मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १०१

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 101

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

किमुच्यते मुनिश्रेष्ठ बालकाख्यायिकाक्रमः ।

क्रमेण कथयैतन्मे मनोवर्णनकारणम्

॥१॥

श्रीवसिष्ठ उवाच ।

कोऽपि मुग्धमतिर्बालो धात्रीं पृच्छति राघव ।

कांचिद्विनोदिनीं धात्रि वर्णयाख्यायिकामिति

॥२॥

सा बालस्य विनोदाय धात्री तस्य महामते ।

आख्यायिकां कथयति प्रसन्नमधुराक्षरम्

॥३॥

क्वचित्सन्ति महात्मानो राजपुत्रास्त्रयः शुभाः ।

धार्मिकाः शौर्यमुदिता अत्यन्तासति पत्तने

॥४॥

विस्तीर्णे शून्यनगरे व्योम्नीव जलतारकाः ।

द्वौ न जातौ तथैकस्तु गर्भ एव न संस्थितः

॥५॥

अथात्युत्तमलाभार्थं कदाचित्समवायतः ।

विबन्धवः खिन्नमुखाः शोकोपहतचेतसः

॥६॥

ते तस्माच्छून्यनगरान्निर्गता वितताननाः ।

गगनादिव संश्लिष्टा बुधशुक्रशनैश्चराः

॥७॥

शिरीषसुकुमाराङ्गाः पृष्ठतोऽर्केण तापिताः ।

मार्गेऽहनि गता ग्रीष्मतापार्ताः पल्लवा इव

॥८॥

संतप्तमार्गसिकतादग्धपादसरोरुहाः ।

हा तात चेति शोचन्तो मृगा यूथच्युता इव

॥९॥

दर्भाग्रभिन्नचरणास्तापखिन्नाङ्गसंधयः ।

उल्लङ्घ्य दूरमध्वानं धूलिधूसरमूर्तयः

॥१०॥

मञ्जरीजालजटिलं फलपल्लवमालितम् ।

मृगपक्षिगणाधारं प्रापुर्मार्गे तरुत्रयम्

॥११॥

यस्मिन्वृक्षत्रये वृक्षौ द्वौ न जातौ मनागपि ।

बीजमेव तृतीयस्य स्वारोहस्य न विद्यते

॥१२॥

विश्रान्तास्ते परिश्रान्तास्तत्रैकस्य तरोरधः ।

पारिजाततले स्वर्गे शक्रानिलयमा इव

॥१३॥

फलान्यमृतकल्पानि भुक्त्वा पीत्वा च तद्रसम् ।

कृत्वा गुलुच्छकैर्मालां चिरं विश्रम्य ते ययुः

॥१४॥

पुनर्दूरतरं गत्वा मध्याह्ने समुपस्थिते ।

सरित्त्रितयमासेदुस्तरङ्गतरलारवम्

॥१५॥

तत्रैका परिशुष्कैव मनागप्यम्बु न द्वयोः ।

विद्यते सरितोर्दृष्टिरन्धलोचनयोरिव

॥१६॥

परिशुष्का भृशं यासौ तस्यां ते सस्नुरादृताः ।

घर्मार्ता इव गङ्गायां ब्रह्मविष्णुहरा इव

॥१७॥

चिरं कृत्वा जलक्रीडां पीत्वा क्षीरोपमं पयः ।

जग्मुस्ते राजतनयाः प्रहृष्टमनसः स्वयम्

॥१८॥

अथासेदुर्दिनस्यान्ते लम्बमाने दिवाकरे ।

भविष्यन्नवनिर्माणं नगरं नगसन्निभम्

॥१९॥

पताकापद्मिनीव्याप्तं नीलाकाशजलाशयम् ।

दूरश्रुतसमुल्लापगायन्नागरमण्डलम्

॥२०॥

ददृशुस्तत्र रम्याणि त्रीणि सद्भवनानि ते ।

मणिकाञ्चनगेहानि श्रृङ्गाणीव महागिरेः

॥२१॥

अनिर्मिते द्वे सदने एकं निर्भित्ति तत्र वै ।

अभित्तिमन्दिरं चारु प्रविष्टास्ते नरास्त्रयः

॥२२॥

संप्रविश्योपविश्याशु विहरन्तो वराननाः ।

प्रापुः स्थालीत्रयं तत्र तप्तकाञ्चनकल्पितम्

॥२३॥

तत्र कर्परतां याते द्वे एका चूर्णतां गता ।

जगृहुश्चूर्णरूपां तां स्थालीं ते दीर्घबुद्धयः

॥२४॥

द्रोणैर्नवनवत्या तैस्तस्यां द्रोणेन चान्धसः ।

तत्र द्रोणशतं हीनं रन्धितं बहुभोजिभिः

॥२५॥

निमन्त्रितास्त्रयस्तैस्तु ब्राह्मणा राजसूनुभिः ।

द्वौ निर्देहावथैकस्य मुखमेव न विद्यते

॥२६॥

निर्मुखेनान्धसस्तत्र भुक्तं द्रोणशतं सुत ।

विप्रभुक्तावशेषं तु भुक्तमन्धो नृपात्मजैः

॥२७॥

त्रिभिस्ते राजपुत्राश्च परां निर्वृतिमागताः ।

भविष्यन्नगरे तस्मिन् राजपुत्रास्त्रयो हि ते ।

सुखमद्य स्थिताः पुत्र मृगयाव्यवहारिणः

॥२८॥

आख्यायिकैषा कथिता मया रम्या तवानघ ।

एतां हृदि कुरु प्राज्ञ विदग्धस्त्वं भविष्यसि

॥२९॥

धात्र्येति कथिता राम बालकाख्यायिका शुभा ।

तुष्टिं जगाम बालश्च शुभाख्यायिकयानया

॥३०॥

एषा हि कथिता राम चित्ताख्यानकथां प्रति ।

बालकाख्यायिका तुभ्यं मया कमललोचन

॥३१॥

इयं संसाररचना स्थितिमेवमुपागता ।

बालकाख्यायिकेवोग्रैः संकल्पैर्दृढकल्पितैः

॥३२॥

विकल्पजालकैवेयं प्रतिभासात्मिकानघ ।

बन्धमोक्षादिकलनारूपेण परिजृम्भते

॥३३॥

संकल्पमात्रादितरद्विद्यते नेह किंचन ।

संकल्पवशतः किंचिन्न किंचित्किंचिदेव वा

॥३४॥

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।

संकल्पकचितं सर्वमेवं स्वप्नवदात्मनः

॥३५॥

राजपुत्रास्त्रयो नद्यो भविष्यन्नगरे यथा ।

यथा संकल्परचना तथेयं हि जगत्स्थितिः

॥३६॥

संकल्पमात्रमभितः परिस्फुरति चञ्चलः ।

पयोमात्रात्मकोऽम्भोधिरम्भसीवात्मनात्मनि

॥३७॥

संकल्पमात्रं प्रथममुत्थितं परमात्मनः ।

तदिदं स्फारतां यातं व्यापारैर्दिवसं यथा

॥३८॥

संकल्पजालकलनैव जगत्समग्रं

संकल्पमेव ननु विद्धि विलासचेत्यम् ।

संकल्पमात्रमलमुत्सृज निर्विकल्प-

माश्रित्य निश्चयमवाप्नुहि राम शान्तिम्

॥३९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे बालकाख्यायिकानामैकोत्तरशततमः सर्गः ।। १०१ ।।