मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ४

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 4

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवाल्मीकिरुवाच ।

कथयत्येवमुद्दामवचने मुनिनायके ।

श्रोतुमेकरसे जाते जने मौनमुपस्थिते

॥१॥

शान्तेषु किङ्किणीजालरवेषु स्पन्दनं विना ।

पञ्जरान्तरहारीतशुकेष्वप्यस्तकेलिषु

॥२॥

सुविस्मृतविलासासु स्थितासु ललनास्वपि ।

चित्रभित्ताविव न्यस्ते समस्ते राजसद्मनि

॥३॥

मुहूर्तशेषमभवद्दिवसं मधुरातपम् ।

व्यवहारा रविकरैः सह तानवमाययुः

॥४॥

ववुरुत्फुल्लकमलप्रकरामोदमांसलाः ।

वायवो मधुरस्पन्दाः श्रवणार्थमिवागताः

॥५॥

श्रुतं चिन्तयितुं भानुरिवाहोरचनाभ्रमम् ।

तत्याजैकान्तमगमच्छून्यमस्तगिरेस्तटम्

॥६॥

उत्तस्थुर्मिहिकारम्भसमता वनभूमिषु ।

विज्ञानश्रवणादन्तःशीतलाः शान्तता इव

॥७॥

बभूवुरल्पसंचारा जना दशसु दिक्ष्वपि ।

सावधानतया श्रोतुमिव संत्यक्तचेष्टिताः

॥८॥

छाया दीर्घत्वमाजग्मुर्वासिष्ठं वचनक्रमम् ।

इव श्रोतुमशेषाणां वस्तूनां दीर्घकन्धराः

॥९॥

प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् ।

देव स्नानद्विजार्चासु कालो व्यतिगतो भृशम्

॥१०॥

ततो वसिष्ठो भगवान्संहृत्य मधुरां गिरम् ।

अद्य तावन्महाराज श्रुतमेतावदस्तु वः

॥११॥

प्रातरन्यद्वदिष्यामि इत्युक्त्वा मौनवानभूत् ।

इत्याकर्ण्यैवमस्तूक्त्वा भूपतिर्भूतिवृद्धये

॥१२॥

पुष्पपाद्यार्घसन्मानदक्षिणादानपूजया ।

सदेवर्षिमुनीन्विप्रान्पूजयामास सादरम्

॥१३॥

अथोत्तस्थौ सभा सर्वा सराजमुनिमण्डला ।

मण्डलाकीर्णरत्नौघपरिवेषावृतानना

॥१४॥

परस्पराङ्गसंघट्टरणत्केयूरकङ्कणा ।

हारभाराहृतस्वर्णपट्टाभोरुस्तनान्तरा

॥१५॥

शेखरोत्सङ्गविश्रान्तप्रबुद्धमधुपस्वनैः ।

सघुंघुमशिरोभारा वदद्भिरिव मूर्धजैः

॥१६॥

काञ्चनाभरणोद्द्योतकनकीकृतदिंग्मुखाः ।

बुद्धिस्थमुनिवागर्थसंशान्तेन्द्रियवृत्तयः

॥१७॥

जग्मुर्नभश्चरा व्योम भूचरा भूमिमण्डलम् ।

चक्रुर्दिनसमाचारं सर्वे ते स्वेषु सद्मसु

॥१८॥

एतस्मिन्नन्तरे श्यामा यामिनी समदृश्यत ।

जनसङ्गाद्विनिर्मुक्ता गृहे बालाङ्गना यथा

॥१९॥

देशान्तरं भासयितुं ययौ दिवसनायकः ।

सर्वत्रालोककर्तृत्वमेव सत्पुरुषव्रतम्

॥२०॥

उदभूदभितः संध्या तारानिकरधारिणी ।

उत्फुल्लकिंशुकवना वसन्तश्रीरिवोदिता

॥२१॥

चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे ।

निलिल्यिरे खगाश्चित्तेऽवदाता वृत्तयो यथा

॥२२॥

भानोर्भासा भूषितैर्मेघलेशैः

किंचित्किंचित्कुङ्कुमच्छाययेव ।

पाश्चात्त्योऽद्रिः पीतवासाः समेघैः-

स्ताराहारः श्रीयुतः खं समेतः

॥२३॥

पूजामादाय संध्यायां प्रगतायां यथागतम् ।

अन्धकाराः समुत्तस्थुर्वेताला वपुषा यथा

॥२४॥

अवश्यायकणास्पन्दी हेलाविद्युतपल्लवः ।

कोमलः कुमुदाशंसी ववावाशीतलोऽनिलः

॥२५॥

परमान्ध्यमुपाजग्मुदिशोऽविस्फुटतारकाः ।

लम्बदीर्घतमःकेश्यो विधवा इव योषितः

॥२६॥

आययौ भुवनं तेजः क्षीरपूरेण पूरयन् ।

रसायनमयाकारः शशिक्षीरार्णवो नभः

॥२७॥

