मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — वैराग्यप्रकरणम् — सर्गः १२

3
योगवासिष्ठम् · वैराग्यप्रकरणम् · 12

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

वाल्मीकिरुवाच ।

इति पृष्टो मुनीन्द्रेण समाश्वस्य च राघवः ।

उवाच वचनं चारु परिपूर्णार्थमन्थरम्

॥१॥

श्रीराम उवाच ।

भगवन्भवता पृष्टो यथावदधुनाऽखिलम् ।

कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः

॥२॥

अहं तावदयं जातो निजेऽस्मिन्पितृसद्मनि ।

क्रमेण वृद्धिं संप्राप्तः प्राप्तविद्यश्च संस्थितः

॥३॥

ततः सदाचारपरो भूत्वाहं मुनिनायक ।

विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम्

॥४॥

एतावताथ कालेन संसारास्थामिमां हरन् ।

समुद्भूतो मनसि मे विचारः सोऽयमीदृशः

॥५॥

विवेकेन परीतात्मा तेनाहं तदनु स्वयम् ।

भोगनीरसया बुद्ध्या प्रविचारितवानिदम्

॥६॥

किंनामेदं बत सुखं येयं संसारसंततिः ।

जायते मृतये लोको म्रियते जननाय च

॥७॥

अस्थिराः सर्व एवेमे सचराचरचेष्टिताः ।

आपदां पतयः पापा भावा विभवभूमयः

॥८॥

अयःशलाकासदृशाः परस्परमसङ्गिनः ।

श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया

॥९॥

मनःसमायत्तमिदं जगदाभोगि दृश्यते ।

मनश्चासदिवाभाति केन स्म परिमोहिताः

॥१०॥

असतैव वयं कष्टं विकृष्टा मूढबुद्धयः ।

मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव

॥११॥

न केनचिच्च विक्रीता विक्रीता इव संस्थिताः ।

बत मूढा वयं सर्वे जानाना अपि शाम्बरम्

॥१२॥

किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः ।

मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः

॥१३॥

आ ज्ञातं बहुकालेन व्यर्थमेव वयं वने ।

मोहे निपतिता मुग्धाः श्वभ्रे मुग्धा मृगा इव

॥१४॥

किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम् ।

यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम्

॥१५॥

एवं विमृशतो ब्रह्मन्सर्वेष्वेव ततो मम ।

भावेष्वरतिरायाता पथिकस्य मरुष्विव

॥१६॥

तदेतद्भगवन्ब्रूहि किमिदं परिणश्यति ।

किमिदं जायते भूयः किमिदं परिवर्धते

॥१७॥

जरामरणमापच्च जननं संपदस्तथा ।

आविर्भावतिरोभावैर्विवर्धन्ते पुनःपुनः

॥१८॥

भोगैस्तैरेव तैरेव तुच्छैर्वयममी किल ।

पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः

॥१९॥

अचेतना इव जनाः पवनैः प्राणनामभिः ।

ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः

॥२०॥

शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया ।

जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना

॥२१॥

संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् ।

निजलोकभयादेव गलद्वाष्पं न रोदिमि

॥२२॥

शून्या मन्मुखवृत्तीस्ताः शुष्करोदननीरसाः ।

विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति

॥२३॥

भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् ।

दारिद्र्येणेव सुभगो दूरे संसारचेष्टया

॥२४॥

मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणावलिम् ।

दुःखजालं प्रयच्छन्ति विप्रलम्भपराः श्रियः

॥२५॥

चिन्तानिचयचक्राणि नानन्दाय धनानि मे ।

संप्रसूतकलत्राणि गृहाण्युग्रापदामिव

॥२६॥

विविधदोषदशापरिचिन्तनै-

र्विततभङ्गुरकारणकल्पितैः ।

मम न निर्वृतिमेति मनो मुने

निगडितस्य यथा वनदन्तिनः

॥२७॥

खलाः कालेकाले निशि निशितमोहैकमिहिका-

गतालोके लोके विषयशतचौराः सुचतुराः ।

प्रवृत्ताः प्रोद्युक्ता दिशिदिशि विवेकैकहरणे

रणे शक्तास्तेषां क इव विदुषःप्रोज्झ्य सुभटाः

॥२८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे प्रथमपरितापो नाम द्वादशः सर्गः ।। १२।।