मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ८१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 81

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एतत्पञ्चकबीजं तु कुण्डलिन्यां तदन्तरे ।

प्राणमारुतरूपेण तस्यां स्फुरति सर्वदा

॥१॥

सान्तःकुण्डलिनीस्पन्दस्पर्शसंवित्कलामला ।

कलोक्ता कलनेनाशु कथिता चेतनेन चित्

॥२॥

जीवनाज्जीवतां याता मननाच्च मनःस्थिता ।

संकल्पाच्चैव संकल्पा बोधाद्बुद्धिरिति स्मृता

॥३॥

अहंकारात्मतां याता सैषा पुर्यष्टकाभिधा ।

स्थिता कुण्डलिनी देहे जीवशक्तिरनुत्तमा

॥४॥

अपानतामुपागत्य सततं प्रवहत्यधः ।

समाना नाभिमध्यस्था उदानाख्योपरि स्थिता

॥५॥

अधस्त्वपानरूपैव मध्ये सौम्यैव सर्वदा ।

पुष्टाप्युदानरूपैव पुंसः स्वस्यैव तिष्ठति

॥६॥

सर्वयत्नमधो याति यदि यत्नान्न धार्यते ।

तत्पुमान्मृतिमायाति तया निर्गतया बलात्

॥७॥

समस्तैवोर्ध्वमायाति यदि युक्त्या न धार्यते ।

तत्पुमान्मृतिमायाति तया निर्गतया बलात्

॥८॥

सर्वथात्मनि तिष्ठेच्चेत्त्यक्त्वोर्ध्वाधोगमागमौ ।

तज्जन्तोर्हीयते व्याधिरन्तर्मारुतरोधतः

॥९॥

सामान्यनाडीवैधुर्यात्सामान्यव्याधिसंभवः ।

प्रधाननाडीवैधुर्यात्प्रधानव्याधिसंभवः

॥१०॥

श्रीराम उवाच ।

किंविनाशाः किमुत्पादाः शरीरेऽस्मिन्मुनीश्वर ।

आधयो व्याधयश्चैव यथावत्कथयाशु मे

॥११॥

श्रीवसिष्ठ उवाच ।

आधयो व्याधयश्चैव द्वयं दुःखस्य कारणम् ।

तन्निवृत्तिः सुखं विद्यात्तत्क्षयो मोक्ष उच्यते

॥१२॥

मिथः कदाचिज्जायेते कदाचित्सममेव च ।

पर्यायेण कदाचिच्च आधिव्याधी शरीरके

॥१३॥

देहदुःखं विदुर्व्याधिमाध्याख्यं वासनामयम् ।

मौर्ख्यमूले हि ते विद्यात्तत्त्वज्ञाने परिक्षयः

॥१४॥

अतत्त्वज्ञानवशतः स्वेन्द्रियाक्रमणं विना ।

हृदि तानवमुत्सृज्य रागद्वेषेष्वनारतम्

॥१५॥

इदं प्राप्तमिदं नेति जाड्याद्वा घनमोहदाः ।

आधयः संप्रवर्तन्ते वर्षासु मिहिका इव

॥१६॥

भृशं स्फुरन्तीष्विच्छासु मौर्ख्ये चेतस्यनिर्जिते ।

दुरन्नाभ्यवहारेण दुर्देशाक्रमणेन च

॥१७॥

दुष्कालव्यवहारेण दुष्क्रियास्फुरणेन च ।

दुर्जनासङ्गदोषेण दुर्भावोद्भावनेन च

॥१८॥

क्षीणत्वाद्वा प्रपूर्णत्वान्नाडीनां रन्धसंततौ ।

