मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १३४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 134

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

विपश्चिदुवाच ।

एतस्मिन्नन्तरे व्योम्नः स पतन्पुरुषो मया ।

स्थमिताखिलभूपीठः शवरूपो विलोकितः

॥१॥

स यावदुदराभिख्यो देहभागोऽस्य येन भूः ।

सप्तद्वीपापि पिहिताऽमातुः शैलोपमो महान्

॥२॥

वह्निनोक्तमनन्तं तत्तद्भुजोरुशिरश्च मे ।

लोकालोकात्परं पारं प्राप्तं ह्यविषये नृणाम्

॥३॥

व्योमवासिचये देवीमथ स्तुवति सादरम् ।

व्योम्नः प्रकटतामागाच्छुष्का नु भवति स्वयम्

॥४॥

प्रेतवृन्दैरनुगता मातृमण्डललालिता ।

कुम्भाण्डयक्षवेतालजालतारकिताम्बरा

॥५॥

शिरालदीर्घदोर्दण्डवनीकृतनभस्तला ।

किरन्ती कीर्णदिग्दाहैर्दृष्टिपातैर्दिवाकरान्

॥६॥

स्फुरन्नानायुधाकारकचज्झणझणध्वनि ।

शतखण्डं खगानीकं कुर्वाणा व्योमकोटरे

॥७॥

देहज्वालेक्षणोष्माढ्यैः शरीरावयवैस्त्विषः ।

दीर्घवेणुवनाकाराः किरन्ती कोटियोजनाः

॥८॥

दन्तकान्तीन्दुविद्योतदुग्धस्नपितदिङ्मुखा ।

कृशातिदीर्घविस्तीर्णशरीरापूरिताम्बरा

॥९॥

निरालम्बास्पदा सांध्या विततेवाभ्रमालिका ।

प्रेतासनसमारूढा सुरूढा परमे पदे

॥१०॥

स्फुरन्ती प्रज्वलद्रूपा संध्या जलधरारुणा ।

दधाना गगनाम्भोधौ वाडवज्वलनश्रियम्

॥११॥

शवैः शवाङ्गैर्मुसलैः प्रासतोमरमुद्गरैः ।

वृसिकोलूखलहलैः किरन्ती चञ्चला स्रजः

॥१२॥

प्रजां कटकटाटोपैर्वहन्ती गगनाङ्गणे ।

दृषदां घर्घरारावैः प्रावृङ्गिरिरिवाचले

॥१३॥

देवा ऊचुरयं देवि उपहारीकृतोऽम्बिके ।

सार्धं स्वपरिवारेण शीघ्रमाह्रियतामिति

॥१४॥

वदत्येवं सुरानीके तं शवं प्राणवायुना ।

देवी प्रववृते रक्तसारमाक्रष्टुमञ्जसा

॥१५॥

प्राणेनाकृष्यमाणं तद्रक्तं भगवतीमुखे ।

अविशत्सांध्यमेघौघ इव मेरोर्गुहान्तरम्

॥१६॥

तावद्रक्तं तया पीतं प्राणाकृष्टं नभःस्थया ।

यावच्छुष्का सती तृप्ता पीना सा चंडिका स्थिता

॥१७॥

ततो बभूव सा रक्तपरिपीनशरीरिणी ।

रक्ता वर्षाभ्रमालेव तडित्तरललोचना

॥१८॥

लम्बोदरा भगवती विषमाहिविभूषणा ।

रक्तासवमदक्षीबा समस्तायुधधारिणी

॥१९॥

व्योम्नि नर्तनमारेभे स्वशरीरार्धपूरिते ।

पर्यन्तगिरिमालाग्रस्थितामरनिरीक्षिता

॥२०॥

ततः पिशाचकुम्भाण्डरूपिकादिमहागणाः ।

शवमावारयांचक्रुर्महाचलमिवाऽम्बुदाः

॥२१॥

