मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 19

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

मुने जीवस्य यद्रूपमाकृतिग्रहणं तथा ।

यथा च परमात्मत्वं स्थानं यच्चास्य तद्वद

॥१॥

श्रीवसिष्ठ उवाच ।

स्वसंकल्पेन चेत्योक्तं चिदित्यपरनामकम् ।

अनन्तं चेतनाकाशं जीवशब्देन कथ्यते

॥२॥

न पराणुर्न च स्थूलं न शून्यं न च किंचन ।

चिन्मात्रं स्वानुभूत्यात्म सर्वगं जीव उच्यते

॥३॥

अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।

न किंचिन्मात्रकं चैव सर्वं जीवं विदुर्बुधाः

॥४॥

यस्य यस्य पदार्थस्य यो भावस्तेन तत्र तम् ।

स्थितं विद्धि तदाभासं तदात्मैकान्तवेदनात्

॥५॥

स चेतति यथा यत्र यद्यदाशु तदेव हि ।

तथा तत्र तदा राम भवत्यनुभवात्मकम्

॥६॥

पवनस्य यथा स्पन्दश्चेत्यं जीवस्य वै तथा ।

स्वसंविन्मात्रनिर्णेयं नोपदेशाम यक्षवत्

॥७॥

यथैवास्पन्दनाद्वातः सन्नेवैत्य सदात्मताम् ।

तथैवाचेतनाज्जीवो जीवन्नेति परां गतिम्

॥८॥

जीवश्चिद्धनरूपत्वादहमित्येव चेतनात् ।

देशकालक्रियाद्रव्यशक्तीर्निर्माय तिष्ठति

॥९॥

देशकालक्रियाद्रव्यचर्चिताचर्चितां स्वयम् ।

असत्यां सत्यवत्स्फारां तावन्मात्रशरीरिकाम्

॥१०॥

चेतसा ह्यसदाकारां प्रालेयपरमाणुताम् ।

पश्यत्यात्मन्यथात्मत्वे स्वप्ने स्वमरणोपमाम्

॥११॥

स्वप्नस्वावयवान्यत्वसदृशीं तां विभावयन् ।

विस्मृत्य चेतनां सत्तां तत्तामेवाशु गच्छति

॥१२॥

एवंरूपो बुध्यमानः प्रोच्छूनत्वमथात्मनि ।

पश्यत्याशु स्वमात्मानं चन्द्रबिम्बमिव द्रुतम्

॥१३॥

आत्मन्यथेन्दुबिम्बात्मन्यसौ संवित्तिपञ्चकम् ।

काकतालीयवद्भिन्नमुदितं चेतति स्वयम्

॥१४॥

पञ्चानां संविदां पञ्च भिन्नान्यङ्गान्यसावथ ।

बुध्यते तानि तद्रूपरन्ध्राण्यनुभवत्यपि

॥१५॥

स पञ्चावयवः पश्चाद्राजते पुरुषो विराट् ।

अनन्ताकारसंवित्तिरव्यक्तात्मा निरामयः

॥१६॥

मनोमयोऽसावुदितः परस्मात्प्रथमोत्थितः ।

आकाशविशदः शान्तो नित्यानन्दविभामयः

॥१७॥

स चाप्यपञ्चभूतात्मा पञ्चभूतात्मकोपमः ।

विराडात्मैकपुरुषः परमः परमेश्वरः

॥१८॥

स्वयमेवाशु भवति स्वयमेव विलीयते ।

स्वयमेव प्रसरति स्वयं संकोचमेति च

॥१९॥

स्वसंकल्पकृतेनासौ कल्पौघेन क्षणेन च ।

यदृच्छयोदेति पुनः पुनर्भूत्वोपशाम्यति

॥२०॥

मनोमात्रैकरूपात्मा प्रकृतेर्देह एष सः ।

एष पुर्यष्टकं प्रोक्तः सर्वस्यैवातिवाहिकः

॥२१॥

सूक्ष्मः स्थूलोऽम्बरात्मैष व्यक्तोऽव्यक्तोन्तवर्जितः ।

सर्वस्य बहिरन्तश्च न किंचित्किंचिदेव च

॥२२॥

अङ्गानि राम तस्याष्टौ मनःषष्ठानि पञ्च च ।

साहंभावानीन्द्रियाणि भावाभावमयानि च

॥२३॥

तेन गीता इमे वेदाः सहशब्दार्थकल्पनाः ।

नियतिः स्थापिता तेन तथाद्यापि यथास्थिता

॥२४॥

अनन्तमूर्ध्वं मूर्धास्य तथाधः पादयोस्तलम् ।

अपराकाशमुदरमिदं ब्रह्माण्डमण्डपम्

॥२५॥

लोकान्तराण्यनन्तानि पार्श्वकाः क्षतजं पयः ।

मांसपेश्यः क्षितिधराः सरितः संतताः शिराः

॥२६॥

रक्ताधारा जलधयो द्वीपान्येवान्त्रवेष्टनम् ।

बाहवः ककुभः स्फारास्तारका रोमसंततिः

॥२७॥

पञ्चाशदनिलस्कन्धा एकोनाः प्राणवायवः ।

मार्तण्डमण्डलं चण्डं पित्तं जठरपावकः

॥२८॥

शशाङ्कमण्डलं जीवः श्लेष्मा शुक्रं सितं बलम् ।

मनः संकल्पकोशात्म सारात्मा परमामृतम्

॥२९॥

मूलं शरीरवृक्षस्य बीजं कर्मद्रुमस्य च ।

प्रसवात्सर्वभावानामिन्दुरानन्दकारणम्

॥३०॥

यदिन्दुमण्डलं नाम स सम्राड् जीव उच्यते ।

शरीरकर्ममनसां बीजं मूलं च कारणम्

॥३१॥

अस्मादिन्दुविराड्जीवात्प्रसरन्ति जगत्त्रये ।

जीवा मनांसि कर्माणि सुखान्यत्रामृतानि च

॥३२॥

विराज एते संकल्पा ब्रह्मविष्णुहरादयः ।

तस्य चित्तचमत्काराः सुरासुरनभश्चराः

॥३३॥

चित्स्वभावो बुध्यमानः प्रालेयपरमाणुताम् ।

यदादौ भावयत्याशु तदा तत्रैव तिष्ठति

॥३४॥

तेनैतदेव जीवस्य स्थानं विद्धि रघूद्वह ।

पञ्चावयवमेतत्तच्छरीरमनुभूयते

॥३५॥

विराड्जीवाच्चन्द्रमसो जीवभूतानि देहिनाम् ।

प्रसरन्त्यन्नजातानि प्रालेयविसरात्मना

॥३६॥

तान्येव देहिदेहेषु जीवा जीवन्ति जीविषु ।

मनो भूत्वा विचेष्टन्ते कर्म जन्मसु कारणम्

॥३७॥

एवं विराट्सहस्राणि महाकल्पशतानि च ।

गतान्यथ भविष्यन्ति नानाचाराणि सन्ति च

॥३८॥

सर्वतोऽनुभवरूपयानया

सत्तयोत्तमपदादभिन्नया ।

अन्तवर्जितमहाङ्गसङ्गया

तिष्ठतीति पुरुषः परो विराट्

॥३९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे विराडात्मवर्णनं नामैकोनविंशः सर्गः ।। १९ ।।