प्राणे विधुरतां याते काये तु विकलीकृते

॥१९॥

दौःस्थित्यकारणं दोषाद्व्याधिर्देहे प्रवर्तते ।

नद्याः प्रावृण्निदाघाभ्यामिवाकारविपर्ययः

॥२०॥

प्राक्तनी चैहिकी वापि शुभा वाप्यशुभा मतिः ।

यैवाधिका सैव तथा तस्मिन्योजयति क्रमे

॥२१॥

आधयो व्याधयश्चैव जायन्ते भूतपञ्चके ।

कथं शृणु विनश्यन्ति राघवाणां कुलोद्वह

॥२२॥

द्विविधो व्याधिरस्तीह सामान्यः सार एव च ।

व्यवहारस्तु सामान्यः सारो जन्ममयः स्मृतः

॥२३॥

प्राप्तेनाभिमतेनैव नश्यन्ति व्यावहारिकाः ।

आधिक्षयेणाधिभवाः क्षीयन्ते व्याधयोऽप्यलम्

॥२४॥

आत्मज्ञानं विना सारो नाधिर्नश्यति राघव ।

भूयो रज्ज्ववबोधेन रज्जुसर्पो हि नश्यति

॥२५॥

आधिव्याधिविलासानां राम साराधिसंक्षयः ।

सर्वेषां मूलहा प्रावृण्नदीव तटवीरुधाम्

॥२६॥

अनाधिजा व्याधयस्तु द्रव्यमन्त्रशुभक्रमैः ।

चिकित्सकादिशास्त्रोक्तैर्नश्यन्त्यन्यैरिहाथवा

॥२७॥

स्नानमन्त्रौषधोपाया वक्तुश्चाधिगतानि च ।

त्वया चिकित्साशास्त्राणि किमन्यदुपदिश्यते

॥२८॥

श्रीराम उवाच ।

आधेः कथं भवेद्व्याधिः कथं च स विनश्यति ।

द्रव्यादितरया युक्त्या मन्त्रपुण्यादिरूपया

॥२९॥

श्रीवसिष्ठ उवाच ।

चित्ते विधुरिते देहः संक्षोभमनुयात्यलम् ।

तथाहि रुषितो जन्तुरग्रमेव न पश्यति

॥३०॥

अनवेक्ष्य पुरो मार्गममार्गमनुधावति ।

प्रकृतं मार्गमुत्सृज्य शरार्तो हरिणो यथा

॥३१॥

संक्षोभात्साम्यमुत्सृज्य वहन्ति प्राणवायवः ।

देहे गजप्रविष्टेन पयांसीव सरित्तटे

॥३२॥

असमं वहति प्राणे नाड्यो यान्ति विसंस्थितिम् ।

असम्यक्संस्थिते भूपे यथा वर्णाश्रमक्रमाः

॥३३॥

काश्चिन्नाड्यः प्रपूर्णत्वं यान्ति काश्चिच्च रिक्तताम् ।

प्राणाऽऽविधुरिते देहे सर्वतः सरितो यथा

॥३४॥

कुजीर्णत्वमजीर्णत्वमतिजीर्णत्वमेव वा ।

दोषायैव प्रयात्यन्नं प्राणसंचारदुष्क्रमात्

॥३५॥

यथा काष्ठानि नयति प्राचीदेशं सरिद्रयः ।

तथान्नानि नयत्यन्तः प्राणवातः स्वमाश्रयम्

॥३६॥

यान्यन्नानि निरोधेन तिष्ठन्त्यन्तःशरीरके ।

तान्येव व्याधितां यान्ति परिणामस्वभावतः

॥३७॥

एवमाधेर्भवेद्व्याधिस्तस्याभावाच्च नश्यति ।

यथा मन्त्रैर्विनश्यन्ति व्याधयस्तत्क्रमं शृणु

॥३८॥

यथा विरेकं कुर्वन्ति हरीतक्यः स्वभावतः ।

भावनावशतः कायं तथा यरलवादयः

