मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ९७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 97

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

कुम्भ उवाच ।

हेम्न्यस्ति देशकालान्ते इत्थं जन्यजनिक्रमः ।

न किंचिज्जायते शान्तान्न किंचित्प्रविलीयते

॥१॥

स्वसत्तायां स्थितं ब्रह्म न बीजं न च कारणम् ।

शुद्धानुभवमात्रं तत्तस्मादन्यन्न विद्यते

॥२॥

किंचिज्जगदहंतादि तदेवानन्तमस्ति हि ।

शिखिध्वज उवाच ।

शिवे जगदहंतादि मुने नास्तीति वेद्म्यहम्

॥३॥

सर्गवेदनमाभाति कथमेतद्वदाशु मे ।

कुम्भ उवाच ।

विस्तारं तदनाद्यन्तं तत्संविदिव तिष्ठति

॥४॥

तत्तद्भुवनमत्यच्छं तत्तन्मात्रं जगद्वपुः ।

न विज्ञानमयोऽर्थोऽस्ति न बाह्यो नापि शून्यता

॥५॥

वेदनामात्रसारत्वाद्यथा चित्सार उच्यते ।

द्रवत्वं सलिलस्येव चिदचित्त्वमकारणम्

॥६॥

स्वात्मनीशमनन्तं तद्यथास्थितमवस्थितम् ।

प्रतियोगिव्यवच्छेदाभावतः सत्त्वभावयोः

॥७॥

असत्त्वात्तेन परमे स्वच्छभावव्यवस्थता ।

यदि कारणतापत्तियोग्यं शान्तं पदं भवेत्

॥८॥

अनिङ्गितमनाभासमप्रतर्क्यं कथं भवेत् ।

अतो न कारणं नैव बीजं ब्रह्म कदाचन

॥९॥

कार्यस्य कस्यचिन्नाम तेन सर्गो न विद्यते ।

न चान्यथोपपत्तिर्हि सर्गस्यास्योपपद्यते

॥१०॥

चिन्मात्रकादृते तस्माज्जडसर्गो न विद्यते ।

यदिदं दृश्यते किंचित्तच्चिद्धनमिवोत्थितम्

॥११॥

अहंभावजगच्छब्दशब्दार्थरसरञ्जनम् ।

कार्यं न कारणाभावात्पदार्थे तूपपद्यते

॥१२॥

द्वित्वैक्याद्यात्मकं व्योमपुष्पवत्स्वानुभूतितः ।

वस्तु नाशैकनिष्ठत्वान्न वा ज्ञमुपपद्यते

॥१३॥

उपलम्भकरो नाशो जन्मनस्तस्य वा कुतः ।

अथ चैनं सदा सन्तं नित्यं नष्टं च वेत्सि वा

॥१४॥

पदार्थौघं तदेवेत्थमेकरूपेऽपि किं व्यथा ।

उपलम्भस्तु यश्चायमेषा चित्तचमत्कृतिः

॥१५॥

चित्तत्त्वमात्रसत्तास्ति द्वित्वमैक्यं च नास्त्यलम् ।

अतः पदार्थसत्ताया अभावे सति भूपते

॥१६॥

असंभवाद्भावनस्य नाहंताभावनास्ति ते ।

अहंभावासंभवतश्चित्तमन्यत्किमुच्यते

॥१७॥

इति चित्तमहंरूपं नास्त्यतो न च भिन्नता ।

निर्वासनः शान्तमना मौनी परनभोमयः

॥१८॥

सदेहो वा विदेहो वा भावस्थोऽप्यचलोपमः ।

संबन्धाच्छुद्धचिद्दृष्टेः पदार्थाभावसिद्धितः

॥१९॥

भावनाभावतश्चित्ते नास्त्येवाहमिति स्वयम् ।

एवं ब्रह्मेति वेदार्थभावनादनुभूतितः ।

चेतितार्थैकसत्यत्वाच्चिन्ता नाम क्व विद्यते

॥२०॥

तेनासि निर्मलमकारणमादिमुक्तं

तद्ब्रह्म शाश्वतमशेषमनेकमेकम् ।

शून्यं निरामयमसत्सदनादिमध्यं

सर्वं जगच्चिदपि ब्रह्म यथास्थितं तत्

॥२१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० शिखिध्वजप्रबोधनं नाम सप्तनवतितमः सर्गः ।। ९७ ।।