शवशैलो गृहीतोऽसौ कुम्भाण्डैः कटिभागतः ।

उदराद्रूपिकावृन्दैर्यक्षैः कुञ्जरविक्षतैः

॥२२॥

भुजोरुकन्धराद्यास्ते तस्यान्येऽवयवा यतः ।

ब्रह्माण्डस्य परं पारं प्राप्ताः परमविस्तृताः

॥२३॥

ततस्तैर्भूतसंघातैः स्थिता दूरे दिगन्तरे ।

न प्राप्ता वै हि तत्रैव कालेन कलिताः स्वयम्

॥२४॥

नृत्यन्त्यां चण्डिकायां खे भूतवृन्दे शवाकुले ।

देवेष्वद्रिषु तिष्ठत्सु बभूव भुवनं तदा

॥२५॥

पिण्डाहार्यामदुर्गन्धिगुण्ठीकृतककुब्गणम् ।

रक्तगर्भाभ्रनिर्व्यूहैः खादिरज्वलनोज्ज्वलम्

॥२६॥

मांसचर्वणसंरम्भप्रोद्यच्छवशवस्वनम् ।

लतास्थिखण्डनोड्डीनबृहत्कटकटारवम्

॥२७॥

भूतसंघट्टविश्लेषवशाद्भीषणनिःस्वनम् ।

हिमवद्विन्ध्यशैलाद्रिप्रमाणास्थ्यचलावृतम्

॥२८॥

देवीमुखानलज्वालापक्वमांसाक्तभूतलम् ।

रक्तसीकरनीहारसिन्दूरितककुब्गणम्

॥२९॥

सर्वतः प्रेक्षकैर्देवैः सप्राकारदिगन्तरम् ।

रुधिरैकार्णवीभूतसप्तद्वीपवसुन्धरम्

॥३०॥

अत्यन्तान्तर्हिताशेषसमस्ताचलमण्डलम् ।

रक्तप्रभाभ्रसंभारवस्त्रावृतदिगङ्गनम्

॥३१॥

वृत्तालोलभुजभ्रान्तहेतिच्छन्ननभस्तलम् ।

दूरस्मृतिपथप्राप्तपुरपत्तनमण्डलम्

॥३२॥

अत्यन्तासंभवद्रूपसर्वस्थावरजंगमम् ।

संपन्नानन्तकुम्भाण्डरूपिकाद्येकसंगमम्

॥३३॥

नृत्तलोककराकारखगावलनजालकैः ।

मानसूत्रैरिव विधेरन्यद्रचयतो जगत्

॥३४॥

भूमेरार्कगतं नीतैः पिशाचैरान्त्रतन्तुभिः ।

मिमानमिव दिक्कुञ्जैस्तिर्यगूर्ध्वमधो जगत्

॥३५॥

जगदालोक्य तत्तादृगुदक्तोपप्लवाप्लुतम् ।

भूतपूर्वमहीपीठस्थितिरक्तार्णवीकृतम्

॥३६॥

द्वीपसप्तकपर्यन्ते लोकालोकाद्रिमूर्धनि ।

तदङ्गकैरनाक्रान्ते स्थिताः खिन्नतराः सुराः

॥३७॥

श्रीराम उवाच ।

ब्रह्माण्डादपि निर्गत्य यस्य तेऽवयवा गताः ।

लोकालोकाचलस्तेन ब्रह्मन्न स्थगितः कथम्

॥३८॥

श्रीवसिष्ठ उवाच ।

द्वीपसप्तकमध्येऽस्मिन्राम तस्योदरं स्थितम् ।

शिरःखुरभुजाद्यङ्गं ब्रह्माण्डात्परतः स्थितम्

॥३९॥

पार्श्वाभ्यामूरुमध्याच्च कटिपार्श्वद्वयात्तथा ।

शिरोंसद्बयमध्याभ्यां लोकालोकः स लक्ष्यते

॥४०॥

तत्रोपविष्टास्ते देवा लक्ष्यन्ते श्रृङ्गमूर्धसु ।

सुशुद्धकान्तयस्तापादजला जलदा इव

॥४१॥

प्रसारिताङ्गकमधो वक्रं तत्पतितं शवम् ।

संभक्षयति भूतौघे प्रनृत्यन्तीषु मातृषु

॥४२॥

वहत्स्वसृक्प्रवाहेषु मेदोगन्धे विजृम्भिते ।

दुःखिताश्चिन्तयामासुः प्रत्येकममरा इदम्

