मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ८५

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 85

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवं शिखिध्वजः पूर्णमठिकायां वने स्थितः ।

इदानीं श्रृणु चूडाला सा किं कृतवती गृहे

॥१॥

तत्रार्धरात्रसमये दूरं याते शिखिध्वजे ।

हरिणी ग्रामसुप्तेव चूडाला बुबुधे भयात्

॥२॥

अपश्यत्पतिनिर्हीना शयनं शून्यता गतम् ।

अभास्करमपूर्णेन्दु शान्तशोभमिवाम्बरम्

॥३॥

उत्तस्थौ किंचिदाम्लानवदना खेदशालिनी ।

कुसिक्तेव महावल्ली निरुत्साहाङ्गपल्लवा

॥४॥

न प्रसन्ना न विमला बभूवाकुलतां गता ।

दिनश्रीरिव नीहारधूसरा सा व्यतिष्ठत

॥५॥

क्षणं शय्योपविष्टैव चिन्तयामास चिन्तया ।

कष्टं राज्यं प्रभुस्त्यक्त्वा वनं यातो गृहादिति

॥६॥

तन्मयेहाद्य किं कार्यं तत्समीपं व्रजाम्यहम् ।

भर्तैव गतिरुद्दिष्टा विधिना प्रकृता स्त्रियः

॥७॥

इति संचिन्त्य भर्तारमनुगन्तुं समुत्थिता ।

चूडाला वातरन्ध्रेण निर्गत्याम्बरमाययौ

॥८॥

बभ्रामाम्बरमार्गेण वातस्कन्धेन योगिनी ।

कुर्वती सिद्धसार्थस्य मुखेनान्येन्दुविभ्रमम्

॥९॥

ददर्शाथ यथायातं रात्रौ खङ्गधरं पतिम् ।

भ्रमन्तमेकमेकान्ते वेतालसमयोदितम्

॥१०॥

तादृशं पतिमालोक्य स्थित्वा गगनकोटरे ।

भविष्यच्चिन्तयामास सर्वं भर्तुरखण्डितम्

॥११॥

यथा येन यदा यत्र यावत्कार्यं यथोदयम् ।

यथा च निर्वृतिः स्फारा गन्तव्या तेन राघव

॥१२॥

अवश्यं भवितव्यं तद्भर्तुर्दृष्ट्वा पुरः स्थितम् ।

तदेव संवादयितुं गमनात्सा न्यवर्तत

॥१३॥

आस्तां ममाद्य गमनं काले नातिचिरेण हि ।

मयास्य पार्श्वे गन्तव्यं नियतेरेष निश्चयः

॥१४॥

इति संचिन्त्य चूडाला प्रविश्यान्तःपुरं पुनः ।

सुष्वाप शयने शंभोः शिरसीवैन्दवी कला

॥१५॥

केनचित्कारणेनासौ गतः संप्रति भूपतिः ।

इति पौरं जनं सर्वमाश्वास्यातिष्ठदङ्गना

॥१६॥

राज्यं ररक्ष भर्तुस्तत्क्रमेण समदर्शनात् ।

यथा कालेन केदारं पक्वं कलमगोपिका

॥१७॥

तयोस्तदाऽवहत्कालो दंपत्योः स्थितयोस्तथा ।

अदृष्टान्योन्यमुखयो राज्यकाननपालयोः

॥१८॥

जगामाथ दिनं पक्षो मासोऽथ ऋतुवत्सरः ।

शिखिध्वजस्य विपिने चूडालायाः स्वमन्दिरे

॥१९॥

बहुनात्र किमुक्तेन वर्षाण्यष्टादशाङ्गना ।

चूडालोवास सदने वनगुच्छे शिखिध्वजः

॥२०॥

अथ यातेषु बहुषु वर्षेषु जरसा वृते ।

शिखिध्वजे महाशैलतटकोटरवासिनि

॥२१॥

भर्तुः कषायपाकं तदालक्ष्य पालितं चिरात् ।

तदा तस्याथ यातेषु वर्षेषु जरसा वने

॥२२॥

तदा तस्यात्मकार्यस्य भवितव्यतया तथा ।

भर्तुः समीपगमने मम कालोऽयमित्यथ

॥२३॥