जग्मुस्तिमिरसंघाताः पलाय्य क्वाप्यदृश्यताम् ।

श्रुतज्ञानगिरश्चित्तान्महीपानामिवाज्ञताः

॥२८॥

ऋषयो भूमिपालाश्च मुनयो ब्राह्मणास्तथा ।

चेतसीव विचित्रार्थाः स्वास्पदेषु विशश्रमुः

॥२९॥

यमकायोपमाश्यामा ययौ तिमिरमांसला ।

आययौ मिहिकास्फारा तत्र तेषामुषः शनैः

॥३०॥

अन्तर्धानमुपाजग्मुस्तारा नभसि भासुराः ।

प्रभातपवनेनेव हृताः कुसुमवृष्टयः

॥३१॥

दृश्यतामाजगामार्कः प्रभोन्मीलितलोचनः ।

विवेकवृत्तिर्महतां मनसीव नवोदिता

॥३२॥

भानोर्भासा भूषितैर्मेघलेशैः

किंचित्किंचित्कुङ्कुमच्छाययेव ।

पूर्वक्ष्माभृत्पीतवासाः समेघै-

स्ताराहारः श्रीयुतः खं समेतः

॥३३॥

सभां पुनरुपाजग्मुर्नभश्चरमहीचराः ।

ह्यस्तनेन क्रमेणैव कृतप्रातस्तनक्रमाः

॥३४॥

पूर्ववत्संनिवेशेन विवेश सकला सभा ।

बभूवास्पन्दिताकारा वातमुक्तेव पद्मिनी

॥३५॥

अथ प्रसङ्गमासाद्य रामो मधुरया गिरा ।

उवाच मुनिशार्दूलं वसिष्ठं वदतां वरम्

॥३६॥

श्रीराम उवाच ।

भगवन्मनसो रूपं कीदृशं वद मे स्फुटम् ।

यस्मात्तेनेयमखिला तन्यते लोकमञ्जरी

॥३७॥

श्रीवसिष्ठ उवाच ।

रामास्य मनसो रूपं न किंचिदपि दृश्यते ।

नाममात्रादृते व्योम्नो यथा शून्यजडाकृतेः

॥३८॥

न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।

सर्वत्रैव स्थितं चैतद्विद्धि राम यथा नभः

॥३९॥

इदमस्मात्समुत्पन्नं मृगतृष्णाम्बुसंनिभम् ।

रूपं तु क्षणसंकल्पाद्द्वितीयेन्दुभ्रमोपमम्

॥४०॥

मध्ये यदेतदर्थस्य प्रतिभानं प्रथां गतम् ।

सतो वाप्यसतो वापि तन्मनो विद्धि नेतरत्

॥४१॥

यदर्थप्रतिभानं तन्मन इत्यभिधीयते ।

अन्यन्न किंचिदप्यस्ति मनो नाम कदाचन

॥४२॥

संकल्पनं मनो विद्धि संकल्पात्तन्न भिद्यते ।

यथो द्रवत्वात्सलिलं तथा स्पन्दो यथानिलात्

॥४३॥

यत्र संकल्पनं तत्र तन्मनोऽङ्ग तथा स्थितम् ।

संकल्पमनसी भिन्ने न कदाचन केचन

॥४४॥

सत्यमस्त्वथवाऽसत्यं पदार्थप्रतिभासनम् ।

तावन्मात्रं मनो विद्धि तद्ब्रह्मैव पितामहः

॥४५॥

आतिवाहिकदेहात्मा मन इत्यभिधीयते ।

आधिभौतिकबुद्धिं तु स आधत्ते चिरस्थितेः

॥४६॥

अविद्या संसृतिश्चित्तं मनो बन्धो मलस्तमः ।

इति पर्यायनामानि दृश्यस्य विदुरुत्तमाः

॥४७॥

नहि दृश्यादृते किंचिन्मनसो रूपमस्ति हि ।

दृश्यं चोत्पन्नमेवैतन्नेति वक्ष्याम्यहं पुनः

॥४८॥

यथा कमलबीजान्तः स्थिता कमलवल्लरी ।

महाचित्परमाण्वन्तस्तथा दृश्यं जगत्स्थितम्

॥४९॥

प्रकाशस्य यथाऽऽलोको यथा वातस्य चापलम् ।

यथा द्रवत्वं पयसि दृश्यत्वं द्रष्टरीदृशम्

॥५०॥

अङ्गदत्वं यथा हेम्नि मृगनद्यां यथा जलम् ।

भित्तिर्यथा स्वप्नपुरे तथा द्रष्टरि दृश्यधीः

॥९९॥

एवं द्रष्टरि दृश्यत्वमनन्यदिव यत्स्थितम् ।

तदप्युन्मार्जयाम्याशु त्वच्चित्तादर्शतो मलम्

॥५२॥

यद्द्रष्टुरस्याद्रष्टृत्वं दृश्याभावे भवेद्वलात् ।

तद्विद्धि केवलीभावं तत एवासतः सतः

॥५३॥

तत्तामुपगते भावे रागद्वेषादिवासनाः ।

शाम्यन्त्यस्पन्दिते वाते स्पन्दनक्षुब्धता यथा

॥५४॥

असंभवति सर्वस्मिन्दिग्भूम्याकाशरूपिणि ।

प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत्