॥३९॥

शुद्धया पुण्यया साधो क्रियया साधुसेवया ।

मनः प्रयाति नैर्मल्यं निकषेणेव काञ्चनम्

॥४०॥

आनन्दो वर्धते देहे शुद्धे चेतसि राघव ।

पूर्णेन्दावुदिते ह्यत्र नैर्मल्यं भुवने यथा

॥४१॥

सत्त्वशुद्ध्या वहन्त्येते क्रमेण प्राणवायवः ।

जरयन्ति तथान्नानि व्याधिस्तेन विनश्यति

॥४२॥

आधिव्याध्योरिति प्रोक्तौ नाशोत्पत्तिक्रमौ त्वयि ।

कुण्डलिन्याः कथायोगादधुना प्रकृतं शृणु

॥४३॥

पुर्यष्टकपराख्यस्य जीवस्य प्राणनामिकाम् ।

विद्धि कुण्डलिनीमन्तरामोदस्येव मञ्जरीम्

॥४४॥

तां यदा पूरकाभ्यासादापूर्य स्थीयते समम् ।

तदैति मैरवं स्थैर्यं कायस्यापीनता तथा

॥४५॥

यदा पूरकपूर्णान्तरायतप्राणमारुतम् ।

नीयते संविदेवोर्ध्वं सोढुं घर्मक्लमं श्रमम्

॥४६॥

सर्पीव त्वरितैवोर्ध्वं याति दण्डोपमां गता ।

नाडीः सर्वाः समादाय देहबद्धा लतोपमाः

॥४७॥

तदा समस्तमेवेदमुत्प्लावयति देहकम् ।

नीरन्ध्रं पवनापूर्णं भस्त्रेवाम्बु ततान्तरम्

॥४८॥

इत्यभ्यासविलासेन योगेन व्योमगामिना ।

योगिनः प्राप्नुवन्त्युच्चैर्दीना इन्द्रदशामिव

॥४९॥

ब्रह्मनाडीप्रवाहेण शक्तिः कुण्डलिनी यदा ।

बहिरूर्ध्वं कपाटस्य द्वादशाङ्गुलमूर्धनि

॥५०॥

रेचकेन प्रयोगेण नाड्यन्तरनिरोधिना ।

मुहूर्ते स्थितिमाप्नोति तदा व्योमगदर्शनम्

॥५१॥

श्रीराम उवाच ।

दर्शनं कीदृशं ब्रह्मन्नयनांशुगणं विना ।

अदिव्यानामिन्द्रियाणां तत्त्वमेव कथं भवेत्

॥५२॥

श्रीवसिष्ठ उवाच ।

न केचन महाबाहो भूचरेण नभस्वतः ।

अदिव्येनाश्रिता ज्ञानैर्दृश्यन्ते पुरुषेन्द्रियैः

॥५३॥

विज्ञानाद्दूरसंस्थेन बुद्धिनेत्रेण राघव ।

दृश्यन्ते व्योमगा सिद्धाः स्वप्नवत्स्वार्थदा अपि

॥५४॥

स्वप्नावलोकनं यद्वत्तद्वत्सिद्धावलोकनम् ।

केवलोऽथ विशेषोऽयं सिद्धप्राप्तौ स्थिरार्थता

॥५५॥

मुखाद्बहिर्द्वादशान्ते रेचकाभ्यासयुक्तितः ।

प्राणे चिरं स्थितिं नीते प्रविशत्यपरां पुरीम्

॥५६॥

श्रीराम उवाच ।

वद स्वभावस्य कथं ब्रह्मन्नचलसंस्थितिः ।

वक्तारः सानुकम्पा हि दुष्प्रश्नेऽपि न खेदिनः

॥५७॥

श्रीवसिष्ठ उवाच ।

शक्तिर्या तु स्वभावाख्या यथा स्फुरति चात्मनः ।

सर्गादिषु तथैवासौ स्थितिं यातीति निश्चयः

॥५८॥

अवस्तुत्वादविद्याया वस्तुशक्तिरपि क्वचित् ।

