मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १२९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 129

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

तयोर्द्वयोर्मुनिश्रेष्ठ संपन्नं किमतः परम् ।

पश्चाद्विपश्चितोस्तस्य रुद्धयोर्वै विपश्चितोः

॥१॥

श्रीवसिष्ठ उवाच ।

तयोरेकश्चिराभ्यस्तवासनाविवशीकृतः ।

भ्रमन्द्वीपेषु देहौघैस्तामेव पदवीं गतः

॥२॥

तथैवावरणांस्त्यक्त्वा परमाकाशकोटरे ।

पश्यन्संसारलक्षाणि तथैवाद्यापि संस्थितः

॥३॥

तयोर्द्वितीयः स्वाभ्यस्तादादावासंगतेर्वशात् ।

त्यक्तवान्प्रभ्रमद्देहैरद्य शैले मृगः स्थितः

॥४॥

श्रीराम उवाच ।

एकैव वासना ब्रह्मन्या चतुर्णां सदोदिता ।

नानातां सा कथं प्राप्ता हीनोत्तमफलप्रदाम्

॥५॥

श्रीवसिष्ठ उवाच ।

स्वभ्यस्ता वासना जन्तोर्देशकालक्रियावशात् ।

तनुदार्ढ्यान्यतामेति घनदार्ढ्यैति नान्यताम्

॥६॥

देशकालक्रियाद्येतदेकता वासनैकता ।

तयोर्यदेव बलवत्तदेव जयति क्षणात्

॥७॥

एवं विभागेनैतेऽत्र चत्वारः समवस्थिताः ।

कृष्यन्ते द्वावविद्यार्थमन्यो मुक्तो मृगोऽपरः ।।

नाद्यापि तैरविद्याया लब्धोऽन्तो भ्रान्तिबुद्धिभिः ।

अनन्तेयमविद्येयमज्ञानपरिबृंहिता

॥९॥

क्षिप्रेण शान्ता भवति विज्ञानालोक आगते ।

अमूलमेव गलति तिमिरश्रीरिवोदये

॥१०॥

कालेनान्यजगज्जातं शृणु वृत्तं विपश्चितः ।

तस्मिन्दूरतरे देशे कस्मिंश्चित्संसृतिभ्रमे

॥११॥

क्वचिद्ब्रह्ममहाव्योम्नि कस्मिंश्चिद्दृश्यमण्डले ।

तस्य दृश्यात्मना प्राप्ते वस्तुतो ब्रह्मरूपिणि

॥१२॥

स एकः शुभसंगत्या विदुषां मध्यमागतः ।

दृश्यं यथावद्विज्ञाय ब्रह्मतामलमागतः

॥१३॥

तत्रैवाशु परिज्ञानात्साऽविद्या स च देहकः ।

मृगतृष्णाम्ब्विवाशान्तिमागतौ रागतन्त्रितौ

॥१४॥

इति ते सर्वमाख्यातं विपश्चिच्चेष्टितं स्फुटम् ।

अनन्तैवमविद्येयं ब्रह्मवत्तन्मयी यतः

॥१५॥

येन यत्रैव वर्षाणां लक्षलक्षाणि गम्यते ।

तत्र तत्र स्वभावेन चिता किमपि लक्ष्यते

॥१६॥

तदेवाश्वपरिज्ञातं मिथ्या विद्येति कथ्यते ।

परिज्ञातं तु तच्छान्तं तथा ब्रह्मेति कथ्यते

॥१७॥

भेदो न भेदस्तत्रायं भेदोऽयं यन्मयः किल ।

तद्ब्रह्मैव चिदाभासं चिद्रूपैव हि भिन्नता

॥१८॥

ब्रह्माण्डमण्डपस्यास्य भ्रमतेत्यविपश्चिता ।

लब्धो युगशतैरन्तो नाविद्याया विपश्चिता

॥१९॥

श्रीराम उवाच ।

स ब्रह्माण्डकपाटः किं न संप्राप्तो विपश्चिता ।

त्वयैतत्कथितं ब्रह्मन्न कथं वदतां वर

॥२०॥

श्रीवसिष्ठ उवाच ।

जातेनैव विरिञ्चेन पुरा ब्रह्माण्डमण्डलम् ।

द्वाभ्यामधस्तादूर्ध्वात्स्वभुजाभ्यां प्रविदारितम्

॥२१॥

भागस्तेनोर्ध्वतस्तस्मादतिदूरतरं गतः ।

अतो भागो गतोऽधस्तादतिदूरतरान्तरम्

॥२२॥

ताविवाश्रित्य तिष्ठन्ति जलाद्यावरणास्ततः ।

त एव च तदाधारा लम्बन्ते संस्थितास्तयोः

॥२३॥

एतयोर्मध्यमाकाशं विदुरण्डकपाटयोः ।

अपारावारमानीलमिदमालक्ष्यते तु यत्

॥२४॥

जलाद्यावरणास्तत्र न लगन्ति न सन्ति च ।

तद्धि निर्मलमाशून्यमालानं कल्पक्लृप्तिभिः

॥२५॥

तेन मार्गेण यातोऽसौ विपश्चिदृक्षचक्रवत् ।

अविद्यायाः परीक्षार्थमामोक्षमतिदीक्षितः

॥२६॥

ब्रह्मैवानन्तरूपेयमविद्या तन्मयी यतः ।

अतोऽस्ति साऽपरिज्ञाता परिज्ञाता न विद्यते

॥२७॥

