मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ४०

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 40

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवं निशाचराचारचिरघोरे रणाङ्गणे ।

अहनीव जनाचारे स्थिते यामावरेहिते

॥१॥

हस्तहार्यतमःपिण्डस्फुटकुड्ये निशागृहे ।

लाभोच्छदोच्चलचते भूतसङ्घे प्रवल्गति

॥२॥

निःशब्दे ध्वान्तसंचारे निद्रारुद्धककुब्गणे ।

लीलापतिरुदारात्मा किंचित्खिन्नमना इव

॥३॥

प्रातःकार्यं विचार्याशु मन्त्रिभिर्मन्त्रकोविदैः ।

दीर्घचन्द्रसमाकारे शयने हिमशीतले

॥४॥

चन्द्रोदरनिभे चारुगृहे शिशिरकोटरे ।

निद्रां मुहूर्तमगमन्मुद्रितेक्षणपुष्करः

॥५॥

अथ ते ललने व्योम तत्परित्यज्य तद्गृहम् ।

रन्ध्रैर्विविशतुर्वातलेखेऽब्जमुकुलं यथा

॥६॥

श्रीराम उवाच ।

कियन्मात्रमिदं स्थूलं शरीरं वाग्विदांवर ।

रन्ध्रेण तन्तुतनुना कथमाश्वाविशत्प्रभो

॥७॥

श्रीवसिष्ठ उवाच ।

आधिभौतिकदेहोऽहमिति यस्य मतिभ्रमः ।

तस्यासावणुरन्ध्रेण गन्तुं शक्नोति नानघ

॥८॥

रोधितोऽहमनेनेति न माम्यत्रेति यस्य धीः ।

अनुभूतानुभवती भवतीत्यनुभूयते

॥९॥

येनानुभूतं पूर्वार्धं गच्छामीति स तत्क्रियः ।

कथं भवति पश्चार्धं गमनोन्मुखचेतनः

॥१०॥

नहि वार्यूर्ध्वमायाति नाधो गच्छति पावकः ।

या यथैव प्रवृत्ता चित्सा तथैव प्रतिष्ठिता

॥११॥

छायायामुपविष्टस्य कुतस्तापानुभूतयः ।

यस्य संवेदनेऽन्योऽर्थः केनचिन्नानुभूयते

॥१२॥

यथा संवित्तथा चित्तं सा तथावस्थितिं गता ।

परमेण प्रयत्नेन नीयतेऽन्यदशां पुनः

॥१३॥

सर्पैकप्रत्ययो रज्ज्वामसर्पप्रत्यये बलात् ।

निवर्ततेऽन्यथा त्वेष तिष्ठत्येव यथास्थितः

॥१४॥

यथा संवित्तथा चित्तं यथा चित्तं तथेहितम् ।

बालं प्रत्यपि संसिद्धमेतत्को नानुभूतवान्

॥१५॥

यः पुनः स्वप्नसंकल्पपुरुषः प्रतिमाकृतिः ।

आकाशमात्रकाकारः स कथं केन रोध्यते

॥१६॥

चित्तमात्रं शरीरं तु सर्वस्यैव हि सर्वतः ।

विद्यते वेदनाच्चैतत्क्वचिदेतीव हृद्गतात्

॥१७॥

यथाभिमतमेवास्य भवत्यस्तमयोदयम् ।

आदिसर्गे स्वभावोत्थं पश्चाद्द्वैतैक्यकारणम्

॥१८॥

चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् ।

विद्ध्येतत्त्रयमेकं त्वमविनाभावनावशात्

॥१९॥

एतच्चित्तशरीरत्वं विद्धि सर्वगतोदयम् ।

यथासंवेदनेच्छत्वाद्यथासंवेदनोदयम्

॥२०॥

वसति त्रसरेण्वन्तर्ध्रियते गगनोदरे ।

