यस्य निराकुलम् ।

मरणोत्सवयुद्धेषु स शान्त इति कथ्यते

॥७५॥

स्थितोऽपि न स्थित इव न हृष्यति न कुप्यति ।

यः सुषुप्तसमः स्वस्थः स शान्त इति कथ्यते

॥७६॥

अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति ।

दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते

॥७७॥

योऽन्तः शीतलतां यातो यो भावेषु न मज्जति ।

व्यवहारी न संमूढः स शान्त इति कथ्यते

॥७८॥

अप्यापत्सु दुरन्तासु कल्पान्तेषु महत्स्वपि ।

तुच्छेऽहं न मनो यस्य स शान्त इति कथ्यते

॥७९॥

आकाशसदृशी यस्य पुंसः संव्यवहारिणः ।

कलङ्कमेति न मतिः स शान्त इति कथ्यते

॥८०॥

तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।

बलवत्सु गुणाढ्येषु शमवानेव राजते

॥८१॥

शमसंसक्तमनसां महतां गुणशालिनाम् ।

उदेति निर्वृतिश्चित्ताज्ज्योत्स्नेव सितरोचिषः

॥८२॥

सीमान्तो गुणपूगानां पौरुषैकान्तभूषणम् ।

संकटेषु भयस्थाने शमः श्रीमान्विराजते

॥८३॥

शमममृतमहार्यमार्यगुप्तं

परमवलम्ब्य परं पदं प्रयाताः ।

रघुतनय यथा महानुभावाः

क्रममनुपालय सिद्धये तमेव

॥८४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे शमनिरूपणं नाम त्रयोदशः सर्गः ।। १३ ।।