मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १९८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 198

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

भूयो निपुणबोधाय श्रृणु किंचिद्रघूद्वह ।

पुनःपुनर्यत्कथितं तदज्ञेऽप्यवतिष्ठते

॥१॥

राघव प्रथमं प्रोक्तं स्थितिप्रकरणं मया ।

येनेदमित्थमुत्पन्नमिति विज्ञायते जगत्

॥२॥

ततो जगति जातेन परोपशमशालिना ।

भवितव्यमिति प्रोक्तं मयोपशमयुक्तिभिः

॥३॥

उपशान्तिप्रकरणे प्रोक्तैरुपशमक्रमैः ।

परमोपशमं गत्वा वस्तव्यमिह विज्वरम्

॥४॥

प्राप्तप्राप्येन तज्ज्ञेन यथा संसारदृष्टिषु ।

विहर्तव्यं हि नः किंचित्स्वल्पं श्रोतव्यमस्ति ते

॥५॥

जन्म संप्राप्य जगति बाल्य एव जगत्स्थितिम् ।

यथाभूतामिमां बुद्ध्वा वस्तव्यमिह विज्वरम्

॥६॥

सर्वसौहार्दजननीं सर्वस्याश्वासकारिणीम् ।

समतामलमाश्रित्य विहर्तव्यमिहानघ

॥७॥

सर्वसंपत्तिसुभगं सर्वसौभाग्यवर्धनम् ।

समतासुलतायास्तु फलं भवति पावनम्

॥८॥

समतासुभगेहानां कुर्वतां प्रकृतं क्रमम् ।

सर्वैवेयं जगल्लक्ष्मीर्भृत्यतामेति राघव

॥९॥

न तदासाद्यते राज्यान्न कान्ताजनसंगमात् ।

अनपायि सुखं सारं समत्वाद्यदवाप्यते

॥१०॥

द्वन्द्वोपशमसीमान्तं संरम्भज्वरनाशनम् ।

सर्वदुःखातपाम्भोदं समत्वं विद्धि राघव

॥११॥

मित्रीभूताखिलरिपुर्यथाभूतार्थदर्शनः ।

दुर्लभो जगतां मध्ये साम्यामृतमयो जनः

॥१२॥

प्रबुद्धस्य स्वचित्तेन्दोर्निष्यन्दममृताधिकम् ।

साम्यमास्वाद्य जीवन्ति सर्वे वै जनकादयः

॥१३॥

साम्यमभ्यस्यतो जन्तोः स्वदोषोऽपि गुणायते ।

दुःखं सुखायते नित्यं मरणं जीवितायते

॥१४॥

साम्यसौन्दर्यसुभगं वनिता मुदितादिकाः ।

आलिङ्गन्ति महात्मानं नित्यं व्यसनिता इव

॥१५॥

समः समुदितो नित्यं समोऽनुदितधीः सदा ।

न काश्चिदिह ताः सन्ति याः समस्य हि नर्धयः

॥१६॥

सर्वकार्यसमं साधुं प्रकृतव्यवहारिणम् ।

चिन्तामणिमिवोदारं प्रवाञ्छन्ति नरामराः

॥१७॥

सम्यक्कारिणमुद्दाममुदितं समचेतसम् ।

न दहन्त्यग्नयो राम नापः सिञ्चन्ति मानवम्

॥१८॥

यद्यथा तत्तथा येन क्रियते दृश्यते तथा ।

आनन्दोद्वेगमुक्तेन कस्तं तोलयितुं क्षमः

॥१९॥

मित्राणि बन्धुरिपवो राजानो व्यवहारिणः ।

सम्यक्कारिणि तत्त्वज्ञे विश्वसन्ति महाधियः

॥२०॥

नानिष्टात्प्रपलायन्ते नेष्टादायान्ति तुष्टताम् ।

प्रकृतक्रमसंप्राप्तास्तत्त्वज्ञाः समदर्शिनः

॥२१॥

त्यक्त्वा सर्वानुपादेयान्राम भावाननिन्दितान् ।