लीयतेऽङ्कुरकोशेषु रसीभवति पल्लवे

॥२१॥

उल्लसत्यम्बुवीचित्वे प्रनृत्यति शिलोदरे ।

प्रवर्षत्यम्बुदो भूत्वा शिलीभूयावतिष्ठते

॥२२॥

यथेच्छमम्बरे याति जठरेऽपि च भूभृताम् ।

अनन्तराकाशवपुर्धत्तेऽथ परमाणुताम्

॥२३॥

देहस्यान्तर्बहिरपि दधद्वनतनूरुहम्

॥२४॥

भवत्याकाशमाधत्ते कोटीः पद्मजसद्मनाम् ।

अनन्याः स्वात्मनोऽम्भोधिरावर्तरचना इव

॥२५॥

अनुद्विग्नप्रबोधोऽसौ सर्गादौ चित्तदेहकः ।

आकाशत्मा महान्भूत्वा वेत्ति प्रकृततां ततः

॥२६॥

असत्यमेव वारित्वं बुद्ध्योदेतीव तत्तथा ।

वन्ध्यापुत्रोऽयमस्तीति यथा स्वप्ने भ्रमो नरः

॥२७॥

श्रीराम उवाच

किं चित्तमेतद्भवति किंवा भवति नौ कथम् ।

कथमेव न सद्रूपं नान्यद्भवति वीक्षणात्

॥२८॥

श्रीवसिष्ठ उवाच

प्रत्येकमेव यच्चित्तं तदेवंरूपशक्तिकम् ।

पृथक्प्रत्येकमुदितः प्रतिचित्तं जगद्भ्रमः

॥२९॥

क्षणकल्पजगत्संघा समुद्यन्ति गलन्ति च ।

निमेषात्कस्यचित्कल्पात्कस्यचिच्च क्रमं श्रृणु

॥३०॥

मरणादिमयी मूर्च्छा प्रत्येकेनानुभूयते ।

यैषा तां विद्धि सुमते महाप्रलययामिनीम्

॥३१॥

तदन्ते तनुते सर्गं सर्व एव पृथक्पृथक् ।

सहजस्वप्नसंकल्पान्संभ्रमाचलनृत्यवत्

॥३२॥

महाप्रलयरात्र्यन्ते चिरादात्ममनोवपुः ।

यथेदं तनुते तद्वत्प्रत्येकं मृत्यनन्तरम्

॥३३॥

श्रीराम उवाच

मृतेरनन्तरं सर्गो यथा स्मृत्यानुभूयते ।

चिरात्तथानुभवति नातो विश्वमकारणम्

॥३४॥

श्रीवसिष्ठ उवाच

महति प्रलये राम सर्वे हरिहरादयः ।

विदेहमुक्ततां यान्ति स्मृतेः क इव संभव

॥३५॥

अस्मदादिः प्रबुद्धात्मा किलावश्यं विमुच्यते ।

कथं भवन्तु नो मुक्ता विदेहाः पद्मजातयः

॥३६॥

अन्ये त्वमिव ये जीवास्तेषां मरणजन्मसु ।

स्मृतिः कारणतामेति मोक्षाभाववशादिह

॥३७॥

भवत्यद्रिर्धराधारो बद्धपीठो नभः शिराः ।

जीवो हि मृतिमूर्च्छान्ते यदन्तः प्रोन्मिषन्निव ।

अनुन्मिषित एवास्ते तत्प्रधानमुदाहृतम्

॥३८॥

तद्व्योमप्रकृतिः प्रोक्ता तदव्यक्तं जडाजडम् ।

संस्मृतेरस्मृतेश्चैव क्रम एष भवोदये

॥३९॥

बोधोन्मुखत्वे हि महत्तत्प्रबुद्धं यदा भवेत् ।

तदा तन्मात्रदिक्कालक्रिया भूताद्युदेति खात्

॥४०॥

तदेवोच्छूनमाबुद्धं भवतीन्द्रियपञ्चकम् ।

तदेव बुध्यते देहः स एषोऽस्यातिवाहिकः

॥४१॥

चिरकालप्रत्ययतः कल्पनापरिपीवरः ।

आधिभौतिकताबोधमाधत्ते चैष बालवत्

॥४२॥

ततो दिक्कालकलनास्तदाधारतया स्थिताः ।

उद्यन्त्यनुदिता एव वायोः स्पन्दक्रिया इव