॥५५॥

त्रिजगत्त्वमहं चेति दृश्येऽसत्तामुपागते ।

द्रष्टुः स्यात्केवलीभावस्तादृशो विमलात्मनः

॥५६॥

अनाप्ताखिलशैलादि प्रतिबिम्बे हि यादृशी ।

स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी

॥५७॥

अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसंभ्रमे ।

स्यात्तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे

॥५८॥

श्रीराम उवाच ।

सच्चेन्न शाम्यत्येवेदं नाभावो विद्यते सतः ।

असत्तां च न विद्मोऽस्मिन्दृश्ये दोषप्रदायिनि

॥५९॥

तस्मात्कथमियं शाम्येद्ब्रह्मन्दृश्यविषूचिका ।

मनोभवभ्रमकरी दुःखसंततिदायिनी

॥६०॥

श्रीवसिष्ठ उवाच ।

अस्य दृश्यपिशाचस्य शान्त्यै मन्त्रमिमं श्रृणु ।

रामात्यन्तमयं येन मृतिमेष्यति नङक्ष्यति

॥६१॥

यदस्ति तस्य नाशोऽस्ति न कदाचन राघव ।

तस्मात्तन्नष्टमप्यन्तर्बीजभूतं भवेद्धृदि

॥६२॥

स्मृतिबीजाच्चिदाकाशे पुनरुद्भूय दृश्यधीः ।

लोकशैलाम्बराकारं दोषं वितनुतेऽतनुम्

॥६३॥

इत्यनिर्मोक्षदोषः स्यान्न च तस्येह संभवः ।

यस्माद्देवर्षिमुनयो दृश्यन्ते मुक्तिभाजनम्

॥६४॥

यदि स्याज्जगदादीदं तस्मान्मोक्षो न कस्यचित् ।

बाह्यस्थमस्तु हृत्स्थं वा दृश्यं नाशाय केवलम्

॥६५॥

तस्मादिमां प्रतिज्ञां त्वं श्रृणु रामातिभीषणाम् ।

यामुत्तरेण ग्रन्थेन नूनं त्वमवबुध्यसे

॥६६॥

अयमाकाशभूतादिरूपोऽहं चेति लक्षितः ।

जगच्छब्दस्य नामार्थो ननु नास्त्येव कश्चन

॥६७॥

यदिदं दृश्यते किंचिद्दृश्यजातं पुरोगतम् ।

परं ब्रह्मैव तत्सर्वमजरामरमव्ययम्

॥६८॥

पूर्णे पूर्णं प्रसरति शान्ते शान्तं व्यवस्थितम् ।

व्योमन्येवोदितं व्योम ब्रह्मणि ब्रह्म तिष्ठति

॥६९॥

न दृश्यमस्ति सद्रूपं न द्रष्टा न च दर्शनम् ।

न शून्यं न जडं नो चिच्छान्तमेवेदमाततम्

॥७०॥

श्रीराम उवाच ।

वन्ध्यापुत्रेण पिष्टोऽद्रिः शशशृङ्गं प्रगायति ।

प्रसार्य भुजसंपातं शिला नृत्यति ताण्डवम्

॥७१॥

स्रवन्ति सिकतास्तैलं पठन्त्युपलपुत्रिकाः ।

गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो

॥७२॥

जरामरणदुःखादिशैलाकाशमयं जगत् ।

नास्तीति किमिदं नाम भवताऽपि ममोच्यते

॥७३॥

यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते ।

तथा कथय मे ब्रह्मन्येनैतन्निश्चितं भवेत्

॥७४॥

श्रीवसिष्ठ उवाच ।

नासमन्वितवागस्मि श्रृणु राघव कथ्यते ।

यथेदमसदाभाति वन्ध्यापुत्र इवाऽऽरवी

॥७५॥

इदमादावनुत्पन्नं सर्गादौ तेन नास्त्यलम् ।

इदं हि मनसो भाति स्वप्नादौ पत्तनं यथा

॥७६॥

मन एव च सर्गादावनुत्पन्नमसद्वपुः ।

तदेतच्छ्रणु वक्ष्यामि यथैवमनुभूयते

॥७७॥

मनोदृश्यमयं दोषं तनोतीमं क्षयात्मकम् ।

असदेव सदाकारं स्वप्नः स्वप्नान्तरं यथा

॥७८॥

तत्स्वयं स्वैरमेवाशु संकल्पयति देहकम् ।

तेनेयमिन्द्रजालश्रीर्विततेन वितन्यते

॥७९॥

स्फुरति वल्गति गच्छति याचते

भ्रमति मज्जति संहरति स्वयम् ।

अपरतामुपयात्यपि केवलं

चलति चञ्चलशक्तितया मनः

॥८०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे उत्पत्तिप्रकरणार्थकल्पनं नाम चतुर्थः सर्गः ।। ४ ।।