भिद्यते दृश्यते ह्यङ्ग वसन्ते शारदं फलम्

॥५९॥

सर्वमेवमिदं ब्रह्म नानाऽनानातया स्थितम् ।

जृम्भते व्यवहारार्थं केवलं कथितस्थिति

॥६०॥

श्रीराम उवाच ।

सूक्ष्मच्छिद्रादिगत्यर्थं पूरणार्थं च खस्य वा ।

अणुतां स्थूलतां वापि कायोऽयं नीयते कथम्

॥६१॥

श्रीवसिष्ठ उवाच ।

काष्ठक्रकचयोः श्लेषाद्यथा छेदः प्रवर्तते ।

द्वयोः संघर्षणादग्निः स्वभावाज्जायते तथा

॥६२॥

मांसं कुयन्त्रजठरे स्थितं श्लिष्टमुखं मिथः ।

ऊर्ध्वाधःसंमिलत्स्थूलद्ध्यम्भःस्थैरिव वैतसम्

॥६३॥

तस्य कुण्डलिनी लक्ष्मीर्निलीनान्तर्निजास्पदे ।

पद्मरागसमुद्गस्य? कोशे मुक्तावली यथा

॥६४॥

आवर्तफलमालेव नित्यं सलसलायते ।

दण्डाहतेव भुजगी समुन्नतिविवर्तिनी

॥६५॥

द्यावापृथिव्योर्मध्यस्था क्रियेव स्पन्दधर्मिणी ।

संविन्मधुविबोधार्को हृत्पद्मपुटषट्पदी

॥६६॥

तत्सर्वं शक्तिपद्मादि बाह्येनाभ्यन्तरैस्तया ।

हृदि व्याधूयते वातैः पत्रवृन्दमिवाभितः

॥६७॥

यद्वद्व्योम स्फुरत्यङ्ग स्यभावात्तत्र वायवः ।

बलवन्मृदु यत्किंचिद्भृशं कवलयन्ति तत्

॥६८॥

वातैराहन्यमानं तत्पद्मादि तरलायते ।

हृद्यन्यान्यैति कार्येण पल्लवादि यथा तरोः

॥६९॥

देहेष्वाजरणं सर्वरसानां पवनोऽन्वहम् ।

जनयत्यग्निमन्योन्यसंघर्षाद्वनवेणुवत्

॥७०॥

स्वभावशीतवातात्मा देहस्तेनौष्ण्यमेत्यथ ।

उदितेन स सर्वाङ्गे भुवनं भानुना यथा

॥७१॥

सर्वतो विचरेदस्मिंस्तत्तेजस्तारकाकृति ।

हृत्पद्महेमभ्रमरो योगिनां चिन्त्यतां गतम्

॥७२॥

तत्प्रकाशमयं ज्ञानं चिन्तितं सत्प्रयच्छति ।

येन योजनलक्षस्थं वस्तु नित्यं हि दृश्यते

॥७३॥

तस्याग्नेर्वाडवस्येव जलं संशुष्कमिन्धनम् ।

मांसपङ्कजखण्डाढ्यं हृत्सरः कोशवासिनः

॥७४॥

यदच्छं शीतलत्वं च तदस्यात्मेन्दुरुच्यते ।

इतीन्दोरुत्थितः सोऽग्निरग्नीषोमौ हि देहकः

॥७५॥

सर्वं तूष्णात्मकं किंचित्तेजोऽर्काग्न्यभिधं विदुः ।

शीतात्मकं तु सोमाख्यमाभ्यामेव कृतं जगत्

॥७६॥

विद्याविद्यास्वरूपेण सर्वं सदसदात्मना ।

जगद्वा येन निर्वृत्तं तदेवैवं विभज्यते

॥७७॥

संवित्प्रकाशं विद्यादि सूर्यमग्निं विदुर्बुधाः ।

असज्जाड्यं तमो विद्याद्याहुः सोमं मनीषिणः

॥७८॥

श्रीराम उवाच ।

वह्निर्वाय्वात्मनः सोमादुदेतीति मुनीश्वर ।

