मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १५

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 15

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

भुशुण्ड उवाच ।

यत्राहंत्वं जगत्तत्र पूर्वमागत्य तिष्ठति ।

पराण्वन्तरपीन्द्रस्य त्रसरेणूदरे यथा

॥१॥

भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।

अहंभावोऽभिमन्तात्मा मूलमाद्यमुदाहृतम्

॥२॥

वासनारससंसिक्तादहंबीजकणादयम् ।

ब्रह्माद्रौ व्योमविपिने जायते त्रिजगद्द्रुमः

॥३॥

तारकापुष्पनिकरो विलीनाचलपल्लवः ।

सरित्सारशिरापूरो वासनासारतत्फलः

॥४॥

अहंत्वसलिलस्येदं जगत्स्पन्द उदाहृतः ।

चिञ्चमत्करणस्वादुर्वासनाविसरद्रवः

॥५॥

तारकासीकरासारो नभोनन्तनिखातवान् ।

भावाभावमहावर्तो नानागिरितरङ्गकः

॥६॥

त्रिलोकीविलिखल्लेखो विलोलालोकफेनिलः ।

ब्रह्माण्डबुद्बुदोद्भेदः कवाटापीडपीवरः

॥७॥

भूपीठदृढडिण्डीरपिण्डश्चिद्धनमद्गुमान् ।

चित्राजवं जवीभावमज्जनोन्मज्जनात्मकः

॥८॥

जरामरणमोहादिवीचीचयचमत्कृतिः ।

उत्पन्नध्वंसिदेहादिबिन्दुवृन्दैकबन्धुरः

॥९॥

अहंत्वपवनस्पन्दो जगदित्यवगम्यताम् ।

अहंत्वपद्मसौगन्ध्यं जगदित्यवबुध्यताम्

॥१०॥

नाहंत्वजगती भिन्ने पवनस्पन्दवत्सदा ।

पयो द्रवत्वमिव च वह्निरौष्ण्यमिवापि च

॥११॥

जगदस्त्यहमर्थेऽन्तरहमस्ति जगद्धृदि ।

अन्योन्यभाविनी त्वेते आधाराधेयवत्स्थिते

॥१२॥

जगद्बीजमहंत्वं यो मार्ष्टि वोधादवेदनात् ।

अलं चित्रं जलेनेव तेन धौतं जगन्मलम्

॥१३॥

अर्हत्वं नाम तत्किंचिद्विद्याधर न विद्यते ।

अकारणमवस्तुत्वाच्छशशृङ्गमिवोदितम्

॥१४॥

ब्रह्मण्यतिततेऽनन्ते संकल्पोल्लेखवर्जिते ।

अहंत्वकारणाभावान्न कदाचन सन्मयम्

॥१५॥

अवस्तुन्येति सर्गादौ न संभवति कारणम् ।

अतोऽहंत्वादि नास्त्वेववन्ध्यासुत इव क्वचित्

॥१६॥

तदभावाज्जगन्नास्ति चित्त्वं जगदभावतः ।

शिष्टं निर्वाणमेवातः शान्तमास्स्व यथासुखम्

॥१७॥

अभावादुपपत्तिस्थादेवं जगदहंत्वयोः ।

रूपालोकमनस्काराः शान्तास्तव न चेतरत्

॥१८॥

यन्नास्ति तत्तु नास्त्येव शेषं शान्तमसि धुवम् ।

संप्रबुद्धोऽसि मा भूयो निर्मलां भ्रान्तिमाहर

॥१९॥

व्यपगतकलनाकलङ्कशुद्धः

शिवमसि शान्तमसीश्वरोऽसि नित्यः ।

स्वमपि भवति पर्वतोपमानं

जगदपि वा परमाणुरूपमेव

॥२०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे वि० विद्याधरनिर्वाणं नाम पञ्चदशः सर्गः ।। १५ ।।