मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ९१

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 91

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

भानुरुवाच ।

तेनैतद्वच्मि भवगन्यथाकालं मनो मुने ।

अनिग्राह्यमभेद्यं च शापैरपि दुरासदैः

॥१॥

ऐन्दवानामतः सृष्टिक्रमाणां प्रविनाशनम् ।

युज्यते न च तद्ब्रह्मन्युक्तमेतन्महात्मनः

॥२॥

किं तदस्ति जगत्यस्मिन्विविधेषु जगत्सु च ।

तवापि नाथ नाथस्य यद्दैन्याय महात्मनः

॥३॥

मनो हि जगतां कर्तृ मनो हि पुरुषः स्मृतः ।

यन्मनोनिश्चयकृतं तद्द्रव्यौषधिदण्डनैः

॥४॥

हन्तुं न शक्यते जन्तोः प्रतिबिम्बं मणेरिव ।

तस्मादेतेऽत्र तिष्ठन्तु भासुरैः सर्गसंभ्रमैः

॥५॥

त्वं सृष्ट्वेह प्रजास्तिष्ठ बुद्ध्याकाशो ह्यनन्तकः ।

चित्ताकाशश्चिदाकाश आकाशश्च तृतीयकः

॥६॥

अनन्तास्त्रय एवैते चिदाकाशप्रकाशिताः ।

एकं द्वौ त्रीन्बहून्वापि कुरु सर्गाञ्जगत्पते

॥७॥

स्वेच्छयात्मनि तिष्ठ त्वं किं गृहीतं तवैन्दवैः ।

ब्रह्मोवाच ।

अथैन्दवजगज्जाले भानुनैवमुदाहृते

॥८॥

मया संचिन्त्य सुचिरमिदमुक्तं महामुने ।

युक्तमुक्तं त्वया भानो विततं हि किलाम्बरम्

॥९॥

मनश्च विततं वापि चिदाकाशश्च विस्तृतः ।

तद्यथाभिमतं सर्गं नित्यकर्म करोम्यहम्

॥१०॥

कल्पयामि बहून्याशु भूतजालानि भास्कर ।

तत्त्वमेवाशु भगवन्प्रथमो मे मनुर्भव

॥११॥

कुरु सर्गं यथाकामं मया समभिचोदितः ।

अथैतत्स महातेजा मम वाक्यं प्रभाकरः

॥१२॥

अङ्गीकृत्य द्विधात्मानं चकार तपतांवर ।

एकेन प्राक्तनेनास्मिन्वपुषा सूर्यतां गतः

॥१३॥

व्योमाध्वगतया सर्गे ततान दिवसावलिम् ।

मन्मनुत्वं द्वितीयेन कृत्वा स्ववपुषा क्षणात्

॥१४॥

ससर्ज सकलां सृष्टिं तां तामभिमतां मम

॥१५॥

एतत्ते कथितं सर्वं वसिष्ठमनसो मुने ।

स्वरूपं सर्वकृत्त्वं च शक्तत्वं च महात्मनः

॥१६॥

प्रतिभासमुपायाति यद्यदस्य हि चेतसः ।

तत्तत्प्रकटतामेति स्थैर्यं सफलतामपि

॥१७॥

सामान्यब्राह्मणा भूत्वा प्रतिभासवशात्किल ।

ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम्

॥१८॥

यथा चैन्दवजीवास्ते चित्रत्वाद्ब्रह्मतां गताः ।

वयं तथैव चिद्भावाच्चित्तत्वाद्ब्रह्मतां गताः

॥१९॥

चित्तं हि प्रतिभासात्म यच्च तत्प्रतिभासनम् ।

तदिदं भाति देहादि स्वान्तं नान्यास्ति देहदृक्

॥२०॥

चित्तमात्मचमत्कारं तच्च तत्कुरुते स्वतः ।

यथावत्संभवं स्वात्मन्येवान्तर्मरिचादिवत्

॥२१॥

तदेतच्चित्तवद्भातमातिवाहिकनामकम् ।

तदेवोदाहरन्त्येवं देहनाम्ना घनभ्रमम्

॥२२॥

कथ्यते जीवनाम्नैतच्चित्तं प्रतनुवासनम् ।

शान्तदेहचमत्कारं जीवं विद्धि क्रमात्परम्

॥२३॥

नाहं न चान्यदस्तीह चित्रं चित्तमिदं स्थितम् ।

वसिष्ठैन्दवसंविद्वदसत्सत्तामिवागतम्

॥२४॥

यथैन्दव मनो ब्रह्मा तथैवायमहं स्थितः ।

तत्कृतं चाहमेवेदं संकल्पात्मैव भासते

॥२५॥

कश्चिच्चित्तविलासोऽयं ब्रह्माहमिह संस्थितः ।

स्वभाव एव देहादि विद्धि शून्यतरात्मखात्

॥२६॥

शुद्धचित्परमार्थैकरूपिणीत्येव भावनात् ।

जीवो भूयो मनो भूत्वा वेत्तीत्थं देहतां मुधा

॥२७॥

सर्वमैन्दवसंसारवदिदं भाति चिद्वपुः ।

