मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः १०४

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 104

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अत्र ते श्रृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् ।

जागतीहेन्द्रजालश्रीश्चित्तायत्ता यथा स्थिता

॥१॥

अस्त्यस्मिन्वसुधापीठे नानावनसमाकुलः ।

उत्तरापाण्डवो नाम स्फीतो जनपदो महान्

॥२॥

नीरन्ध्रघनगम्भीरवनविश्रान्ततापसः ।

विद्याधरीकृतलतादोलोपवनपत्तनः

॥३॥

वातोद्धूताञ्जकिञ्जल्कपुञ्जपिञ्जरपर्वतः ।

लसत्कुसुमसंभारवनमालावतंसकः

॥४॥

करञ्जमञ्जरीकुञ्जगुच्छपर्यन्तजङ्गलः ।

खर्जूरान्तरितग्रामो घुंघुमध्वनिताम्बरः

॥५॥

एकपिङ्गशिलाश्रेणीशालिकेदारपिङ्गलः ।

नीलकण्ठारवोद्दामवनजङ्गलमण्डितः

॥६॥

सारसारवसंरम्भरणत्कनककाननः ।

तमालपाटलीनीलगिरिग्रामककुण्डलः

॥७॥

विचित्रविहगव्यूहविरावकृतकाकलिः ।

नदीपरिसरोन्निद्रपारिभद्रद्रुमारुणः

॥८॥

गायत्कलमकेदारदारिकाहृतमन्मथः ।

पुष्पफलचलद्वातव्याधूतकुसुमाम्बुदः

॥९॥

दरीगृहविनिष्क्रान्तसिद्धचारणबन्दिकम् ।

स्वर्गादिव समानीय लावण्यमभिनिर्मितः

॥१०॥

गायत्किन्नरगन्धर्वकदलीखण्डमण्डपः ।

मन्दानिलरवोद्भूतः पुष्पोपवनपाण्डुरः

॥११॥

तत्रास्ति लवणो नाम राजा परमधार्मिकः ।

हरिश्चन्द्रकुलोद्भूतो भूमाविव दिवाकरः

॥१२॥

यद्यशःकुसुमोत्तंसपाण्डुरस्कन्धमण्डलाः ।

तत्र शैला विराजन्ते हाराः प्रोद्धूलिता इव

॥१३॥

कृपाणशकलोत्कृत्तनिःशेषारातिमण्डलः ।

अरातिलोकः प्राप्नोति यदनुस्मरणाज्ज्वरम्

॥१४॥

यस्योदारसमारम्भमार्यलोकानुपालनम् ।

चरितं संस्मरिष्यन्ति हरेरिव चिरं जनाः

॥१७॥

यस्याप्सरोमिरद्रीन्द्रमूर्धस्वमरसद्मसु ।

विकासिपुलकोल्लासं गीयन्ते गुणगीतयः

॥१६॥

यस्य स्वःसुन्दरीगीता लोकपालचिरश्रुताः ।

विरिञ्चिहंसैर्ध्वन्यन्ते स्वभ्यासाद्गुणगीतयः

॥१७॥

स्वप्नेष्वपि न सामान्या यस्योदारचमत्कृतिः ।

राम दृष्टा श्रुता वापि दैन्यदोषमयी क्रिया

॥१८॥

जिह्मतां यो न जानाति न दृष्टा येन धृष्णुता ।

उदारता येन धृता ब्रह्मणेवाक्षमालिका

॥१९॥

दिनाष्टभागमाकाशमागते दिवसाधिपे ।

स कदाचित्सभास्थाने सिंहासनगतोऽभवत्

॥२०॥

सुखोपविष्टे तत्रास्मिन्राजनीन्दाविवाम्बरे ।

प्रविशन्तीषु सामन्तसेनासु च ससंभ्रमम्

॥२१॥

गायन्तीष्वथ कान्तासु सूपविष्टेषु राजसु ।

मनो हरति साह्लादे वीणावंशकलारवे

॥२२॥

चारुचामरहस्तासु सविलासासु राजनि ।

देवासुरगुरुप्रख्ये विश्रान्ते मन्त्रिमण्डले

॥२३॥

प्रस्तुतेषु प्रविष्टेषु राजकार्येषु मन्त्रिभिः ।

प्रोक्तासु देशवार्तासु निपुणैश्चारुमन्त्रिभिः

॥२४॥

इतिह्यसमये पुण्ये वाच्यमाने च पुस्तके ।