संचिन्त्य मन्दरोपान्तं गन्तुं बुद्धिं चकार सा ।

चचारान्तःपुराद्रात्रौ ततार नभसः पथम्

॥२४॥

जगाम वातस्कन्धेन गच्छन्ती खे ददर्श सा ।

कल्पवृक्षांशुकच्छन्नरत्नस्तबकभूषिताः

॥२५॥

नन्दनोद्याननिलया रक्ताः सिद्धाभिसारिकाः ।

परामृष्टेन्दुशकलान्प्रालेयकणवर्षिणः

॥२६॥

सिद्धोत्तमात्तसौगन्ध्यान्स्पर्शयामास मारुतान् ।

चन्द्रबिम्बामृताम्भोधेर्महावीचिपरम्पराम्

॥२७॥

अपश्यन्निर्मलज्योत्स्नामम्बरान्तरतां गता ।

मेघान्तरेण गच्छन्ती मेघलग्नाश्च विद्युतः

॥२८॥

अवियुक्ताः स्वभर्त्रा सा भूयो भूयो व्यलोकयत् ।

उवाच चात्मनैवाहो यावज्जीवं शरीरिणाम्

॥२९॥

न स्वभावः शमं याति ममाप्युत्कण्ठितं मनः ।

कदा मृगेन्द्रस्कन्धं तं प्रणयप्रवणं पुनः

॥३०॥

पश्यामि कान्तमित्युक्तं ममाप्युत्कण्ठते मनः ।

मञ्जरीजालवलितास्तरुं वल्ल्यः स्वकं पतिम्

॥३१॥

न मुञ्चन्ति क्षणमिति ममाप्युत्कण्ठते मनः ।

यथेयमग्रजा कान्तमेति सिद्धाभिसारिका

॥३२॥

तथा कदाहमेष्यामि ममापीति मनः स्थितम् ।

इमे मन्दाश्च मरुत एते च शशिनः कराः

॥३३॥

वनराजय एताश्च ममाप्युत्कण्ठयन्त्यहो ।

हे चित्ताज्ञ मुधैवान्तः किं त्वं ताण्डवितं स्थितम्

॥३४॥

सा व्योमनिर्मला साधो क्व ते याता विवेकिता ।

अथवा चित्त भर्तारं स्वं प्रत्युत्कण्ठसे सखे

॥३५॥

तिष्ठोत्कण्ठाभिवलितं किं समुत्कण्ठितेन मे ।

किं वृथोत्कण्ठसे वामे भर्ता यातो जरां भवेत्

॥३६॥

तपस्वी कृशगात्रश्च भवेन्निर्वासनस्तथा ।

मनो राज्याद्यभोगेभ्यो मन्येऽस्यामूलतां गतम्

॥३७॥

वासनालतिका प्रावुण्नदी नदगता यथा ।

एकान्तरत एकात्मा नीरसः शान्तवासनः

॥३८॥

मन्ये भवति मे भर्ता शुष्कवृक्षसमस्थितिः ।

तथापि चित्त कोत्कण्ठा भवतोत्कण्ठयान्वितम्

॥३९॥

मतिमुद्बोध्य योगेन श्लेषयिष्याम्यहं पतिम् ।

प्रमृष्टकलनं भर्तुः समीकृत्य मनो मुनेः

॥४०॥

राज्य एव नियोक्ष्यामि निवत्स्यावः सुखं चिरम् ।

अहो नु चिरकालेन मनोरथमिमं शुभम्

॥४१॥

अहमासादयिष्यामि यद्भर्ता समचिन्तितः ।

समग्रानन्दवृन्दानामेतदेवोपरि स्थितम्

॥४२॥

यत्समानमनोवृत्तिसङ्गमास्वादने सुखम् ।

इति चिन्तयती व्योम्ना चूडालोल्लङ्घ्य पर्वतान्

॥४३॥

देशानब्दान्दिगन्तांश्च प्राप मन्दरकन्दरम् ।

अदृश्यैव नभःस्थैव प्रविवेश वनान्तरम्

॥४४॥

वात्येव पादपलतास्पन्दवेद्यगमागमा ।

वनैकदेशे कस्मिंश्चित्कृतपर्णोटजे पतिम्

॥४५॥

दृष्ट्वा योगेन बुबुधे देहान्तरमिवास्थितम् ।

हारकेयूरकटककुण्डलादिविभूषितः

॥४६॥

अभवन्मेरुकान्तिर्यस्तमेवात्र ददर्श सा ।

कृशाङ्गं कृष्णवर्णं च जीर्णपर्णमिव स्थितम्

॥४७॥