विपश्चित इति प्राप्य दूराद्दूरं परेऽम्बरे ।

जगद्रूपेष्वविद्याया भ्रमन्त्यन्येषु केषुचित्

॥२८॥

कश्चिन्मुक्तो मृगः कश्चित्कौचिदद्यापि तौ क्वचित् ।

भ्रमतः प्राक्तनानल्पसंस्कारविवशीकृतौ

॥२९॥

श्रीराम उवाच ।

कीदृशेषु क्व दूरेषु ते जगत्सु विपश्चितः ।

भ्रमन्तीति मुने ब्रूहि मयि चेज्जायते कृपा

॥३०॥

कियत्यध्वनि संसारास्ते जाता येषु ते मुने ।

महदेतदिहाश्चर्यमस्माकं कथितं त्वया

॥३१॥

श्रीवसिष्ठ उवाच ।

स्थितौ विपश्चितौ राम तावुभौ जगतोर्ययोः ।

तेऽस्माकं गोचरं याते जगती यत्नतोऽपि नो

॥३२॥

तृतीयो मृगतां यातो विपश्चिद्यत्र तिष्ठति ।

स कदाचित्ससंसारो गोचरे नोऽवतिष्ठते

॥३३॥

श्रीराम उवाच ।

विपश्चिन्मृगतां यातो यस्मिञ्जगति संस्थितः ।

तज्जगत्क्व महाबुद्धे यथावत्कथयेति मे

॥३४॥

श्रीवसिष्ठ उवाच ।

दूराद्दूरतरं गत्वा परब्रह्ममहाम्बरे ।

मृगो विपश्चिज्जगति स यस्मिंस्तज्जगच्छणु

॥३५॥

तदिदं विद्धि त्रिजगदिहासौ संस्थितो मृगः ।

इदं तत्परमाकाशं दूरदूरे जगत्स्थितम्

॥३६॥

श्रीराम उवाच ।

विपश्चिदस्मादेवासौ जगतस्तां गतिं गतः ।

इहैवाद्य मृगो जातः कथमेतत्समञ्जसम्

॥३७॥

श्रीवसिष्ठ उवाच ।

अवयवानवयवी नित्यं वेत्ति यथाखिलान् ।

तथा सर्वानहं वेद्मि ब्रह्मण्यात्मन्यवस्थितान्

॥३८॥

अनिष्ठितान्ससंहारान्नानाकारांस्तु तान्बहून् ।

मिथः प्रोतान्मिथोदृश्यान्स्वरूपानिव पार्थिवान्

॥३९॥

तत्र कस्मिंश्चिदन्यस्मिन्मार्गेऽस्मिन्निव तिष्ठति ।

यद्वृत्तं कथितं राम तदेतद्भवते मया

॥४०॥

विपश्चितोऽन्यसंसारे देहैर्भ्रान्ता दिगन्तरान् ।

ताननन्ताम्बरे व्योम्नि तावत्कालमखिन्नधीः

॥४१॥

इहैव हरिणा जातः कस्मिंश्चिद्गिरिकन्दरे ।

काकतालीययोगेन भ्रान्त्वा भूरिजगद्भ्रमम्

॥४२॥

स जगन्ति भ्रमन्दूरे यस्मिन्सर्गे मृगः स्थितः ।

ससर्गोऽयमिति व्योम्नि काकतालीयवत्स्थितम्

॥४३॥

श्रीराम उवाच ।

एवं चेत्तद्वद ब्रह्मन्कस्यां ककुभि मण्डले ।

कस्मिन्कस्मिंश्च शैलेऽसौ वने कस्मिन्मृगः स्थितः

॥४४॥

किं करोति कथं दूर्वाश्चर्वयत्युर्वरास्पदः ।

जातिं तां जरठज्ञानी कदोदारां स्मरिष्यति

॥४५॥

श्रीवसिष्ठ उवाच ।

योऽसौ त्रिगर्तनाथेन दत्तः क्रीडामृगस्तव ।

स्थितः क्रीडामृगागारे विद्धि तं त्वं विपश्चितम्

॥४६॥

श्रीवाल्मीकिरुवाच ।

श्रुत्वेति राघवस्तस्यां सभायां विस्मयान्वितः ।

बालकान्मृगमानेतुं प्रेषयामास भूरिशः

॥४७॥

अथानीतो मृगो मुग्धः सभां स्फारां विवेश सः ।

सर्वैः सभ्यगणैर्दृष्टः पुष्टिमांस्तुष्टिमानपि

॥४८॥

ताराबिन्दुयुतं देहबिन्दुभिः खं विडम्बयन् ।

दृष्टिपातोत्पलासारैः सुन्दरीः परितर्जयन्

॥४९॥

आदृतानादृतसभैर्नीला मरकतत्विषः ।

धावंस्तृणेच्छया लोलं मुग्धैश्चकितवीक्षितैः

॥५०॥

उत्कर्णोन्नयनोद्ग्रीवं क्षणभङ्गावलस्थितैः ।

उत्कर्णनयनोद्ग्रीवैः सभ्यानाकुलयञ्जवैः

॥५१॥

मृगमालोक्य तं लोकाः सराजमुनिमन्त्रिणः ।

अनन्ता बत मायेति चिरमासन्स्मयाकुलाः

॥५२॥

आश्चर्यचर्वणसुविस्मितसर्वलोका सर्वावलोकनघनोत्पलवर्षकृष्णम् ।

रत्नांशुजालकचितं मृगमीक्षमाणा सासीत्सभा कमलिनी लिपिनिर्मितेव

॥५३॥

इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० विप० विपश्चिन्मृगलाभो नामैकोनत्रिशदधिकशततमः सर्गः ।। १२९ ।।