॥४३॥

हा कष्टं क्व गता पृथ्वी क्व गता जलराशयः ।

क्व गता जनसंघाताः क्व गता धरणीधराः

॥४४॥

तादृक्चन्दनमन्दारकदम्बवनमण्डितः ।

मण्डपः पुष्पराशीनां कष्टं क्व मलयो गतः

॥४५॥

उच्चावदाता विपुला हिमवद्भूमयोऽपि ताः ।

नीताः शौक्ल्यरुषेवाशु रुधिरेणात्मपङ्कताम्

॥४६॥

क्रौञ्चद्वीपतले क्रौञ्चे योऽभूत्कल्पद्रुमो महान् ।

ब्रह्मलोकलसच्छाखः सोऽपि चूर्णत्वमागतः

॥४७॥

हा क्षीरार्णव पारिजातकमलाचन्द्रामृतानां पते

हा दध्यर्णव नावनीतशिखरिप्रोद्भूतवेलावन ।

हा मध्वर्णव नालिकेरगिरिके योगेश्वरीसेवित

क्वेदानीं समुपैष्यथ क्व वनिता दिग्दर्पणत्वं गताः

॥४८॥

हा कल्पद्रुमकाञ्चनामललतानिःसंधिबन्धाचल

क्रौञ्चद्वीपविरिञ्चहंसनलिनीनीरन्ध्रदिग्जालक ।

यातः क्वेह कदम्बकाननदरीविश्रान्तविद्याधरी-

क्रीडाकोविदनागरामरगृह त्वं पुष्करद्वीपक

॥४९॥

स्वादूदोदग्रतापावलकुसुममहीपावनानां वनानां

गोमेधद्वीपकल्पद्रुमकनकलतासुन्दरीणां दरीणाम् ।

शाकद्वीपाचलानाममरतरुवनैर्दंशितानां सितानां

स्मृत्यैवोदेति पुण्यं सुरपदसुखदं मानवानां नवानां

मन्दानिलावलितपल्लववालवल्ली-

संतानभासितसमस्तदिगन्तराणि ।

ध्वस्तानि तानि सकलानि वनानि कष्ट-

माश्वासमेष्यति कथं जनता न जाने

॥५१॥

कदा नु तानीक्षुरसाब्धितीरे

वनानि खण्डाचलभूमिकासु ।

द्रक्ष्येम भूयो गुडमोदकानि

तथा कुमाराण्यपि शर्करायाः

॥५२॥

कदम्बकल्पद्रुमशीतलेषु

तालीतमालीसवनाचलस्य ।

कदा नु तच्चन्दनसुन्दरीणां

पश्येम नृत्तं कनकालयेषु

॥५३॥

गतानि कष्टं स्मरणीयरूपतां

जम्बूद्रुमस्याग्रफलानि तान्यपि ।

येषां नदीं द्वीपसमुद्रमेखला

वहत्यसौ जम्बुमती रसाम्बुभिः

॥५४॥

शिलीन्ध्रनीरन्ध्रमहीध्ररन्ध्र-

क्षीबामरस्त्रीकृतगीतनृत्यम् ।

संस्मृत्य संस्मृत्य सुरोदतीरं

प्रागब्जमुर्वीव हृदावदीर्ये

॥५५॥

पश्यासृगम्भसि नवार्णवमूर्ध्नि भासा

सौवर्णपर्वतशताग्रशिखाः कचन्ति ।

संध्यारुणा उदयनास्तमयावनीनां

स्तोकोदितेन्दुकलिका इव दिङ्मुखेषु

॥५६॥

तादृक्सागरवारिराशिवलया द्वीपान्तरालंकृता

प्रोच्चाद्रीन्द्रनिविष्टवारिदघटानीलोत्पलानां स्थली ।

स्रोतोजङ्गलकाननोग्रनगरग्रामाग्रहाराम्बरा

नो जाने तरुपल्लवाङ्कुरवती कष्टं क्व याता मही

॥५७॥

इत्यार्षे श्रीवा० वाल्मी० दे० मो० नि० उ० अवि० वि० शवोपाख्याने देवपरिदेवनवर्णनं नाम चतुस्त्रिंशदधिकशततमः सर्गः ।। १३४।।