सोमस्योत्पत्तिमधुना वद मे वदतां वर

॥७९॥

श्रीवसिष्ठ उवाच ।

अग्नीषोमौ मिथः कार्यकारणे च व्यवस्थिते ।

पर्यायेण समं चैतौ प्रजीषेते परस्परम्

॥८०॥

जन्माङ्गबीजाङ्कुरवत्तथा दिवसरात्रिवत् ।

स्थितिश्छायातपसमा केवला सैतयोर्भवेत्

॥८१॥

तुल्यकालोपलम्भासावित्थं छायातपस्थितिः ।

केवलैकोपलम्भाढ्या स्थितिर्दिवसरात्रिवत्

॥८२॥

कार्यकारणभावश्च द्विविधः कथितोऽनयोः ।

सद्रूपपरिणामोत्थो विनाशपरिणामजः

॥८३॥

एकस्माद्यद्द्वितीयस्य संभवोऽङ्कुरबीजवत् ।

कार्यकारणभावोऽसौ सद्रूपपरिणामजः

॥८४॥

एकनाशे द्वितीयस्य यद्भावो दिनरात्रिवत् ।

कार्यकारणभावोऽसौ विनाशपरिणामजः

॥८५॥

सद्रूपपरिणामस्य मृद्घटक्रमसंस्थितेः ।

अक्षोपलम्भादितरत्प्रमाणं नोपयुज्यते

॥८६॥

विनाशपरिणामस्य दिनरात्रिक्रमस्थितेः ।

अभावोऽप्येकवस्तुस्थो गतो मुख्यप्रमाणताम्

॥८७॥

अनास्था नास्ति कर्तृत्वमित्याद्याऽऽयुक्तिवादिनः ।

अवज्ञया बहिष्कार्याः स्वानुभूत्यपलापिनः

॥८८॥

प्रत्यक्षवदभावोऽपि प्रमैव रघुनन्दन ।

अग्न्यभावोऽपि शीतस्य प्रमाणं सर्वजन्तुषु

॥८९॥

अग्निर्धूमतया भागाद्यां प्रयाति पयोदताम् ।

सद्रूपपरिणामेन तदग्निः सोमकारणम्

॥९०॥

अग्निर्नष्टतया शैत्यादसावेव प्रयाति यत् ।

विनाशपरिणामेन तदग्निः सोमकारणम्

॥९१॥

सप्ताम्बुधिपयः पीत्वा धूमोद्गारेण वाडवः ।

पयोदतां प्रयातेन तदेव जनयत्यलम्

॥९२॥

अर्कः पीत्वा निशानाथमामावास्यं पुनःपुनः ।

उद्गिरत्यमले पक्षे मृणालमिव सारसः

॥९३॥

पीत्वामृतोपमं शीतं प्राणः सोममुखागमे ।

अभ्रागमात्पूरयति शरीरं पीनतां गतः

॥९४॥

जलमप्युदपां भोगे प्रयात्यर्कस्य रश्मिताम् ।

सद्रूपपरिणामेन तज्जलं वह्निकारणम्

॥९५॥

नाशात्मकतया तोयमौष्ण्यत्वादेति ह्यग्निताम् ।

विनाशपरिणामेन तत्तोयं वह्निकारणम्

॥९६॥

अग्नेर्विनाशे सद्रूपपरिणामो निशाकरः ।

इन्दोर्विनाशे सद्रूपपरिणामो हुताशनः

॥९७॥

हुताशो नाशमागत्य सोमो भवति वै तथा ।

दिवसो नाशमागत्य रात्रिर्भवति वै यथा

॥९८॥

तमःप्रकाशयोश्छायातपयोर्दिनरात्रयोः ।

मध्ये विलक्षणं रूपं प्राज्ञैरपि न लभ्यते

॥९९॥

संधिरप्यविलोपः स्यादेतयोरेव तद्वपुः ।

भावाभावैर्यथैकास्थानिष्ठावेतौ तथैव हि

॥१००॥