कज्जलाम्बुभरस्नातं भृङ्गीशमिव निस्पृहम् ।

चीराम्बरधरं शान्तमेकाकिनमवस्थितम्

॥४८॥

स्थलीनिषण्णं पुष्पाणि ग्रथयन्तं जटाङ्कितम् ।

तमालोक्यानवद्याङ्गी चूडाला पीवरस्तनी

॥४९॥

किंचिज्जातविषादैवमुवाचात्मनि चेतसा ।

अहो नु विषमं मौर्ख्यं तदनात्मज्ञतात्मकम्

॥५०॥

एवंविधाः समायान्ति दशा मौर्ख्यप्रसादतः ।

अयं स राजा लक्ष्मीवान्यतो मेऽतिप्रियः पतिः

॥५१॥

हृदि मोहघनक्षुऽण्णामिमामभ्यागतो दशाम् ।

तदवश्यमिहाद्यैव नाथं विदितवेद्यताम्

॥५२॥

नयाम्यत्र न संदेहो भोगमोक्षश्रियं तथा ।

इदं रूपं परित्यज्य रूपेणान्येन केनचित्

॥५३॥

सकाशमस्य गच्छामि बोधं दातुमनुत्तमम् ।

बालेयं मम कान्तेति मदुक्तं न करोत्यलम्

॥५४॥

तस्मात्तापसरूपेण बोधयामि पतिं क्षणात् ।

भर्ता कषायपाकेन परिपक्वमतिः स्थितः

॥५५॥

चेतस्यस्याद्य विमले स्वं तत्त्वं प्रतिबिम्बति ।

इति संचित्य चूडाला बभूव द्विजदारकः

॥५६॥

ईषद्ध्यानाद्गतान्यत्वं क्षणादम्बुतरङ्गवत् ।

पपात विपिने तस्मिन्द्विजपुत्रकरूपिणी

॥५७॥

भर्तुरध्याजगामाग्रं मन्दस्मितलसन्मुखी ।

ददर्श द्विजपुत्रं तं पुरो यातं शिखिध्वजः

॥५८॥

वनान्तरादुपायातं तपो मूर्तिमिवास्थितम् ।

द्रवत्कनकगौराङ्गं मुक्ताहारविभूषितम्

॥५९॥

शुक्लयज्ञोपवीताङ्गं शुक्लाम्बरयुगावृतम् ।

कमण्डलुधरं कान्तं पुरो यातं शिखिध्वजः

॥६०॥

व्याप्तप्रकोष्ठद्विगुणेनाक्षसूत्रेण चारुणा ।

भूमावलग्नगात्रेण किष्कुमात्रेण च स्थितम्

॥६१॥

कुन्तलव्याप्तमूर्धानं सालिमालमिवाम्बुजम् ।

भासयन्तं प्रदेशं तं शारीरैर्दीप्तिमण्डलैः

॥६२॥

कुण्डलाभूषितमुखं नवमर्कमिवोदितम् ।

शिखासंप्रोतमन्दारं श्रृङ्गस्थेन्दुमिवाचलम्

॥६३॥

कान्तोपशान्तवपुषमूर्जितं विजितेन्द्रियम् ।

हिमाभभस्मतिलकं भूषितालोकसुन्दरम्

॥६४॥

मेरुहेमतटीलीनपूर्णेन्दुमिव चञ्चलम् ।

तमालोक्य द्विजसुतं समुत्तस्थौ शिखिध्वजः

॥६५॥

देवपुत्रागमधिया संपरित्यक्तपादुकः ।

देवपुत्र नमस्कार इदमासनमास्यताम्

॥६६॥

इत्यस्य दर्शयामास पाणिना पत्रविष्टरम् ।

ददौ च द्विजपुत्रस्य पुष्पमुष्टिं करोत्करे

॥६७॥

चन्द्रः कुमुदखण्डस्य प्रालेयमिव पल्लवे ।

हे राजर्षे नमस्तुभ्यमिति द्विजसुतोऽवदत्

॥६८॥

गृहीत्वा कुसुमान्यस्माद्विवेश पत्रविष्टरे ।

शिखिध्वज उवाच ।

देवपुत्र महाभाग कुत आगमनं कृतम् ।

दिवसः सफलो मन्ये यत्त्वामद्यास्मि दृष्टवान्

॥६९॥

इदमर्घ्यमिदं पाद्यं पुष्पाणीमानि मानद ।

इमा प्रग्रथिता माला गृह्यन्तां भद्रमस्तु ते

॥७०॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा पाद्यमर्घ्यं च मालां पुष्पाणि चानघ ।

