मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ४१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 41

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अस्वभावस्वभावोऽयं सर्वोऽहंतादिवेदनः ।

स्वभावैकस्वभावेन निर्वाणीक्रियतां स्वयम्

॥१॥

यत्रादित्यो भवेत्तत्र यथालोकस्तथा भवेत् ।

परं विषयवैरस्यं तत्र यत्र प्रबुद्धधीः

॥२॥

अकर्तृकर्मकरणमदृश्यद्रष्टृदर्शनम् ।

जगदग्राह्यसंभारमभित्तौ चित्रमुत्थितम्

॥३॥

न चोत्थितं किंच न वा शान्ते शान्तं यथास्थितम् ।

अनामयं परं ब्रह्म सत्यमव्ययमेव तत्

॥४॥

चिच्चमत्कारमात्रात्मकल्पनारङ्गरञ्जनाः ।

संख्यातुं केन शक्यन्ते खे जगच्चित्रपुत्रिकाः

॥५॥

रसभावविकाराढ्यं नृत्यन्त्यभिनयैर्नवैः ।

परमाणुप्रति प्रायः खे स्फुरन्त्यम्बरात्मिकाः

॥६॥

सर्वर्तुशेखरधरा दिग्बाहुलतिकाकुलाः ।

पातालपादलतिका ब्रह्मलोकशिरोधराः

॥७॥

चन्द्रार्कलोलनयनास्तारोत्करतनूरुहाः ।

सप्तलोकाङ्गलतिकाः परितोच्छाम्बराम्बराः

॥८॥

द्वीपाम्बुराशिवलया लोकालोकाद्रिमेखलाः ।

भूतभारचलज्जीवप्रवहत्प्राणमारुताः

॥९॥

वनोपवनविन्यासहारकेयूरभूषिताः ।

पुराणवेदवचनाः क्रियाफलविनोदनाः

॥१०॥

त्रिजगत्पुत्रिकानृत्यं यदिदं दृश्यते पुरः ।

ब्रह्मवारिद्रवत्वं तत्तद्ब्रह्मानिलवेपनम्

॥११॥

अस्वभावस्थितैवास्य कारणं कारणात्मकम् ।

असुषुप्तं स्थिता स्वापे स्वप्नस्येव सतीव सा

॥१२॥

असुषुप्तसुषुप्तस्थः स्वभावं भावयन्भव ।

जाग्रत्यपि गतव्यग्रो मा स्वप्नमिदमाश्रय

॥१३॥

यज्जाग्रति सुषुप्तत्वं बोधादरसवासनम् ।

तं स्वभावं विदुस्तज्ज्ञा मुक्तिस्तत्परिणामिता

॥१४॥

अकर्तृकर्मकरणमदृश्यद्रष्टृदर्शनम् ।

अरूपालोकमननं स्थितं ब्रह्म जगत्तया

॥१५॥

कान्ते कान्तं प्रकचति पूर्णे पूर्णं व्यवस्थितम् ।

द्वित्वैक्यरहिते भाति द्वित्वैक्यपरिवर्जितम्

॥१६॥

सत्यं सत्ये स्थितं शान्तं सर्गात्मन्यात्मनि स्वयम् ।

आकाशकोशसदृशं शिलाजठरसंनिभम्

॥१७॥

सुरत्नजठराकारं घनमप्यम्बरोपमम् ।

प्रतिबिम्बमिव क्षुब्धमप्यक्षुब्धमसच्च सत्

॥१८॥

भविष्यन्नवनिर्माणं चेतसीव स्थितं पुरम् ।

ब्रह्म बृंहितभारूपमभेदीकृतमानसम्

॥१९॥

यथा संकल्पनगरं संकल्पान्नैव भिद्यते ।

तथायं जगदाभासः परमार्थान्न भिद्यते

॥२०॥

हेमपीठमिवानेकभविष्यत्संनिवेशवत् ।

लक्ष्यमाणमपि स्फारं शान्तमव्ययमास्थितम्

॥२१॥

अजस्रनाशोत्पादाढ्यमेकरूपमनामयम् ।

अनाशोत्पादमजरमनेकमिव कान्तिमत्

॥२२॥

ब्रह्मैव शान्तिघनभावगतं विभाति

सर्गोदयेन विगतास्तमयोदयेन ।

व्योमेव शून्यविभवेन गलत्स्वभाव-

लाभं प्रति प्रसभमेव ननु प्रबुद्धे

॥२३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो ० निर्वाणप्रकरणे उ० स्वरूपविश्रान्त्यर्थमुपदेशकरणं नामैकचत्वारिंशः सर्गः ।। ४१ ।।