मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ११३

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 113

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एषा हि वासना नित्यमसत्यैव यदुत्थिता ।

द्विचन्द्रभ्रान्तिवत्तेन त्यक्तुं राघव युज्यते

॥१॥

अविद्या विद्यमानेव नष्टप्रज्ञेषु विद्यते ।

नाम्नैवाङ्गीकृताभावात्सम्यक्प्रज्ञेषु सा कुतः

॥२॥

मा भवाज्ञो भव प्राज्ञः सम्यग्राम विचारय ।

नास्त्येवेन्दुर्द्वितीयः खे भ्रान्त्या संलक्ष्यते मुधा

॥३॥

नात्र तत्त्वादृते किंचिद्विद्यते वस्त्ववस्तु च ।

ऊर्मिमालिनि विस्तीर्णे वारिपूरादृते यथा

॥४॥

स्वविकल्पादृते नैतान्भावाभावानसन्मयान् ।

नित्येऽसिते तते शुद्धे मा समारोपयात्मनि

॥५॥

नासि कर्ता किमेतासु क्रियासु ममता तव ।

एकस्मिन्विद्यमाने हि किं केन क्रियते कथम्

॥६॥

मा वाऽकर्ता भव प्राज्ञ किमकर्तृतयेहिते ।

साध्यं साध्यमुपादेयं तस्मात्स्वस्थो भवानघ

॥७॥

कर्ता संस्त्वमसक्तत्वाद्भावाभावे रघूद्वह ।

असक्तत्वादकर्तापि कर्तृवत्स्पन्दनं कुतः

॥८॥

सत्यं स्याच्चेदुपादेयं मिथ्या स्याद्धेयमेव चेत् ।

उपादेयैकसक्तत्वाद्युक्ता सक्तिर्हि कर्मणि

॥९॥

यत्रेन्द्रजालमखिलं मायामयमवस्तुकम् ।

तत्र कास्था कथं नाम हेयोपादेयदृष्टयः

॥१०॥

संसारबीजकणिका यैषा विद्या रघूद्वह ।

एषा ह्यविद्यमानैव सतीव स्फारतां गता

॥११॥

येयमाभोगिनिःसारा संसारारम्भचक्रिका ।

विज्ञेया वासनैषा सा चेतसो मोहदायिनी

॥१२॥

चारुवंशलतेवान्तःशून्या निस्सारकोटरा ।

सरित्तरङ्गमालेव न व्युच्छिन्नापि नश्वरी

॥१३॥

गृह्यमाणापि हस्तेन ग्रहीतुं नैव युज्यते ।

मृद्वप्यत्यन्ततीक्ष्णाग्रा निर्झरोर्मिरिवोत्थिता

॥१४॥

दृश्यते प्रकराभासा सदर्थे नोपयुज्यते ।

तरङ्गिण्यतरङ्गाभा स्वाकारपरिनिष्ठिता

॥१५॥

क्वचिद्वक्राः क्वचित्स्पष्टा दीर्घाः खर्वाः स्थिराश्चलाः ।

यत्प्रसादोद्भवास्तस्माद्व्यतिरेकमुपागताः

॥१५॥

अन्तःशून्यापि सर्वत्र दृश्यते सारसुन्दरी ।

न क्वचित्संस्थितापीह सर्वत्रैवोपलक्ष्यते

॥१७॥

जडैव चिन्मयीवासावन्यस्पन्दोपजीविनी ।

निमेषमप्यतिष्ठन्ती स्थैर्याशङ्कां प्रयच्छति

॥१८॥

ज्वालावच्छुद्धवर्णापि मषीमलिनकोटरा ।

वल्गत्यन्यप्रसादेन दीयते तदवेक्षणात्

॥१९॥

आलोके विमले म्लाना तमस्यपि विराजते ।

मृगतृष्णेव शुष्काभा नानावर्णविलासिनी

॥२०॥

वक्रा विषमयी तन्वी मृद्वी संकटकर्कशा ।

ललनाचञ्चला लुब्धा तृष्णा कृष्णेव भोगिनी

॥२१॥