शिखिध्वजस्तदिष्टायै ददौ देव्यै यथाखिलम्

॥७१॥

चूडालोवाच ।

सुबहूनि परिभ्रान्तो भूतलायतनान्यहम् ।

त्वत्तः पूजा यथा प्राप्ता मयेयं न तथान्यतः

॥७२॥

पेशलेनानुरूपेण प्रश्रयेणामुनानघ ।

मन्येऽहं नूनमत्यन्तचिरंजीवी भविष्यसि

॥७३॥

शान्तेन मनसोदारमारादुन्मुक्तकल्पनम् ।

निर्वाणार्थं तपः साधो कच्चित्संभृतवानसि

॥७४॥

असिधारासमं सौम्य शान्तव्रतमिदं तव ।

स्फीतं यद्राज्यमुत्सृज्य महावननिषेवणम्

॥७५॥

शिखिध्वज उवाच ।

जानासि भगवन्सर्वं देवस्त्वं कोऽत्र विस्मयः ।

श्रियैव लोकोत्तरया ज्ञायसे चिह्नरूपया

॥७६॥

एतान्यङ्गानि ते चन्द्राद्धटितानीति मे मतिः ।

अथवा किं समालोकादमृतेनेव सिञ्चसि

॥७७॥

अस्ति मे दयिता कान्ता पाति मद्राज्यमद्य तत् ।

तवेव तस्या दृष्टानि तान्यङ्गानीह सुन्दर

॥७८॥

उपशान्तं च कान्तं च वपुरापादमस्तकम् ।

श्रृङ्गं शुभ्राम्बुदेनेव पुष्पेणाच्छादयामुना

॥७९॥

निष्कलङ्केन्दुसंकाशमङ्गमादित्यतेजसा ।

मन्ये ते ग्लानिमायाति सुमनःपत्रपेलवम्

॥८०॥

देवार्चनायोपचितमिदमित्थं सितं मया ।

अङ्ग त्वदङ्गसङ्गेन तत्प्रयातु कृतार्थताम्

॥८१॥

जीवितं याति साफल्यं स्वमभ्यागतपूजया ।

देवादप्यधिकं पूज्यः सतामभ्यागतो जनः

॥८२॥

तत्कस्त्वं कस्य पुत्रस्त्वं किमायातोऽस्यनुग्रहात् ।

एतन्मे संशयं छिन्धि विमलेन्दुसमानन

॥८३॥

ब्राह्मण उवाच ।

राजन्मे शृणु वक्ष्यामि यथापृष्टमखण्डितम् ।

को नाम परिपृच्छन्तं विनीतं वञ्चयेत्पुमान्

॥८४॥

अस्त्यस्मिञ्जगतीकोशे शुद्धात्मा नारदो मुनिः ।

पुण्यलक्ष्म्या मुखे कान्ते कर्पूरतिलकोपमः

॥८५॥

स कदाचिन्मुनिर्देवो गुहायां ध्यानमास्थितः ।

तत्र हेमतटे गङ्गा वहत्युरुतरङ्गिणी

॥८६॥

मेरुलक्ष्म्यां स्फुरद्रूपा भान्ति हारलता यथा ।

एकदा नारदमुनिर्ध्यानान्ते स सरित्तटे

॥८७॥

ध्वनद्वलयमश्रौषील्लीलाकलकलारवम् ।

किमेतदित्यसौ किंचिज्जातप्रायकुतूहलः

॥८८॥

हेलयालोकयन्नद्यामपश्यल्ललनागणम् ।

रम्भातिलोत्तमाप्रायं निर्यातं जललीलया

॥८९॥

क्रीडन्तं त्यक्तवसनं देशे पुरुषवर्जिते ।

काञ्चनाम्भोजमुकुलसंकाशैः स्तनमण्डलैः

॥९०॥

परिवेल्लितमन्योन्यं फलकान्तं द्रुमं यथा ।