पठत्सु च स्तुतीः पुण्याः पुरः प्रह्वेषु वन्दिषु

॥२५॥

सभां विवेश साटोपः कश्चित्तामैन्द्रजालिकः ।

वर्षेणाहितसंरम्भो वसुधामिव वारिदः

॥२६॥

स ननाम महीपालं शिखरोदारकन्धरम् ।

पादोपान्तगतः कान्तं शैलं फलतरुर्यथा

॥२७॥

सच्छायस्योन्नतांसस्य फलिनः पुष्पभासिनः ।

स विवेश पुरो राज्ञस्तरोरग्रे कपिर्यथा

॥२८॥

चपलो लम्पटोऽर्थानामामोदसुखमारुतम् ।

उवाचोत्कन्धरं भूपं सपद्ममिव षट्पदः

॥२९॥

विलोकय विभो तावदेकामिह खरोलिकाम् ।

पीठस्थ एव साश्चर्यां व्योम्नि चन्द्र इवावनिम्

॥३०॥

इत्युक्त्वा पिच्छिका तेन भ्रामिता भ्रमदायिनी ।

नानाविरचनाबीजं मायेव परमात्मनः

॥३१॥

तां ददर्श महीपालस्तेजोरेणुविराजिताम् ।

शक्रः सुरविमानस्थः स्वकार्मुकलतामिव

॥३२॥

सभां सैन्धवसामन्तो विवेशास्मिन्क्षणे तदा ।

तारापरिकरापूर्णां व्योमवीथीमिवाम्बुदः

॥३३॥

तं चैवानुजगामाश्वः सौम्यः परमवेगवान् ।

देवलोकोन्मुखं तुष्टं शक्रमुच्चैःश्रवा इव

॥३४॥

स तमश्वमुपादाय पार्थिवं समुवाच ह ।

सोच्चैःश्रवा इव क्षीरसागरो मरुतां पतिम्

॥३५॥

इदमुच्चैःश्रवःप्रख्यं हयरत्नं महीपते ।

जवोडुयनशीलेन मूर्तिमानिव मारुतः

॥३६॥

अश्वोऽयमस्मत्प्रभुणा प्रभो संप्रहितस्त्वयि ।

राजते हि पदार्थश्रीर्महतामर्पणाच्छुभा

॥३७॥

इत्युक्तवति तस्मिंस्तु प्रत्युवाचैन्द्रजालिकः ।

जलदस्तनिते शान्ते चातकोऽम्बुधरं यथा

॥३८॥

सदश्वमेनमारुह्य भुवनं विहर प्रभो ।

स्वप्रतापाहितानल्पशोभामुर्वीं रविर्यथा

॥३९॥

अश्वमालोकयामास तेनोक्त इति पार्थिवः ।

निर्घातस्तनितं मेघं मयूर इव सूत्करः

॥४०॥

अथानिमेषया दृष्ट्या राजा चित्रोपमाकृतिः ।

बभूवालोकयन्नश्वं लिपिकर्मार्पितोपमः

॥४१॥

क्षणमालोक्य पीठस्थस्तस्थौ संस्थगितेक्षणः ।

दृष्ट्याऽऽक्षुब्धः समुद्रोऽद्रिमीनकैः करवो यथा

॥४२॥

तस्थौ मुहूर्तयुग्मं स ध्यानासक्त इवात्मनि ।

वीतरागो मुनिः क्षुब्धः परानन्द इव स्थितः

॥४३॥

बोधितः केनचिन्नासौ स्वप्रतापजितोर्जितः ।

धिया कामप्ययं भूयश्चिन्तां चिन्तयतीति च

॥४४॥

बभूवुः केवलं तत्र निःस्पन्दसितचामराः ।

चामरिण्यो हि शर्वर्यः स्तम्भितेन्दुकरा इव

॥४५॥

विरेजुर्विस्मयापूर्णा निःस्पन्दास्ते सभासदः ।

निःस्पन्दकिञ्जल्कदलाः पद्माः पङ्ककृता इव

॥४६॥

प्रशशाम सभास्थाने जनकोलाहलः शनैः ।

प्रशान्तप्रावृषि व्योमन्याम्भोदमिव गर्जितम्

॥४७॥

संदेहसागरे मग्ना जग्मुश्चिन्तां सुमन्त्रिणः ।

विषीदति गदापाणावसुराजाविवामराः

॥४८॥

विततविस्मितजिह्नितया तया

जनतया भयमोहविषण्णया ।

स्तिमितचक्षुषि भूमिपतौ स्थिते

मुकुलिताज्जवनस्य धृता द्युतिः

॥४९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने नृपव्यामोहो नाम चतुरुत्तरशततमः सर्गः ।। १०४ ।।