मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 18

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

मरणं सर्वनाशात्म न कदाचन विद्यते ।

स्वसंकल्पान्तरस्थैर्यं मृतिरित्यभिधीयते

॥१॥

पश्येमे पुर उह्यन्त इव मन्दरमेरवः ।

अरूढा अपि दिग्वातैः सरिद्बिम्बितशैलवत्

॥२॥

उपर्युपर्यन्तरतः कदलीदलपीठवत् ।

श्लिष्टाश्लिष्टस्वरूपाः खे मिथः संसृतयः स्थिताः

॥३॥

श्रीराम उवाच ।

पश्य मे पुर उह्यन्त इति वाक्यार्थमक्षतम् ।

न किंचिदवगच्छामि यथावन्मुनिनायक

॥४॥

श्रीवसिष्ठ उवाच ।

प्राणस्याभ्यन्तरे चित्तं चित्तस्याभ्यन्तरे जगत् ।

विद्यते विविधाकारं बीजस्यान्तरिव द्रुमः

॥५॥

मृते पुंसि नभोवातैर्मिलन्ति प्राणवायवः ।

सरिज्जलैरिवाम्भोधिजलान्यात्मद्रुतानि हि

॥६॥

इतश्चेतश्च यान्तीव तेषामन्तर्जगन्त्यलम् ।

व्योमवातविनुन्नानां संकल्पैकात्मकान्यपि

॥७॥

सप्राणवातैः पवनैः स्फुरत्संकल्पगर्भितैः ।

सर्वा एव दिशः पूर्णाः पश्यामीमाः समन्ततः

॥८॥

अत्रैते पश्य पश्यामि संकल्पजगताङ्गणे ।

बुद्धिदृष्ट्या समुह्यन्ते पुरो मन्दरमेरवः

॥९॥

खवातेऽन्तर्मृतप्राणाः प्राणानामन्तरे मनः ।

मनसोऽन्तर्जगद्विद्धि तिले तैलमिव स्थितम्

॥१०॥

खवातैः खसमाः प्राणा यथोह्यन्ते मनोमयाः ।

उह्यन्ते वै तथैतानि तदङ्गानि जगन्त्यपि

॥११॥

सभूतान्यम्बरोर्व्यादिवृन्दानि त्रिजगन्त्यपि ।

उह्यन्ते चाप्यरूढानि पुरः सर्वत्र गन्धवत्

॥१२॥

तानि बुद्ध्यैव दृश्यन्ते न दृष्ट्या रघुनन्दन ।

पुरः संकल्परूपाणि स्वस्वप्नपुरपूरवत्

॥१३॥

सर्वत्र सर्वदा सन्ति सुसूक्ष्माण्येव खादपि ।

कल्पनामात्रसारत्वान्न चोह्यन्ते मनागपि

॥१४॥

तान्येव दृढभावत्वात्स्वेषु लोकेषु तेष्वलम् ।

सत्यान्येव चिदंशस्य सर्वगत्वाद्भवानिव

॥१५॥

प्रतिबिम्बं पुराणीव पुरःप्राणसरिद्रये ।

अरूढान्यपि चोह्यन्ते रूढान्यपि च नैव च

॥१६॥

सौरभाणि समुह्यन्ते वाताङ्गस्थानि राघव ।

जगन्ति प्राणसंस्थानि व्योमात्मकमयानि तु

॥१७॥

कुम्भे देशान्तरं नीते यथान्तर्व्योन्नि नान्यता ।

स्पन्दनादिमये चित्ते तथैव त्रिजगद्भ्रमे

॥१८॥

इत्थं न सज्जगद्भ्रान्तिरसत्यैवोदितेव ते ।

न विनश्यति नोदेति केवलं ब्रह्मरूपिणी

॥१९॥

यदि वाप्युदिते वातैस्तत्तदस्या न लक्ष्यते ।

तदन्तःसंस्थितैः स्पन्दो नावि कोशगतैरिव

॥२०॥

यथा स्पन्दोऽङ्गलग्नायां नाव्यन्तःसंस्थितैरपि ।

न लक्ष्यते तथा पृथ्व्यां तत्संस्थैस्तन्मयैरपि

॥२१॥

यथा योजनविस्तीर्णं लघौ सद्मानुभूयते ।

यत्तस्य पादपस्तम्भे परमाणौ यथा जगत्

॥२२॥

वस्त्वल्पमप्यतिवृहल्लघुसत्त्वो हि मन्यते ।

मूषिकाः स्वाञ्जलिद्रव्यं नवपङ्कमिवार्भकाः

॥२३॥

असत्येव स्वरूपेऽस्मिञ्जगदाख्ये विदो भ्रमे ।

लोकान्तराधर्ममयी सा बृंहगस्य भावना

॥२४॥