द्रुतहेमरसापूरनिर्भराभोगभासुरैः

॥९१॥

कुर्वन्तमुरुभिः काममन्दिरस्तम्भसंचयम् ।

निर्मलीकृतचन्द्रेण व्याप्तां व्योमविलासिनीम्

॥९२॥

लावण्यरसपूरेण तर्जयन्तमिवापगाम् ।

प्राकारैरमरोद्यानरथचक्रैर्मनोभुवः

॥९३॥

उत्पथार्पितगङ्गाम्बु नितम्बतटसेतुभिः ।

सर्वत्र दृष्टसर्वाङ्गं विश्वरूपमिव स्थितम्

॥९४॥

प्रतिबिम्बितसर्वाङ्गमन्योन्यादर्शतां गतम् ।

कालकल्पतरोर्वर्षविटपात्पक्षपल्लवात्

॥९५॥

विविधर्तुलताजालाद्दिनश्रीकलिकाकुलात् ।

आलोकपुष्परजसो जाताद्गगनकानने

॥९६॥

स्फुरज्जलखगप्रोतात्सप्ताब्ध्येकालवाडकात् ।

स्तनस्तबकवृन्देषु स्पर्धयातिरसान्वितम्

॥९७॥

उद्धृत्योद्धृत्य संपूर्णदलिताम्भोजपल्लवम् ।

आलोलालककेशाक्षितारकादिमधुव्रतम्

॥९८॥

अमृतापद्विघाताय कोशसंचयकारिभिः ।

दुष्प्रापे भूतसंघानां विकसत्कनकाम्बुजे

॥९९॥

पद्मिनीपल्लवाच्छन्ने गुप्ते मेरोर्गुहान्तरे ।

शीतले स्वर्धुनीतीरे तोयोन्मृष्टमले सुरैः

॥१००॥

चन्द्रबिम्बकलापूरमेकत्रैवोपसंहृतम् ।

स्त्रैणमालोक्य तत्कान्तं सहसैव मनो मुनेः

॥१०१॥

अनाश्रितविवेकांशं बभूवानन्दितं स्फुरत् ।

आनन्दवलिते चित्ते क्षुब्धे प्राणानिले स्थिते

॥१०२॥

बभूव तस्य हृष्टस्य मदनस्खलितं तदा ।

फलं रसापूर्णमिव ग्रीष्मान्त इव तोयदः

॥१०३॥

प्रत्यग्रपादपश्छिन्नलतावृन्त इवोत्तम ।

अवश्यायकणस्पन्दी शशाङ्क इव वा मुनिः

॥१०४॥

विसं द्विधापातमिव गलत्साररसोऽभवत् ।

शिखिध्वज उवाच ।

तादृशोऽपि बहुज्ञोपि जीवन्मुक्तोऽप्यसौ मुनिः

॥१०५॥

निरिच्छोऽपि निरागोपि न किंचिदुपमोऽप्यलम् ।

सबाह्याभ्यन्तरं नित्यमाकाशविशदोपि च

॥१०६॥

नारदोपि कथं ब्रह्मन् मदनस्खलितोऽभवत् ।

चूडालोवाच ।

सर्वस्या एव राजर्षे भूतजातेर्जगत्र्त्रये

॥१०७॥

देवादेरपि देहोयं द्वयात्मैव स्वभावतः ।

अज्ञमस्त्वथ तज्ज्ञं वा यावत्स्वान्तं शरीरकम्

॥१०८॥

सर्वमेव जगत्यङ्ग सुखदुःखमयं स्मृतम् ।

तृप्त्यादिना पदार्थेन केनचिद्वर्धते सुखम्

॥१०९॥

आलोक इव दीपेन महाम्बुधिरिवेन्दुना ।

क्षुधादिना पदार्थेन दुःखं केनचिदेव हि

॥११०॥

तमो मेघपटेनेव स्वभावो ह्यत्र कारणम् ।