॥४३॥

वृद्धिमित्थमयं यातो मुधैव भुवनभ्रमः ।

स्वप्नाङ्गनासङ्गसमस्त्वनुभूतोऽप्यसन्मयः

॥४४॥

यत्रैव म्रियते जन्तुः पश्यत्याशु तदेव सः ।

तत्रैव भुवनाभोगमिममित्थमिव स्थितम्

॥४५॥

व्योमैवानुभवत्यच्छमहं जगदिति भ्रमम् ।

व्योमरूपं व्योमरूपी जीवो जात इवात्मवान्

॥४६॥

सुरपत्तनशैलार्कतारानिकरसुन्दरम् ।

जरामरणवैक्लव्यव्याधिसंकटकोटरम्

॥४७॥

स्वभावाभावसंरम्भस्थूलसूक्ष्मचराचरम् ।

साव्ध्यद्व्युर्वीनदीशाहोरात्रिकल्पक्षणक्षयम्

॥४८॥

अहं जातोऽमुना पित्रा किलात्रेत्याप्तनिश्चयम् ।

इयं माता धनमिदं ममेत्युदितवासनम्

॥४९॥

सुकृतं दुष्कृतं चेदं ममेति कृतकल्पनम् ।

बालोऽभूवमहं त्वद्य युवेति विलसद्धृदि

॥५॥

प्रत्येकमेवमुदितः संसारवनखण्डकः ।

ताराकुसुमितो नीलमेघचञ्चलपल्लवः

॥५१॥

चरन्नरमृगानीकः सुरासुरविहंगमः ।

आलोककौसुमरजाः श्यामागहनकुञ्जकः

॥५२॥

अब्धिपुष्करिणीपूर्णो मेर्वाद्यचललोष्टकः ।

चित्तपुष्करबीजान्तर्निलीनानुभवाङ्कुरः

॥५३॥

यत्रैष म्रियते जीवस्तत्रैवं पश्यति क्षणात् ।

प्रत्येकमुदितेष्वेवं जगत्खण्डेषु भूरिशः

॥५४॥

कोटयो ब्रह्मरुद्रेन्द्रमरुद्विष्णुविवस्वताम् ।

गिर्यब्धिमण्डलद्वीपलोकान्तरदृशां गताः

॥५५॥

याता यास्यन्ति यान्त्येता दृष्टयो नष्टरूपिणीः ।

या ब्रह्मण्युपबृंहाढ्यास्ताः के गणयितुं क्षमाः

॥५६॥

एवं कुड्यमयं विश्वं नास्त्येव मननादृते ।

मनने चलमेवान्तस्तदिदानीं विचारय

॥५७॥

यदेव तच्चिदाकाशं तदेव मननं स्मृतम् ।

यदेव च चिदाकाशं तदेव परमं पदम्

॥५८॥

यदेवाम्बु स आवर्तो नत्वस्यावर्त वस्तु सन् ।

द्रष्टैवास्ते दृश्यमिव दृश्यं नत्वस्ति वस्तु सत्

॥५९॥

चिद्व्योम्नो भूतनभसि कचनं यन्मणेरिव ।

तज्जगद्भाविनानासत्तत्त्वं श्वभ्रमिवाम्बरे

॥६०॥

मद्बुद्धार्थो जगच्छब्दो विद्यते परमामृतम् ।

त्वद्बुद्धारर्थस्तु नास्त्येव त्वमहंशब्दकादपि

॥६१॥

तस्माल्लीलासरस्वत्यावाकाशवपुषौ स्थिते ।

सर्वगे परमात्माच्छे सर्वत्राप्रतिघेऽनघे

॥६२॥

यत्र यत्र सदा व्योम्नि यथाकामं यथेप्सितम् ।

उदयं कुरुतस्तेन तद्गेहेऽस्ति गतिस्तयोः

॥६३॥

सर्वत्र संभवति चिद्गगनं तदत्र

सद्वेदनं कलनमामननं विसारि ।

तच्चातिवाहिकमिहाहुरकुड्यमेव

देहं कथं क इव तं वद किं रुणद्धि

॥६४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने समरसमनन्तरसंस्मृत्यनुभववर्णनं नाम चत्वारिंशः सर्गः ।।४०।।