स्वयं दीपशिखेवाशु क्षीयते स्नेहसंक्षये ।

सिन्दूरधूलिलेखेव विना रागं विराजते

॥२२॥

क्षणप्रकाशतरला कृतसंस्था जडाशया ।

मुग्धानां त्रासजननी वक्रा विद्युदिवोदिता

॥२३॥

यत्नाद्गृहीत्वा दहति भूत्वा भूत्वा प्रलीयते ।

लभ्यतेऽपि हि नान्विष्टा विद्युद्वदतिभङ्गुरा

॥२४॥

अप्रार्थितैवोपनता रमणीयाप्यनर्थदा ।

अकालपुष्पमालेव श्रेयसेनाभिनन्दिता

॥२५॥

अत्यन्तविस्मृतैवातिसुखाय भ्रमदायिनी ।

दुःस्वप्नकलनेवेयमनर्थायैव तर्किता

॥२६॥

प्रतिभासवशादेषा त्रिजगन्ति महान्ति च ।

मुहूर्तमात्रेणोत्पाद्य धत्ते ग्रासीकरोति च

॥२७॥

मुहूर्तो वत्सरश्रेणी लवणस्यानया कृता ।

रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रस्य निर्मिता

॥२८॥

वियोगिनामथान्येषां कान्ताविभवशालिनाम् ।

रात्रिर्वत्सरवद्दीर्घा भवेत्तस्याः प्रसादतः

॥२९॥

सुखितस्याल्पतामेति दुःखितस्यैति दीर्घताम् ।

कालो यस्याः प्रसादेन विपर्यासैकशीलिनाम्

॥३०॥

अस्याः स्वसत्तामात्रेण कर्तृतैतासु वृत्तिषु ।

दीपस्यालोककार्याणां यथा तद्वन्न वस्तुतः

॥३१॥

सनितम्बस्तनी चित्रे न स्त्री स्त्रीधर्मिणी यथा ।

तथैवाकारचिन्तेयं कर्तुं योग्या न किंचन

॥३२॥

मनोराज्यमिवाकारभासुरा सत्यवर्जिता ।

सहस्रशतशाखापि न किंचित्परमार्थतः

॥३३॥

अरण्ये मृगतृष्णेव मिथ्यैवाडम्बरान्विता ।

विडम्बयति तान्मुग्धमृगानेव न मानुषान्

॥३४॥

फेनमालेव संजातध्वस्ता विच्छेदवर्जिता ।

जडेव चञ्चलाकारा गृह्यमाणा न किंचन

॥३५॥

अटत्युड्डामराकारा रजःप्रसरधूसरा ।

बलात्कल्पान्तवात्येव स्वाक्रान्तभुवनान्तरा

॥३६॥

धूमालीवाङ्गसंलग्ना दाहखेदप्रदायिनी ।

गर्भीकृतरसाक्रम्य जगन्ति परिवर्तते

॥३७॥

धारा जलधरस्येव सुदीर्घा जलनिर्मिता ।

असारसंसारदृढा रज्जुस्तृणगणैरिव

॥३८॥

तरङ्गोत्पलमालेव कल्पनामात्रवर्णिता ।

मृणालीव बहुच्छिद्रा पङ्कप्रौढा जलात्मिका

॥३९॥

जनेन दृश्यते वृद्धितत्परा नच वर्धते ।

विषास्वाद इवापातमधुराऽन्ते सुदारुणा

॥४०॥

नष्टा दीपशिखेवैषा न जाने क्वेव गच्छति ।

मिहिकेवाग्रदृष्टापि गृह्यमाणा न किंचन

॥४१॥

पांसुमुष्टिरिवाकीर्य प्रेक्षिता पारमाणवी ।

आकाशनीलिमेवैषा निर्निमित्तैव दृश्यते

॥४२॥

द्विचन्द्रमोहवज्जाता स्वप्नवद्विहितभ्रमा ।

यथा नौयायिनः स्थाणुस्पन्दस्तद्वदिहोत्थिता

॥४३॥

अनयोपहते चित्ते दीर्घकालमिवाकुलैः ।

जनैराकल्प्यते दीर्घसंसारस्वप्नविभ्रमः

॥४४॥

अनयोपहते स्वस्मिंश्चित्राश्चेतसि विभ्रमाः ।

उत्पद्यन्ते विनश्यन्ति तरङ्गास्तोयधेरिव