समतायामदुःखायां दधाना वृत्तिमुत्तमाम्

॥२२॥

विहसन्ति जगज्जालं जीवयन्ति निरामयाः ।

पूज्यन्ते विबुधैः सर्वैः समतामुदिताशयाः

॥२३॥

प्रकृतक्रमसंप्राप्तं मुखेन्दौ कोपमेव यः ।

समाशयो धारयति स्यात्सौम्यामृतवज्जनः

॥२४॥

यत्करोति यदश्नाति यदाक्रामति निन्दति ।

समदृष्टिस्तदस्येयं स्तौति नित्यं जनावलिः

॥२५॥

यच्छुभं वाशुभं यच्च यच्चिरेण यदद्य वा ।

समदृष्टिकृतं सम्यगभिनन्दति तज्जनः

॥२६॥

सुखदुःखेषु भीमेषु संततेषु महत्स्वपि ।

मनागपि न वैरस्यं प्रयान्ति समदृष्टयः

॥२७॥

शिबिर्भूपः कपोताय मांसमङ्गविकर्तनम् ।

ददौ मुदितया बुद्ध्या समदृष्टितयानया

॥२८॥

प्राणेभ्योऽपि प्रियतमां कान्तामग्रे विकालिताम् ।

दृष्ट्वाप्यङ्ग महीपालो न मुमोह समाशयः

॥२९॥

मनोरथशतप्राप्तं तनयं समया धिया ।

राक्षसाय त्रिगर्तेशो ददौ स्वपणहारितम्

॥३०॥

नगर्यां दह्यमानायां भूषितायां तथोत्सवे ।

सम एव महीपालो जनको भूभृतां वर

॥३१॥

न्यायतः परिविक्रीतं साल्वराट् समदर्शनः ।

स्वमेव विचकर्ताशु शिरः पद्मदलं यथा

॥३९॥

कुन्दप्रकरनिर्भासं यज्ञे पाण्डुमिवाचलम् ।

जहौ जरत्तृणमिव सौवीरः समया धिया

॥३३॥

समयैव धिया नित्यं निजमभ्याहरन्क्रमम् ।

मातङ्गः कुण्डपो नाम प्राप वैमानिकस्थितिम्

॥३४॥

सर्वभूतक्षयकरीं साम्याभ्यासेन भूरिणा ।

तत्याज राक्षसीं वृत्तिं कदम्बवनराक्षसः

॥३५॥

बालचन्द्राभिजातोऽपि समबुद्धितया जडः ।

गुडमोदकवन्न्यायप्राप्तमग्निमभक्षयत्

॥३६॥

समबुद्धितया क्रूरव्यवहारपरोऽपि सन् ।

धर्मव्याधस्तनुं त्यक्त्वा जगाम परमं पदम्

॥३७॥

नन्दनोद्यानसंस्थोऽपि पुरुषोऽपि कपर्दनः ।

लुलुभे न सुरस्त्रीषु नूनं प्रणयिनीष्वपि

॥३८॥

समचित्ततयाऽस्पन्दः करञ्जगहनेष्वपि ।

विन्ध्यकान्तारकच्छेषु राज्यं त्यक्त्वावसच्चिरम्

॥३९॥

ऋषयो मुनयश्चैव ये सिद्धाः सुरपूजिताः ।

समदृष्टितयोद्विग्ना न ते तासु व्रतर्द्धिषु

॥४०॥

राजानः प्राकृताश्चैव धर्मव्याधादयोऽपरे ।

समदृष्टिपदाभ्यासान्महतां पूज्यतां गताः

॥४१॥

इहामुत्र च सिद्ध्यर्थे पुरुषार्थप्रवृत्तये ।

समदृष्टितया नित्यं विचरन्ति सुबुद्धयः

॥४२॥

अभिवाञ्छेन्न मरणमभिवाञ्छेन्न जीवितम् ।

यथाप्राप्तसमाचारो विचरेदविहिंसकः

॥४३॥

समकलितगुणागुणैकभावः

समसुखदुःखपरावरो विलासी ।

प्रविचरति समावमानमानः

प्रकृतवरव्यवहारपूतमूर्तिः

॥४४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० समदृष्टिप्रशंसा नामाष्टनवत्यधिकशततमः सर्गः ।। १९८ ।।