स्वरूपे निर्मले सत्ये निमेषमपि विस्मृते

॥१११॥

दृश्यमुल्लासमाप्नोति प्रावृषीव पयोधरः ।

अनारतानुसंधानादप्युन्मेषमविस्मृते

॥११२॥

स्वरूपे नोल्लसत्येष चित्ते दृश्यपिशाचकः ।

यथा तमःप्रकाशाभ्यामहोरात्रौ स्थितिं गतौ

॥११३॥

तथैव सुखदुःखाभ्यां शरीरं स्थितिमागतम् ।

एवं हि सुखदुःखे द्वे जन्मकारणदर्शनात्

॥११४॥

अक्षस्य गाढतां याते पटे कुङ्कुमवद्दृढम् ।

तज्ज्ञस्य त्वङ्ग लगतो मनागपि न तद्वशात्

॥११५॥

यथा शुभाशुभौ रागादिनाक्रान्ततरौ मणेः ।

पुरःस्थवस्तुभावेन रञ्जनां स्फटिको यथा

॥११५॥

तज्ज्ञस्तथा नैति बोधाज्जीवन्मुक्तमतिर्मुनिः ।

वस्तुनः श्लेषमात्रेण घनरञ्जितमेति धीः

॥११७॥

गतेऽपि वस्तुनि दृढं बुद्धिर्यत्परितापिता ।

गतेऽपि कुङ्कुमे वस्त्रं तदीयमनुरञ्जनम्

॥११८॥

न जहाति यथा मूढस्तथा विषयरञ्जनम् ।

अनेनैव क्रमेणैतौ बन्धमोक्षौ व्यवस्थितौ

॥११९॥

भावनातानवं मोक्षो बन्धो हि दृढभावना ।

शिखिध्वज उवाच ।

स्वोत्पत्तिकारणप्राप्तौ कथं दुःखं सुखं च वा

॥१२०॥

अभ्युदेतीति वद मे दूरस्थानामपि प्रभो ।

अत्युदारमतीवाच्छं बह्वर्थं वचनं तव

॥१२१॥

श्रोतुं तृप्तिं न गच्छामि मयूरोऽभ्ररवेष्विव ।

चूडालोवाच ।

स्वोत्पत्तिकारणं हृद्यं लब्ध्वा कायाक्षिपाणिभिः

॥१२२॥

सुखसंविदियं बाला नूनमुल्लसति स्वतः ।

हृद्गता क्षोभमायाता जीवं कुण्डलिनीगतम्

॥१२३॥

जीवस्य नियता नाड्यः पृथग्देहे स्थितिं गताः ।

प्राणावपूरिता नाडीर्जीव आक्रामति स्फुरन्

॥१२४॥

संस्पर्शैकप्रबुद्धात्मा रसो द्रुमलता इव ।

सुखप्रबोधसंचारे दुःखबोधागमे तथा

॥१२५॥

जीवस्य नियता नाड्यः पृथग्देहस्थितिं गताः ।

सुखिनः प्रस्फुरत्येषा धीरताशु न दुःखिनः

॥१२६॥

ते हि मार्गाः सुवेषस्य कुवेषस्य न ते शुभाः ।

यावत्प्रमाणं जीवोऽयं संशाम्यत्यपरिस्फुरन्

॥१२७॥

तावत्प्रमाणमेवैनं मुक्तं मुक्तमवेहि वै ।

यावत्प्रमाणमधिकं स्फुरति क्षुब्धमारुतम्

॥१२८॥

तावत्प्रमाणमेवैनं बद्धं बद्धमवेहि मे ।

सुखदुःखकलास्पन्दो बन्धो जीवस्य नेतरः

॥१२९॥

तदभावे हि मोक्षः स्यादिति द्वेधा व्यवस्थितिः ।

सुखदुःखदशे यावदानीते नेन्द्रियैः शठैः

॥१३०॥