संपन्नसंप्रबोधात्मा स्वप्नो दीर्घः स्वशक्तिजः

॥२८॥

द्विचन्द्रविभ्रमाकारं तन्मात्राभासपूर्वकम् ।

ऐन्दवाम्बरवद्रूढं चित्तादेवाखिलं भवेत्

॥२९॥

न सन्नासदहंरूपं सत्तासत्ते तदेव च ।

उपलम्भेन सद्रूपमसत्यं तद्विरोधतः

॥३०॥

जडाजडं मनो विद्धि संकल्पात्म बृहद्वपुः ।

अजडं ब्रह्मरूपत्वाज्जडं दृश्यात्मतावशात्

॥३१॥

दृश्यानुभवसत्यात्म न सद्भावे विलासि तत् ।

कटकत्वं यथा हेम्नि तथा ब्रह्मणि संस्थितम्

॥३२॥

सर्वत्वाद्ब्रह्मणः सर्वं जडं चिन्मयभेव च ।

अस्मदादिशिलान्तात्म न जडं न च चेतनम्

॥३३॥

दार्वादीनामचित्त्वेन नोपलम्भस्य संभवः ।

उपलम्भो हि सदृशसंबन्धादेव जायते।

॥३४॥

उपलब्धेऽजडं विद्धि तेनेदं सर्वमेव हि ।

उपलम्भो हि सदृशसंबन्धात्स्यात्समात्मनोः

॥३५॥

जडचेतनभावादिशब्दार्थश्रीर्न विद्यते ।

अनिर्देश्यपदे पत्रलतादीव महामरौ

॥३६॥

चितो यच्चेत्यकलनं तन्मनस्त्वमुदाहृतम् ।

चिद्भागोऽत्राजडो भागो जाड्यमत्र हि चेत्यता

॥३७॥

चिद्भागोऽत्रावबोधांशो जडं चेत्यं हि दृश्यते ।

इति जीवो जगद्भान्तिं पश्यन्गच्छति लोलताम्

॥३८॥

चित्तस्य एव भावोऽसौ शुद्ध एव द्विधा कृतः ।

अतः सर्वं जगत्सैव द्वैतलब्धं च सैव तत्

॥३९॥

स्वमेवान्यतया दृष्ट्वा चितिर्दृश्यतया वपुः ।

निर्भागाप्येकभागाभं भ्रमतीव भ्रमातुरा

॥४०॥

न भ्रान्तिरस्ति भ्रमभाङ्गा नैवेतीह निश्चयः ।

परिपूर्णार्णवप्रख्यावेतीत्थं संस्थिता चितिः

॥४१॥

सर्वं स्याज्जाड्यमप्यस्याश्चितिश्चित्त्वं च वेत्सि तत् ।

चिद्भागोंशोऽवबोधस्य त्वहंताजडतोदयः

॥४२॥

अहंतादिपरे तत्त्वे मनागपि न विद्यते ।

ऊर्म्यादीव पृथक्तोये संवित्सारं हि तद्यतः

॥४३॥

अहंप्रत्ययसंदृश्यं चेत्यं विद्धि समुत्थितम् ।

मृगतृष्णाम्ब्विवान्तस्थं नूनं विद्यत एव नो

॥४४॥

अहंतापदमन्तात्मपदं विद्धि निरामयम् ।

विदं विदुरहंतादि शैत्यमेव यथा हिमम्

॥४५॥

चित्तेव चेत्यते जाड्यं स्वप्ने स्वमरणोपमम् ।

सर्वात्मत्वात्सर्वशक्तीः कुर्वती नैति साम्यताम्

॥४६॥

मनः पदार्थादितया सर्वरूपं विजृम्भते ।

नानात्माचित्तदेहोऽयमाकाशविशदाकृतिः

॥४७॥

देहादिदेहप्रतिभारूपात्म्यं त्यजता सता ।

विचार्यं प्रतिभासात्म चित्तं चित्तेन वै स्वयम्

॥४८॥

चित्तताम्रे शोधिते हि परमार्थसुवर्णताम् ।

गतेऽकृत्रिम आनन्दः किं देहोपलखण्डकैः

॥४९॥

यद्विद्यते शोध्यते तद्बोधः के च खपादपाः ।

देहाद्यविद्या सत्या चेद्युक्त एतां प्रति ग्रहः

॥५०॥

असत्यविनिविष्टानां देहवाचितया त्विह ।

ये नामोपदिशन्त्यज्ञाः किंचित्ते पुरुषैडकाः

॥५१॥

यथैतद्भावयेत्स्वान्तं तथैव भवति क्षणात् ।

दृष्टान्तोऽत्रैन्दवाहल्याकृत्रिमेन्द्रादिनिश्चयाः

॥५२॥

यद्यद्यथा स्फुरति सुप्रतिभात्मचित्तं

तत्तत्तथा भवति देहतयोदितात्म ।

देहोऽयमस्ति न न चाहमिति स्वरूपं

विज्ञानमेकमवगम्य निरिच्छमास्स्व

॥५३॥

देहोऽयमेष च किलायमिति स्वभावा-

द्देहोऽयमेतदखिलं तत एति नाशम् ।

यक्षादिकल्पनवशाद्भयमेति बालो

निर्यक्षदेहगत एव कयापि युक्त्या

॥५४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जीवावतरणक्रमोपदेशो नामैकनवतितमः सर्गः ।। ९१ ।।