द्वाभ्यां चैतन्यजाड्याभ्यां भूतानि प्रस्फुरन्ति हि ।

यथा तमःप्रकाशाभ्यामहोरात्रा महीतले

॥१०१॥

चिद्रूपजडरूपाभ्यामारब्धेयं जगत्स्थितिः ।

जलामृताभ्यां मिश्राभ्यां शीता तनुरिवैन्दवी

॥१०२॥

प्रकाशमनलं सूर्यं चिद्रूपं विद्धि राघव ।

जडात्मकं तमोरूपं विद्धि सोमशरीरकम्

॥१०३॥

चित्सूर्ये निर्मले दृष्टे नाम नश्येद्भवोदयम् ।

व्योमसूर्ये बहिर्दृष्टे यथा कृष्णनिशातमः

॥१०४॥

सोमदेहे जडे दृष्टे चिन्निजे सत्यवद्भवेत् ।

निशीथे विलसत्यब्जे यथा सौरप्रभाभरः

॥१॥

सोमं प्रकटयत्यग्निश्चिद्देहस्य चिरं प्रभाम् ।

स्वसंविन्मयमिन्दुश्चिद्देहस्थं रूपमर्कजम्

॥१०६॥

चिन्निष्क्रिया त्वनामा सा केवला नोपलभ्यते ।

आलोक इव दीपेन देहेनैवावगम्यते

॥१०७॥

चितश्चेत्योन्मुखत्वेन लाभः सैव च संसृतिः ।

निश्चेत्यायाः शुभो लाभो निर्वाणं वा तदेव हि

॥१०८॥

अन्योन्यलब्धसद्वाक्यावेवं कुड्यप्रकाशवत् ।

अग्नीषोमाविमौ ज्ञेयो संपृक्तौ देहदेहिनौ

॥१०९॥

अतिशायिनि निर्वाणे जाड्ये चैवातिशायिनि ।

अग्नीषोमस्य चैवाङ्ग स्थितिर्भवति केवला

॥११०॥

प्राणोऽग्निरुष्णप्रकृतिरपानः शीतलः शशी ।

छायातपवदित्येतौ संस्थितौ मुखमार्गगौ

॥१११॥

अपाने शीतले सत्तामेत्युष्णः प्राणपावकः ।

प्रतिबिम्बमिवादर्शे स च तस्मिंस्तथैव हि

॥११२॥

चिदग्निः पद्मपत्रस्थं सोमं वाचात्मकं त्विषा ।

जनयत्यनुभूत्येह कुड्यालोकं यथा बहिः

॥११३॥

संसृत्यादौ यथा काचित्संविच्छीतोष्णरूपिणी ।

अग्नीषोमाभिधां प्राप्ता सैव सर्गे नृणामिह

॥११४॥

यत्र सोमकला ग्रस्ता क्षणं सूर्येण षोडशी ।

मुखाद्वितस्तिमात्रं स्यात्तत्र बद्धपदो भव

॥११५॥

नूनं सूर्यपदं प्राप्तो यत्र सोमो हृदम्बरे ।

नूनं केवलया स्थित्या तत्र बद्धपदो भव

॥११६॥

उष्णमग्निश्चिदादित्यः शैत्यं सोम उदाहृतम् ।

यत्रैतौ प्रतिबिम्बस्थौ तत्र बद्धपदो भव

॥११७॥

शरीरे सोमसूर्याग्निसंक्रान्तिज्ञो भवानघ ।

तत्र संक्रान्तिकाला हि बाह्यास्तृणसमाः स्मृताः ।।

संक्रान्तिमुत्तरमथायनमङ्ग सम्य-

क्कालं तथा विषुवतौ यदि देहवातैः ।

अन्तर्बहिष्ठमिव वेत्सि यथानुभूतं

तच्छोभसेऽत्र न पुनः परमभ्युपेतः

॥११९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० अग्नीषोमविचारणं नामैकाशीतितमः सर्गः ।। ८१ ।।