इदं हेयमुपादेयमिदमित्यन्तरज्ञता ।

यस्य तस्य भवायास्ति सर्वज्ञस्यापि मूढता

॥२५॥

सचेतनो ह्यवयवी चेतत्यवयवान्यथा ।

स्वान्तरेव ततं जीवस्त्रिजगद्बुध्यते तथा

॥२६॥

संविदात्मपराकाशमनन्तमजमव्ययम् ।

व्योम्नोऽवयवरूपाणि तस्येमानि जगन्ति भोः

॥२७॥

सचेतनोऽयःपिण्डोऽन्तः क्षुरसूच्यादिकं यथा ।

बुद्ध्यते बुद्ध्यते तद्वज्जीवोऽज्ञस्त्रिजगद्भ्रमम्

॥२८॥

अचिच्चिद्वापि मृत्पिण्डः शरावोदञ्चनादिकम् ।

यथाङ्ग मनुते जीवस्तथाङ्ग मनुते जगत्

॥२९॥

चिदचिद्वाङ्कुरो देहे वृक्षत्वं मन्यते यथा ।

वृक्षशब्दार्थरहितं ब्रह्मेदं त्रिजगत्तथा

॥३०॥

चिद्वाचिद्वा यथादर्शो बिम्बितं वाप्यबिम्बितम् ।

नगरं वेत्ति नो वापि तथा ब्रह्म जगत्त्रयम्

॥३१॥

देशकालक्रियाद्रव्यमात्रमेव जगत्त्रयम् ।

अहंत्वजगतोस्तेन भेदो नास्त्येतदात्मनोः

॥३२॥

कल्पितेनोपमानेन यदेतदुपदिश्यते ।

तत्रोपमैकदेशेन उपमेयसधर्मता

॥३३॥

यदिदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् ।

अमुञ्चतः पराणुत्वं जीवस्यैतत्स्मृतं वपुः

॥३४॥

सर्वसंवेदनत्यागे शुद्धसंस्पन्ददे पदे ।

न मनागपि भेदोऽस्ति निःसङ्गोपलकोशवत्

॥३५॥

यो यो नाम विकल्पांशो यत्र यत्र यथा यथा ।

यदा यदा येन येन दीयते स तथैव चित्

॥३६॥

अचित्त्वान्नास्ति मनसि संकल्पः ख इवाङ्कुरः ।

चित्त्वात्तु चेतसो विद्धि चितिरेवेह कल्पनम्

॥३७॥

या योदेति विकल्पश्रीरप्रबुद्धाशयं प्रति ।

सर्वगत्वादनन्तत्वाच्चिद्व्योम्नः सा न सन्मयी

॥३८॥

यथोदेति विकल्पश्रीः प्रबुद्धे नोदितैव सा ।

सर्वगत्वादनन्तत्वाच्चिद्व्योम्नः सा न सन्मयी

॥३९॥

सर्वसंकल्पकलना सत्येत्याबालमक्षतम् ।

स्वप्नादावनुभूतोन्तरर्थः केनापि लभ्यते

॥४०॥

संकल्पो वासना जीवस्त्रयोऽर्था लिखिताश्चिता ।

सोनुभूतोऽप्यसत्यः स्यादसत्त्वस्यैव नो सतः

॥४१॥

असत्यताभिधं सत्यं मुक्त एव भवेच्छिवः ।

सातिवाहिकदेहैकपरिक्षयविकासवान्

॥४२॥

जगन्ति वातैरुह्यन्ते व्योम्नि शाल्मलितूलवत् ।

नोह्यन्ते चोपलानीव न च सन्त्येव कल्पनात्

॥४३॥

इत्यस्मिन्नखिलपदार्थसार्थकोशे

व्योमन्यप्यतिवितते जगन्ति सन्ति ।

अन्योन्यं परिमिलितानि कानिचिच्च

नान्योन्यं परिमिलितानि कानिचिच्च

॥४४॥

सर्वत्वात्परमचितेरनन्तरूपा-

ण्यारम्भप्रचुरदिगन्तसंभृतानि ।

लोलाम्बूदरपुरबिम्बभङ्गुराणि

स्वान्तःस्थाविरलमहापुरोपमानि

॥४५॥

सस्थैर्याण्यपि सततं क्षणक्षयाणि

व्यक्ताक्षाण्यपि सततं निमीलितानि ।

सालोकान्यपि परितस्तमोवृतानि

चिद्रूपार्णवलहरीविवर्तनानि

॥४६॥

पृथक्स्थितानि व्यतिमिश्रितानि

जलानि चैवाम्बुनिधौ नदीनाम् ।

तारार्कचन्द्रग्रहमण्डलानां

समोदितानां नभसीव भासः

॥४७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ० वि जगज्जालकोशसाधर्म्ययोगोपदेशो नामाष्टादशः सर्गः ।।१८ ।।