तावत्सुखसमः सौम्यो जीवस्तिष्ठति शान्तवत् ।

सुखमालोक्य वा दुःखमक्षातीतश्चलद्वपुः

॥१३१॥

समुल्लसति जीवोऽन्तर्दृष्ट्वेन्दुमिव तोयधिः ।

जीवः क्षुभ्यति दृष्टेन संविदांग सुखादिना

॥१३२॥

आमिषेणेव मार्जारो मौर्ख्यमेवात्र कारणम् ।

शुद्धेन बोध्यबोधेन स्वात्मज्ञानमयात्मना

॥१३३॥

सुखदुःखादि नास्तीति तेनासौ याति सौम्यताम् ।

न तत्सुखादि नो तन्मे मुधा चायमहं स्थितः

॥१३४॥

इति जीवः प्रबुद्धो हि निर्वाणं याति शाम्यति ।

सुखाद्यवस्त्वतद्रूपमित्यन्तर्बोधसंविदा

॥१३५॥

न तदुन्मुखतां याति जीवः शाम्यति केवलम् ।

सर्वमेव चिदाकाशं ब्रह्मेति घननिश्चये

॥१३६॥

स्थितिं याते शमं याति जीवो निःस्नेहदीपवत् ।

दीपवच्छममायाति सुखादिस्नेहसंक्षये

॥१३७॥

सर्वमेवमिति ज्ञानाज्जीवोऽद्वित्वविभावनात् ।

सर्वमाकाशमेवेति बुद्ध्वा क्षोभं न गच्छति

॥१३८॥

जीवस्यानेन शून्यस्य कः किल क्षोभविभ्रमः ।

जीवेनेदृग्विधेनैव यथा प्रथमसर्गतः

॥१३९॥

स्वयं संविदितो मार्गस्तेनैवाद्यापि गच्छति ।

शिखिध्वज उवाच ।

सुखसंचारयोग्यासु जीवे सरति नाडिषु

॥१४०॥

देवपुत्र भवत्येव तद्वीर्यच्यवनं कथम् ।

चूडालोवाच ।

जीवः क्षोभयति क्षुब्धः प्राणादिपवनावलिम्

॥१४१॥

संविदा ज्ञांशमात्रेण सेनामिव महीपतिः ।

वातस्पन्देन मेदोऽन्तर्मज्जासारश्च संस्थितः

॥१४२॥

त्यजत्याशु प्रसौगन्ध्यं रजः पत्रफलादिकम् ।

चलितं तत्त्वधो याति गर्जादिव घनादि खे

॥१४३॥

देहनाडीप्रणालेन याति शुक्रं बहिः स्वतः ।

शिखिध्वज उवाच ।

देवपुत्रमहाज्ञोऽसि वेत्सि पूर्वां च तत्स्थितिम्

॥१४४॥

ज्ञायसे वचनादेव स्वभावो हि किमुच्यते ।

चूडालोवाच ।

आद्यसर्गे यथा सद्यः स्फुरितं ब्रह्म ब्रह्मणि

॥१४५॥

घटावटपटाद्यात्म तथैवाद्यव्यवस्थितम् ।

काकतालीयवद्वारिबुद्बुदोत्पत्तिनाशवत् ।

घुणाक्षरवदुच्छूनं तं स्वभावं विदुर्बुधाः

॥१४६॥

अस्मिन्स्वभाववशतो जगति प्ररूढे

देहा भ्रमन्ति परितो विविधा विकाराः ।

प्रक्षीणवासनतया न भवन्ति केचि-

द्भूयो भवन्ति च पुनस्त्वितरे घनास्थाः

॥१४७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० सुखविचारयोगोपदेशो नाम पञ्चाशीतितमः सर्गः ।। ८५।।