॥४५॥

मनोज्ञमपि सत्यं च दृश्यते सदसत्तया ।

अमनोज्ञमसत्यं च दृश्यते सत्तयाप्यसत्

॥४६॥

पदार्थरथमारूढा भावनैषा बलान्विता ।

आक्रामति मनः क्षिप्रं विहगं वागुरा यथा

॥४७॥

करुणास्यन्दमानाक्षी स्रवन्क्षीरलवस्तनी ।

भवत्युल्लसितानन्दं जननी गृहिणी यथा

॥४८॥

विषीकरोति निःस्यन्दसंतर्पितजगत्त्रयम् ।

सुधार्द्रार्द्रमपि क्षिप्रं प्रवृद्धं बिम्बमैन्दवम्

॥४९॥

उन्मत्तरववेतालनर्तनारम्भसंभ्रमम् ।

स्थाणवः संप्रयच्छन्ति मूका अप्येतयान्धया

॥५०॥

संध्यादिषु च कालेषु लोष्टपाषाणभित्तयः ।

अस्याः प्रसादात्दृश्यन्ते सर्पाजगरदृष्टिभिः

॥५१॥

एकोऽपि द्वितयोदेति यथा द्विशशिदर्शने ।

दूरमभ्याशतां याति स्वप्ने स्वमरणं यथा

॥५२॥

आदीर्घं क्षणतामेति कालस्येष्टा यथा निशा ।

क्षणो वर्षमिवाभाति कान्ताविरहिणामिव

॥५३॥

न तदस्तीह यन्नाम न करोतीयमुद्धता ।

अस्यास्त्वकिंचनायास्तु शक्ततां पश्य राघव

॥५४॥

संरोधयेत्प्रयत्नेन संविदेवाशु संविदम् ।

सरित्स्रोतोनिरोधेन शुष्यत्येषा मनोनदी

॥५५॥

श्रीराम उवाच ।

अविद्यमानयैवेदं पेलवांग्या सुतुच्छया ।

मिथ्याभावनया नाम चित्रमन्धीकृतं जगत्

॥५६॥

अरूपया निराकृत्या चारुचेतनहीनया ।

असत्येवाप्यनश्यन्त्या चित्रमन्धीकृतं जगत्

॥५७॥

आलोकेन विनश्यन्त्या स्फुरन्त्या तमसोन्तरे ।

कौशिकेक्षणधर्मिण्या चित्रमन्धीकृतं जगत्

॥५८॥

कुकर्मैकान्तकारिण्या न सहन्त्या विलोकनम् ।

देहमप्यविजानन्त्या चित्रमन्धीकृतं जगत्

॥५९॥

सुदीनाचारधर्मिण्या नित्यं प्राकृतकान्तया ।

अनारतास्तंगतया चित्रमन्धीकृतं जगत्

॥६०॥

अनन्तदुःखाकुलया सदैव मृतयानया ।

संबोधहीनया यत्र चित्रमन्धीकृतं जगत्

॥६१॥

कामकोपघनाङ्गिन्या तमःप्रसरवक्रया ।

अचिरेणाशरीरिण्या चित्रमन्धीकृतं जगत्

॥६२॥

स्वात्मान्धरूपास्पदया जडया जाड्यजीर्णया ।

दुःखदीर्घप्रलापिन्या चित्रमन्धीकृतं जगत्

॥६३॥

पुरुषासङ्गसङ्गिन्या रागिण्या क्रिययानया ।

विद्रवन्त्या विवक्षासु चित्रमन्धीकृतः पुमान्

॥६४॥

पुरुषस्य न या शक्ता सोढुमीक्षितुमप्यलम् ।

तया स्त्रियावरणया चित्रमन्धीकृतः पुमान्

॥६५॥

न यस्याश्चेतनैवास्ति याप्यनष्टैव नश्यति ।

तया स्त्रिया परुषया चित्रमन्धीकृतः पुमान्

॥६६॥

अनन्तदुष्प्रसरविलासकारिणी

क्षयोदयोन्मुखसुखदुःखभागिनी ।

इयं प्रभो विगलति केन वाऽसमा

मनोगुहानिलयनिबद्धवासना

॥६७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे अविद्यावर्णनं नाम त्रयोदशोत्तरशततमः सर्गः ।। ११३ ।।